भट्टिकाव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ

भट्टिकाव्यम् इति भट्टिना विरचितं प्रसिद्धं काव्यम्। अस्मिन् काव्ये काण्डचतुष्टयं विद्यते । २२ सर्गाः च । एतस्य मुख्यमुद्देश्यन्तु व्याकरणसूत्राणां सर्वेषामपि उदाहरणप्रदानं वर्तते । अतः एव काठिन्यं तेन सह प्रौढिमा च आधिक्येन दृश्यते । रावणवधमिति अपरनाम्नापि प्रतिथमिदं व्याकरणशास्त्रकाव्यं शास्त्रकाव्येषु प्रथमस्थानमलङ्करोति । प्रतिपादनसौकुमार्येण गाम्भीर्येण च अन्यशास्त्रकाव्यानां मातृका भवतीदमिति प्रथा नातिशयोक्तिः । अस्य द्वाविंशतिसर्गाः चतसृषु खण्डेषु विभक्ताः ।

  • प्रकीर्णकाण्डम्
  • अधिकारकाण्डम्
  • प्रसन्नकाण्डम्
  • तिङन्तकाण्डम्

प्रकीर्णाधिकारकाण्डयोः अष्टाध्यायीसूत्राण्युदाहरन्ति । तृतीये अलङ्काराणां तथा चतुर्थे लकारप्रयोगविशेषाणाम् उदाहरणानि वर्तन्ते। व्याकरणशास्त्रेण साकं त्रेतायुगस्थश्रीरामकथास्मिन् वर्णिता। श्रीरामस्य जननात् रावणवधानन्तरम् अयोध्याप्रत्यागमनपर्यन्तं चरितं काव्यरूपेण कविना वर्णितम्। व्याख्यानस्य साहाय्यं विना काव्यस्यास्य अनधीतवैयाकरणैः अवगमनं क्लिष्टसाध्यम्।

भट्टिकाव्यमिति लोके प्रथितं रावणवधमहाकाव्यं विदुषाम्‌ अतीव प्रियम्‌ । अस्य कर्ता भट्टिः । एतत्पदं तु भर्तृशब्दस्य प्राकृतं रूपम्‌ इति केचित्‌ कथयन्ति । अस्य कवेः देशकालमतादिविषये नाधिकं जानीमो वयम्‌ । कविरात्मनो विषये न किमपि कथयति । काव्यस्यान्ते तु एकं पद्यमुपलभ्यते यत्‌ किञ्चित्‌ कवेर्विषयं द्योतयति ।

यथा काव्यमिदं विहितं मया वलभ्यां श्रीधरसूनुनरेन्द्रपालितायाम्‌ ।
कीर्तिरतो भवतान्नृपस्य तस्य प्रेमकरः क्षितियो यतः प्रजानाम्‌ ।।

अनेनपद्येन ज्ञायते काव्यरचनावेलायां भट्टिः वलभीनाम्न्यां नगर्यामुवास । तदा तां नगरीं श्रीधरसूनुर्नरेन्द्रः पालयति स्मेति । किन्तु विमर्शकाः श्रीधरसेननरेन्द्रपालितायाम्‌ इति पाठमाद्रियन्ते । धरसेनाः चत्वारः पञ्चमषष्ठशतमानयोः वलभीं शासति स्मेति इतिहासज्ञाः कथयन्ति । प्रायः भट्टिः षष्ठे शतके भूमण्डलमलंचकार । आलङ्कारिको भामहो भट्टिकाव्यं दृष्टवानिति सम्भाव्यते । तत्र किं कारणमिति चेद्‌ भट्टिकाव्यस्यान्ते

पद्‌वयमेवमस्ति दीपतुल्यः प्रबन्धोयं शब्दलक्षणचक्षुषाम्‌ ।
हस्तामर्शशवान्धानां भवेद्‌ व्याकरणाद्‌ ऋते ।।
व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम्‌।
हता दुर्मेधसश्चास्मिन्‌ विद्वत्प्रियतया मया ।।इति ।

