सुबन्धुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

सुबन्धुः सुप्रसिद्धस्य 'वासवदत्त' नामकस्य गद्यकाव्यस्य रचयिता। एतस्य कालः क्रि. श . षष्टं शतकम् इति श्रूयते। सुबन्धुः स्वस्य ग्रन्थे 'श्रीपर्वतः इव सन्निहितः मल्लिकार्जुनः' इति श्रीशैलविषये उक्तवान् इत्यतः एषः दाक्षिणात्यः स्यात् इति विदुषाम् अभिप्रायः। अस्य काव्ये वर्णनात्मकः भागः अधिकः । यद्यपि सुबन्धुना स्वकाव्ये उपमा, रूपकम्, विरोधाभास:, उत्प्रेक्षा, परिसंख्या इत्यादीनाम् अलङ्काराणाम् उपयोगः कृतः, तथापि श्लेषालङ्कारविषये एतस्य महती प्रीतिः। अस्य भाषा सुलभा, सरला च । 'वासवदत्ता' एका एव अस्य कृतिः ।

कालः[सम्पादयतु]

सुबन्धुस्थितिकालमादय पण्डिता वैमत्यं भजन्ते । केचित्तु बाणप्रभावितमते एव बाणपरवर्तिनं मन्यन्ते केचित्तु बाणमेव सुबन्ध्वनुगामिनं मत्वा सुबन्धुं बाणपूर्ववर्तिनं मन्यन्ते । प्रथमपक्षधराणामग्रणीः कृष्णमाचार्यमहोदयो यदा द्वितीयपक्षधराणां काणेमहाभागः । उभावेव महाशयौ स्वं स्वं पक