एतद्‌ दृष्टवैव भामहेन काव्यालङ्कारे प्रोक्तं काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्‌ । उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।। अतो भामहात्‌ पूर्ववर्ती भट्टिरित्यत्रापि न सन्देहः । रावणवधम्‌ इति काव्यस्य नाम स्पष्टतया न क्वापि कविना सूचितम्‌ । सर्गान्तवाक्येषु भट्टिकाव्यम्‌ इत्येव नाम दृश्यते । तथापि विषयमाश्रित्य रामचरितम्‌, रावणवधम्‌, रामकाव्यम्‌ इत्यपि नामधेयानि लभ्यन्ते । तेषु रावणवधम्‌ इति जनप्रियम्‌ । एतच्च माघकृतं शिशुपालवधं स्मारयति । अस्मिन्‌ काव्ये द्वाविंशतिः सर्गास्सन्ति । रामसम्भावाद्‌ आरभ्य रामस्य अयोध्यागमनपट्टाभिषेक पर्यन्ता कथात्र निरू पिता । कथायाः रचनायां कविना किमपि नौतन्यं न प्रदर्शितम्‌ । वाल्मीकिना कथिता कथैव स्ववचोभिः कथिता । कथनप्रकारे एव कवेः प्रतिभा विलसति । कवेरुद्देशो व्याकरणबोधनम्‌ इति प्रतिभाति । पाणिनेः सूत्रैः निष्पादिताः शब्दाः अत्र प्रयुक्ताः । अतोऽतीव व्युत्पादकं काव्यमिदमित्यत्र नैव संशयः । व्याख्याकाराः काव्येऽस्मिन्‌ चत्वारि काण्डानि पश्यन्ति । आदौ चत्वारः सर्वाः प्रकीर्णकाण्डमिति, ततः पञ्च सर्गाः अधिकारकाण्डमिति, ततः चत्वारः सर्गाः प्रसन्नकाण्डमिति, अवशिष्टाः नव सर्गाः तिङन्तकाण्डमिति च अभिधीयन्ते । प्रकीर्णकाण्डे सूत्राणां क अमानुगतिर्नास्ति । विविधानि रूपाणि तत्र प्रदर्श्यन्ते । विशेषतः तिङन्तरूपाणि ।

आदौ पद्यत्रयं दृश्यताम्‌ -

अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः ।
गुणैर्वरंभुवनहितच्छलेन यं सनातनः पितारमुपागमत्‌ स्वयम्‌ ।।
सोऽध्यैष्ट वेदास्त्रिदशानयष्ट पितृन्‌ अपारीत्‌ सममंस्त बन्धून्‌ ।
व्यजेष्ट षडवर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ।।
वसूनि तोयं घनवद्‌ व्यतारीत्‌ सहासनं गोत्रभिदाध्यवात्सीत्‌।
न त्र्यम्बकादन्यमुपास्थितासौ यशांसि सर्वेषुभृतां निरास्थत्‌ ।।

अत्र तिङन्तानि लुङि प्रयुक्तानि । इत उत्तरं चतुर्थे पद्ये लिट्‌ दृश्यते (जज्वाल लोकस्थितये स राजा) । पदे पदे व्याकरणविशेषाः सर्वत्र दृश्यन्ते । विबुधसख इत्यत्र राजाहस्सखिभ्यष्ट्यू, परन्तप इत्यत्र द्विषत्परयोस्तापे खचि ह्रस्वः इत्यादि । प्रथमसर्गस्यान्यदेकं पद्यं विलोक्यताम्‌

स शुश्रुवांस्तद्‌ वचनं मुमोह राजासहिष्णुः सुतविप्रयोगम्‌ ।
अहंयुनाऽथ क्षितिपः शुभंयुरू चे वचस्तापसकुञ्जरेण ।।

भाषायां सदवसश्रुवः इति सूत्रेण शुश्रुवस्‌शब्दः सिध्यति। हिष्णुशब्दस्तु अलंकृञानिराकृञ्ख् प्रजनोत्पचोत्पतोन्मदरुच्यपत्रप्रवृतु वृधुसहचर इष्णुच्‌ इति सूत्रेण । अहंशुभयोर्युस्‌ इति सूत्रेण अहंयुः शुभंयुः इति शब्दो सिद्धौ । तापसकुञ्जरेण इत्यत्र तापसः कुञ्जरः इवेति विग्रहः। उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण समासः। क्षितिं पातीति क्षितिपः। आतोऽनुपसर्गे कः इति सूत्रेण कप्रत्ययः। आतो लोप इटि च इति सूत्रेण धातोराकारस्य लोपः । उपपदमतिङ्‌ इति सूत्रेण समासः । इत्थं भट्टिकाव्ये सर्वत्र व्याकरणसूत्राणि स्मरणीयानि। तृतीयसर्गस्थं पद्यमेकं पश्यन्तु दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च । रोरुद्यमानः स तदाभ्यपृच्छद्‌ यथावदाख्यन्नथ वृत्तमस्मै ।। दिदृक्षमाणः द्रष्टुमिच्छुरित्यर्थः। दृश्‌धातोः सन्नन्ताच्छानच्‌। दृश्‌ परस्मैपदी। पूर्ववत्‌ सनः इति सूत्रात्‌ सन्नन्तादपिददृशः परस्मैपदं प्राप्नोति। किन्तु ज्ञाश्रुस्मृदशां सनः इत्यपवादसूत्रं प्रवर्तते। तेनात्मनेपदमेव। जिज्ञात्पते शुश्रूषते सुस्मूर्षते दिदृक्षते इति। अतः शानजेव। रोरुद्यमानः इति यङन्तात्‌ शानच्‌। धातोरेकालो हलादेः क्रियासमभिहारे यङ्‌। अनुदात्तङित आत्मनेपदम्‌। तङानावात्मनेपदम्‌ इत्यादीनि सूत्राणि अत्र स्मर्तव्यानि। यथावदिति यथा अर्हति इत्यर्थे। तदर्हम्‌ इति सूत्रेण वतिः। आख्यन्‌ इत्यत्रअस्यतिवक्त्रिख्यातिभ्योङ्‌। एव व्याकरणविशेषा अत्र ज्ञेयाः।

सर्गसारः[सम्पादयतु]

प्रथमः सर्गः[सम्पादयतु]

महाप्रतापो देवेन्द्रसखो विद्वान् इष्टापूर्तकर्माऽनुष्ठाता नीतिकुशलो दशरथो नाम भूपालो बभूव । सोऽमरावतीसदृशीमतिरुचिरां विज्ञजनाऽध्यासितां सुन्दरभवनोद्यानसमलङ्कृतामयोध्यामध्यास्त । तस्य कौशल्या, कैकेयी, सुमित्रा चेति तिस्रो राज्ञ्यः आसन् । बहुकालपर्यन्तं तिसृष्वपि राज्ञीष्वनपत्यत्वान्महाराजेन दशरथेन पुत्रेष्टेरनुष्ठानाऽर्थं विभाण्डकसुत ऋषिवर ऋष्यशृङ्गो वाराङ्गनाभिः स्वां पुरमानीतः । स च ऋषिः नृपाऽभिप्रायं विदित्वा विधिपूर्वकं यज्ञमनुष्ठितवान् । कर्मसमाप्तेरनन्तरं तिस्रोऽपि महिष्यो यज्ञशेषं पायसमभक्षयन् । तदनु ताः राजपन्योऽन्तर्वल्यो बभूवुः । नियतसमये कौशल्या राम, कैकेयी भरतं, सुमित्रा लक्ष्मणं शत्रुघ्नं च असूत । विद्वद्वरिष्ठो वसिष्ठस्तेषां राजपुत्राणां जातकर्मारभ्योपनयनाऽन्तं संस्कारनिचयं क्रमतोऽकरोत् । ततो दशरथनन्दनास्ते रामचन्द्रादयः साऽङ्गवेदाऽध्ययनपूर्वक धनुर्वेदमधिजगिरे । अनन्तरं यज्ञादिकर्मसु राक्षसर्बहुशः प्रत्ययूव्यूहं समनुभूय गाधिसुतो महर्षिविश्वामित्रः कर्मपरिरक्षणाऽर्थं सलक्ष्मणं रामं याचितु' महाराजं दशरथमभ्यगात् । दशरथो मधुपकदिभिस्तं सम्भाव्यागमनकारणमपृच्छदनन्तरं तदाशयं ज्ञात्वा पुत्रविरहाऽसहिष्णुतया मुमोह । ततः सायुधयो रामलक्ष्मणयोविश्वामित्राऽनुगमनकाले वियोगव्यथिती अपि पुरतरुण्यो मङ्गलभङ्गभीताः सत्यो मा रुदन् । तत्समये विप्रैराशीर्वचनानि प्रयुक्तानि, मंगलवाद्यानि वादितानि, दक्षिणी भुजः पुस्फोर, शुभशकुनाः शकुन्ताश्च वृक्षेषु चुकूनुः ।

द्वितीयः सर्गः[सम्पादयतु]

अनुजेन लक्ष्मणेन सह विश्वामित्रमनुसरन् रामस्तस्याः पुर्या निर्याय यत्र तत्र शारदीं लक्ष्मीमपश्यत् । कासारादीनां जलाशयानां विमलं जलं प्रफुल्लानि कमलानि व तन्मनो जहः । जगदचनीयं रामं मुनिवराः पुष्पफलेनाऽऽचिषुः । अथ विश्वामित्रो राम विजयां जयां च विद्यामध्यापिपत् । तथा तस्मै अमोघमस्त्रनिचयं च दत्तवान् । रामस्तस्मिन्नेवान्तरे हननोद्यतां ताडकाऽऽख्यां राक्षसीं निजघान । ततोऽतिथिसत्कारशीला वनवासिनो रामलक्ष्मणयोर्मधुपर्कादिभिः सत्कारमकुर्वन् प्रार्थयंश्च हवीरक्षणम् ।

अरमन्त च ते रामरक्षकत्वे स्वीयं यज्ञाऽनुष्ठानम् । ततो राक्षसा यज्ञनाशाऽर्थं समागतास्तत्र बहवो लक्ष्मणेन हताः । संलापाऽनन्तरं रामो मारीचं तृणवत्सङ्ग्रामान्निरास्थत् । ततो विश्वामित्रेण रामः प्रशंसितो नीतश्च लक्ष्मणेन सह मैथिलयज्ञभूमिम् । रामो हसन् हरधनुरमाङ्क्षीत् । ततो जनकेनाहूतो राजा दशरथः पुत्रविक्रमश्रवणेन अतीवप्रीतमनाः सन् पुत्रविवाहसम्पादनार्थं चतुरङ्गबलसमन्वितो भूत्वा मिथिलां समाययौ । ततश्चतुर्णामपि दशरथपुत्राणां मैथिलराजकुमारीभिः सह महता समारोहेण विवाहसंस्कारः समभवत् । रामो जनकतनयां सीतां समासाद्य अधिकं शुशुभे । ततस्तेऽयोध्याप्रयाणद्यताः सन्तः पथि धानुष्कं परशुराममपश्यन् । जामदग्न्यो रामश्च दाशरथिं रामं स्वं धनुषः सबाणत्वकरणार्थमुच्चैराहूतवान् । दशरथश्च स्वपुत्रनाशाऽऽशङ्क्या परशुरामसंरम्भाऽपनयाऽर्थं प्रार्थयत् अवज्ञातश्च तेन । रामः परशुरामं स्वविक्रमेणाऽपगतमदं विधाय ससुखं सहगणं चाऽयोध्यामगात्।

तृतीयः सर्गः[सम्पादयतु]

विजितमूपसमाजो महाराजो दशरथो गुणगणाऽभिरामं रामं लोकप्रियं राजकार्यनिर्वाहकं चाऽभिसमीक्ष्य ‘सुतं राज्येऽभिषेच्ये' इत्याकारिकाया घोषणायाः प्रकाशेन लोक आनन्दाऽभिवृद्धिं चकार । ततो बहुविधेषु राज्याऽभिषेकोपकरणेषु सम्पादितेषु कैकेयी तमुत्सवं द्रष्टुमशक्नुवाना सती मातामहावासं प्राप्तवन्तं भरतमपृष्टैव रामस्य वनप्रयाणं ववार । तन्मतिपरिवर्तनाऽर्थं दशरथेन बहुशः प्रलोभने कृतेऽपि कैकेयी स्वकीयनिर्बन्धतो न विरराम । ततः सीतालक्ष्मणोपेतस्य रामस्य विवशेन राज्ञा दशरथेन सुमन्त्रसारथिना रथेन वनप्रयाण आदिष्टे सति प्रजामण्डलेषु शोकविकुलः कलकलः समभवत् । सर्वेऽपि प्रजाजना रामाऽनुगमने मतिं चक्रुः । ततस्तान्सर्वानपि रामः सान्त्वयामास । रामः प्रजाजनाऽनुसरणमीत्या एकमेव रजनीं शयित्वा प्रभातेऽलक्षितगतिमङ्गीकृत्याऽपासरत् । तेऽपि प्रजाजना; शोचन्तः ससूतं निवृत्ताः । दशरथोऽपि रामेण विना सुमन्त्रमवलोक्य भृशं शोकार्तो भूत्वा प्राणानपि अत्यजत् । महिष्योऽपि वैधव्यव्यथिताः सत्यः। सोरस्ताडं चुक्रुशः । सचिवास्ताः सान्त्वयित्वा राज्ञः शवं तैले निक्षिप्य भरताऽनयनार्थं दूतान् प्रास्थापयन् । भरतो मातामहावासे बहूनि दुःशकुनानि विलोकयन्नासीत्, अतो नेकविधशङ्काकुलो भूत्वा सत्वरमयोध्यामागात् । आगमनाऽनन्तरं क्षणादेव सकलमपि वृत्तान्तं ज्ञात्वा भरतो मातरं कैकेयीमुच्चरुपालब्ध शोकसागरे चाऽविरतं न्यमाङ्क्षीत् । सचिवास्तं सान्त्वयित्वा तेनैव राज्ञः सकलमपि और्ध्वदेहिकं संस्कारमकारयन् श्राद्धसमाप्त्यनन्तरं भरतोऽभिषेकं त्यक्त्वा रामं प्रत्यानिनीषुः सन् सपौरो भूत्वा वनं प्रायात् । ततो भरतादयस्तमसायास्तीरं सम्प्राप्य विश्रामोत्तरं यमुनायां स्नातुं चलिताः मार्गे भारद्वाजस्य योगबलोपनतया विभूत्या सम्पन्नमतिथिसत्कारं समनुभूय ते चित्रकूटाद्रौ रामेण सह सङ्गताश्च । रामोऽपि भरतात्पितुर्मरणं श्रुत्वा शोकाऽऽक्रान्तमानसोऽभवत्, चिरं रुदित्वा नदीं गत्वा पित्रे जलाञ्जलिमदात् । बहुशः प्रार्थनासु कृतास्वपि रामप्रत्यानयने भरतोऽसफलः सञ्जातः, अनन्तरं रामादेशेन रामपादुकाद्वयं गृहीत्वा सपौरः सन् अयोध्यां प्रतिनिवृत्तश्च।

चतुर्थः सर्गः[सम्पादयतु]

सपौरे भरते निवृत्ते रामो दण्डकारण्यं सम्प्राप । ततो महारण्यभ्रमणसमये विराधाऽऽख्यो राक्षसो राममहरत् । रामलक्ष्मणाभ्यां स हतश्च । ततस्ते शरभङ्गाश्रमं गतवन्तः । शरभङ्गश्च रामाय सुतीक्ष्णमुनेराश्रमं कथयित्वा तस्य पुरोऽग्नौ स्वकीयं वपुर्जुवाञ्चक्र । रामः सुतीक्ष्णाश्रमसन्निधौ पर्णशालां निर्माय कञ्चित्कालं यावत्तस्यामुवास, अरक्षच्च बहुविधेभ्यस्त्रासहेतुभ्यो मुनीन् । एकदा पर्णशालास्थितो रामः शूर्पणखया नाम राक्षस्या विलोकितः । मायया वरनारीवेषधारिण्या तया सपत्नीकत्वेन रामोऽवज्ञातो लक्ष्मणः प्रार्थितश्च । रामप्रशंसकेन लक्ष्मणेन प्रत्याख्याता सा रामं प्रार्थयाञ्चक्रे । रामेणाऽपि निराकृता सा लक्ष्मणमगमत् । ततो लक्ष्मणेन छिन्ननासिका सा बहुशः सन्तर्ज्य दण्डकारण्यवासिनोः भ्रात्रोः खरदूषणयोरग्रे विललाप । चतुर्दशसाहस्रबलौ तौ च खरदूषणौ शूर्पणखां समाश्वास्य बहुविधायुधधारिणौ भूत्वा दाशरथिनिग्रहाऽर्थं ससैन्यं निर्ययतुः । ततस्तौ दाशरथी बहून् राक्षसान् त्रिमूर्धाख्यं राक्षसं च अहताम् ।

पञ्चमः सर्गः[सम्पादयतु]

रामलक्ष्मणयोः खरदूषणाभ्यां तुमुलः सङ्ग्रामः समजनि । किञ्चित्क्षणाऽनन्तरमेव ससैन्यौ तौ राक्षसौ दाशरथिभ्यां हतौ । ततोऽसहाया शुर्पणखा पारेसमुद्रं लङ्कायां वसन्तं रावणं जगाम । सा शूर्पणखा रावणाय दाशरथिकर्तृकं राक्षस-क्षयमाख्याय चारदुर्बलत्वाद्रावणस्याऽनयं प्रतिपादितवती, कथितवती च रामपराक्रमं सीताया अनवद्यं सौन्दर्यं च । ततो रावणस्तां समाश्वास्य स्वविक्रममवर्णयत् प्रतिज्ञातवांश्च रामनिग्रहम् । तदनु स साहाय्यप्राप्त्यर्थं समुद्रसमीपवासिनं मारीचं गत्वा तं वृत्तान्तमशिश्रवत् । मारीचश्च रामनिग्रहाद्रावणं निवारयितुमलोकसामान्यं, रामपराक्रममकथयत् । रावणः कुपितो भूत्वा मारीचसूचितं रामविक्रमं दूषयित्वा मारीचं निरभर्सयत् । ततो मारीचो रावणत्रासात् रामलक्ष्मणयोः दूरप्राप्त्यै हेमरत्नमयं मृगरूपं दधार । रामश्च मृगाऽजिनधारणाभिलषिष्या सीतया प्रेरितः सुदूरं मृगमनुससार । मायामृगो मारीचश्च लक्ष्मणस्यापि सीतासंरक्षकत्वं निवारयितुं ‘हा लक्ष्मणेत्युच्चैश्चक्रन्द । मारीचप्रतारिता सीता लक्ष्मणेन मुहुर्मुहुः विबोधितोऽपि रामाऽनिष्टमाशङ्क्य रामाऽन्तिकं गन्तुं लक्ष्मणं प्रेरितवती । तस्मिन्नेवाऽन्तरे रावणो भिक्षुरूपं धृत्वा सीतासविधं समाजगाम 'काऽसि त्वमि'तिसीतामप्राक्षीत्प्रशंसितवांश्च तेदीयं सौन्दर्यम् । सीता च स्वसंस्तवप्रदानप्रसङ्गतो रामविक्रममगादीत् । ततो रामपराक्रमश्रवणाऽसहनो दशानन आत्मपरिचयप्रदानपूर्वकं निजशौर्यं वर्णितवान्प्रार्थयच्च सीताम् । यदा सीता रावणप्रार्थनायाः प्रतिकूलवर्तिनी सञ्जाता, तदा रावणेन धृतभयङ्करशरीरेण सता बाहूपपीडमाश्लिष्य आकाशं नीता । अस्मिन्नेवाऽन्तरे सीतासंरक्षणेच्छुना गृध्रराजेन जटायुषा परुषभाषणपूर्वकं रावणश्चञ्च्वा नखश्च प्रहृतः, तद्रथश्च बभञ्जे। ततो रावणो जटायुषमाक्रुश्य तत्पक्षौ अच्छिनत् सीतामादाय स्वपुरं चाऽगात्।

षष्ठः सर्गः[सम्पादयतु]

कामार्तो रावणः सीतानिराकृतः सन् सीतारक्षार्थं रक्षांसि आदिश्य रामवृत्तपरिज्ञाऽर्थमात्मीयाञ्जनान् नियुक्तवान् ।

रामोऽपि मारीचं हत्वाऽऽगमनसमये बहुभिःशकुनैः सीतायाः अनिष्टमाशङ्कितवान् । अस्मिन्नेवाऽन्तरे स तत्र समायातात् लक्ष्मणात् यथावद्वृत्तान्तम् उपलभ्य भृशं विह्वलः पर्णशालायां यदा रामः सीतां नाऽवालोकयत्तदा उन्मत्तप्रायो भूत्वा यत्र तत्र पर्यट्य भृशं विललाप । स सीतावियोगेन अतीवाऽऽकुलोऽत्यर्थमश्रूणि विमुञ्चन्नपि स्वीयनित्यकर्माऽनुष्ठानं नाऽमुञ्चत् । रामः सीतायाः अन्वेषणाऽर्थं लक्ष्मणेन सह पर्वतसमीपमगमत्तत्र शोणितं, पतितं कवचं, साऽश्वं चूर्णतं रथं, छिन्नपक्षं गृधं च विलोक्य नानाविध-कल्पनां कृत्वा अतीव मुमोह, तं सीताहन्तारमुत्प्रेक्षमाणः तं हन्तुमभ्यधावत च ।

स च गृध्रो जटायू रामं सकलमपि वृत्तातं श्रावयित्वा उपरतः । दाशरथी जटायुषो दाहोदकदानानि कर्मणि कृत्वा शोकाऽऽकुलावभूताम् । ततः कबन्धाऽऽख्येन दीर्घबाहुना राक्षसा गृहीतौ तौ खड्गाभ्यां तद्व्यापादनमकार्ष्टाम् । स च राक्षसो दिव्यरूपः समजनि । तदा रामेण पृष्टः सः ‘अहं श्रीनामकस्याऽसुरस्य पुत्रोऽस्मि । मुनेः शापात् ईदृशः संवृत्तः' इति स्ववृत्तान्तमभिधाय ‘सीता रावणेन लङ्कायां नीता । ऋष्यमूके स्वाऽग्रजेन भ्रात्रा बलीयसा वालिना भृशं निपीडितः सुग्रीवो नाम वानरराजोऽस्ति । तेन सहान्योन्योपकारस्य साधयित्री मैत्री भवता कार्या । तत्साहाय्येनैव भवतो निखिलमपि अभीष्टं सेत्स्यति' इति कथनोत्तरं भास्करप्रभः स राक्षसस्तमामन्त्र्य दिवमगात्।

ततस्तौ भ्रातरौ बहुविधां व्यथामनुभूय शबर्याख्यायाः कस्याश्चित्तापस्याः आश्रमं जग्मतुः । सा च मधुपर्कादिना पूजासाधनेन राघवयोरतिथिसत्कारं सम्पाद्य ‘सुग्रीवो भवता सह सत्वरं सख्यं करिष्यति, भवांश्च द्रुतं मैथिलीं विलोकयिष्यती'त्यभिधाय अन्तर्हिता।

ततो राघवौ अलिपिकाऽदिभिः पक्षिभिः शोभितं पम्पासरो व्यालोकयताम् । रामस्तत्र रमणीयपदार्थनिश्चयदर्शनेन सञ्जातया सीतास्मृत्याऽतिवेलं शोकाकुलो भूत्वा परिदेवयामसि।

अनन्तरमुभावपि तावृष्यमूकमगच्छताम् । तत्र वालिशङ्कितः सुग्रीवस्तौ वालिगुप्तचरौ मत्वा सपरिजनो मलयपर्वतमगमत् । तदुदन्तज्ञानाय सुग्रीवप्रेरितो हनुमांश्च, विश्वासयोग्यं भिक्षुवेषं स्वीकृत्य रोमान्तिकमागच्छत् । 'कौ युवाम्' इति तत्प्रश्ने रामः आत्मीयं सर्वं वृत्तान्तं जगाद । ततो हनूमान् वालिपरिचयपुरःसरम् “अहं तेन वालिना निराकृतस्याऽन्तः साहाय्यमिच्छतः वानरराजस्य सुग्रीवस्य दूतोऽस्मि । भवान् सुग्रीवमैत्र्या अखिलमप्यभीष्टमासादयिष्यतीति अभिधाय रामं पृष्ठमारोप्य मलयमनयत् ।

सुग्रीवोऽपि रामं दृष्ट्वा वालिभयान्मुक्तः सञ्जात। ततस्तौ अग्निं साक्षीकृत्य अन्योन्यहितसम्पादनार्थं मैत्रीं चक्रतुः । सुग्रीवो विधातुः प्राप्तवरस्य वालिनोऽतुलं बलं संसूच्य रामविक्रमं प्राशंसत्। रामश्च सुग्रीवप्रत्ययाऽर्थमेकेनैव बाणेन सप्त आकाशस्पृशस्तरून्विभेद । ततः सुग्रीवो गताऽऽशङ्को भूत्वा वालिनिलयं ययौ । रामो युध्यन्तौ तावुभावपि तुल्यरूपौ तृष्ट्वा बाणान्मोक्तुं न शशाक । तदनु वालिपीडितः सुग्रीवः स्वावासं प्रत्यावृत्तः, रामेण मालाऽलङ्कृतो भूयोऽपि वाल्यन्तिकं गतश्च । भ्रात्रा सुग्रीवेण सह युध्यन्वाली रामेण बाणेन विद्धो भुवि पतितश्च । ततो वाल्यनुयायिनो वानराः समन्तात् पलायन्त । शूरम्मन्यो वाली छद्मवधात् राममुपालब्ध । ततो रामः ‘त्वं स्वभ्रातृदारापहर्ता पातकी असि' इति निर्भर्त्स्य युक्तिपूर्णैर्वचनैस्तदाक्षेपं परिहृतवान् । रामवाक्यं श्रुत्वा वाली लज्जापूर्णमानसो भूत्वा राममनुनीतवान्, रामे प्रियपुत्रमङ्गदं निक्षिप्य सुग्रीवेण सह सान्त्वपूर्वं व्याहृत्य तस्मै तद्वल्लभां हिरण्मयीं मालां राज्यादिकं च समर्प्य ममार।

सुग्रीवो भ्रातरौर्ध्वदेहिकं कर्म कृत्वा हनूमादिभिः स्तूयमानः सन् वर्षतः समासन्नत्वेन रामाऽऽक्षया किष्किन्धां प्रविष्टः।

सन्दर्भ:[सम्पादयतु]

  1. http://sudharma.epapertoday.com/2009/11/05/2505/

अनुवादाः[सम्पादयतु]

  • Brough, J. 1951. Selections from Classical Sanskrit Literature, with English Translation and Notes. London: Luzac and Co.
  • Brough, J. JB N/4 Notes on the Bhattikavya undated: 1 bundle (1) and 1 vol (2) English and Sanskrit, JB N/4/1 Draft transcription and translation of cantos 1–2, 10, 15 and 22, incomplete, JB N/4/2 Notes on cantos 1–2. University of Cambridge, Faculty of Oriental Studies, Archive Collections.
  • Fallon, Oliver. 2009. Bhatti’s Poem: The Death of Rávana (Bhaṭṭikāvya). New York: Clay Sanskrit Library [१]. ISBN 978-0-8147-2778-2 | ISBN 0-8147-2778-6
  • Turner, R. L. JB B/12 Translation of the Bhattikavya, undated, 2 vols. JB B/12/1 Translation of cantos 6–14, Annotated by Brough; JB B/12/2 Translation of cantos 15–17. University of Cambridge, Faculty of Oriental Studies, Archive Collections.
  • Anderson, Rev. P. 1850.Journal of the Bombay Branch of the Royal Asiatic Society. Vol 3. No 13: Some Account of the Bhatti Kavya. M.A.
  • Gerow, Edwin. 1971. A Glossary of Indian Figures of Speech. The Hague: Mouton.
  • Gerow, Edwin. 1977. A History of Indian Literature: Vol. V, fasc. 3 Indian Poetics. Wiesbaden: Otto Harassowitz.
  • Henry, Patricia B. 2001. “The Poetics of the Old Javanese Rāmāyaņa: A Comparison with the Sanskrit Bhaṭṭikāvya”, presented at The International Rāmayana Conference, Northern Illinois University, DeKalb, IL. September 21–23, 2001
  • Hooykaas, C. 1957. “On Some Arthālaṃkāras in the Baṭṭikāvya X”. Bulletin of the School of Oriental and African Studies: Vol. 20, No 3, Studies in Honour of Sir Ralph Turner, Director of the School of Oriental and African Studies, 1937–57, London: SOAS.
  • Hooykaas, C. 1958. The Old Javanese Rāmāyaṇa, an Exemplary Kakawin as to Form and Content. Amsterdam.
  • Pandurang Vaman Kane|Kane, P. V. 1971. History of Sanskrit Poetics. Delhi: Motilal Banarsidass.
  • A. Berriedale Keith|Keith, A. B. 1928. A History of Sanskrit literature. Oxford: The Clarendon press.
  • Narang, Satya Pal. 1969. Bhaṭṭikāvya, A Study. Delhi: Motilal Banarsidass.
  • Narang, Satya Pal. 2003. An Analysis of the Prākṛta of Bhāśā-sama of the Bhaṭṭi-kāvya (Canto XII). In: Prof. Mahapatra G.N., Vanijyotih: Felicitation Volume, Utkal University, Bhuvaneshwar.
  • Söhnen, Renate. 1995. “On the Concept and Presentation of ‘yamaka’ in Early Indian Poetic Theory”. In: Bulletin of the School of Oriental and African Studies Vol. 58. No. 3 p 495–520.
  • Sudyaka, Lidia. 2002. What Does the Bhaṭṭi-kāvya teach? In Essays in Indian Philosophy, Religion and Literature edited by Piotr Balcerowicz and Marek Mejor, Warsaw.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • भट्टि : रावणवध (भट्टिकाव्य)
  • GRETIL: Göttingen Register of Electronic Texts in Indian Languages Electronic text of the Bhaṭṭikāvya.
  • Sanskrit Wikibooks
  • TITUS Indica
  • Sanskrit Literature
  • Vedabase.net vaishnava literatures with word for word translations from Sanskrit to English.
  • Official page of the Clay Sanskrit Library, publisher of classical Indian literature with facing-page texts and translations. Also offers numerous downloadable materials.
  • Sanskrit Documents Collection: Documents in ITX format of Upanishads, Stotras etc, and a metasite with links to translations, dictionaries, tutorials, tools and other Sanskrit resources.
  • [२]
  • Anderson, Rev. P. 1850.Journal of the Bombay Branch of the Royal Asiatic Society. Vol 3. No 13: Some Account of the Bhatti Kavya. M.A.
  • Gerow, Edwin. 1971. A Glossary of Indian Figures of Speech. The Hague: Mouton.
  • Gerow, Edwin. 1977. A History of Indian Literature: Vol. V, fasc. 3 Indian Poetics. Wiesbaden: Otto Harassowitz.
  • Henry, Patricia B. 2001. “The Poetics of the Old Javanese Rāmāyaņa: A Comparison with the Sanskrit Bhaṭṭikāvya”, presented at The International Rāmayana Conference, Northern *Illinois University, DeKalb, IL. September 21–23, 2001
  • Hooykaas, C. 1957. “On Some Arthālaṃkāras in the Baṭṭikāvya X”. Bulletin of the School of Oriental and African Studies: Vol. 20, No 3, Studies in Honour of Sir Ralph Turner, Director of the School of Oriental and African Studies, 1937–57, London: SOAS.
  • Hooykaas, C. 1958. The Old Javanese Rāmāyaṇa, an Exemplary Kakawin as to Form and Content. Amsterdam.
  • Pandurang Vaman Kane|Kane, P. V. 1971. History of Sanskrit Poetics. Delhi: Motilal Banarsidass.
  • A. Berriedale Keith|Keith, A. B. 1928 .A History of Sanskrit literature. Oxford: The Clarendon press.
  • Narang, Satya Pal. 1969. Bhaṭṭikāvya, A Study. Delhi: Motilal Banarsidass.
  • Narang, Satya Pal. 2003. An Analysis of the Prākṛta of Bhāśā-sama of the Bhaṭṭi-kāvya (Canto XII). In: Prof. Mahapatra G.N., Vanijyotih: Felicitation Volume, Utkal University, *Bhuvaneshwar.
  • Söhnen, Renate. 1995. “On the Concept and Presentation of ‘yamaka’ in Early Indian Poetic Theory”. In: Bulletin of the School of Oriental and African Studies Vol. 58. No. 3 p 495–520.
  • Sudyaka, Lidia. 2002. What Does the Bhaṭṭi-kāvya teach? In Essays in Indian Philosophy, Religion and Literature edited by Piotr Balcerowicz and Marek Mejor, Warsaw.
  • Fallon, Oliver. 2009. Bhatti’s Poem: The Death of Rávana (Bhaṭṭikāvya). New York: Clay Sanskrit Library [३]. ISBN 978-0-8147-2778-2 | ISBN 0-8147-2778-6
  • Joshi, V. N. S. and Sarma, S. V. 1914. The Bhaṭṭikāvya of Bhaṭṭi with the Commentary of Jayamangala. Bombay: Nirnaya Sagar Press.
  • Shastri, Shri Shesharaj Sharma. Undated. Haridas Sanskrit Series no. 136: Bhaṭṭikāvyam, Edited with the Candrakala-Vidyotini Sanskrit-Hindi Commentary. 3 vols. Varanasi: Chowkhambha Sanskrit Series Office.
  • Trivedi, K. P. 1898. Bombay Sanskrit Series no. 56: The Bhaṭṭikāvya or Rāvaṇavadha composed by Śri Bhaṭṭi with the Commentary of Mallinātha with critical and explanatory notes. 2 vols. Bombay.

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भट्टिकाव्यम्&oldid=455853" इत्यस्माद् प्रतिप्राप्तम्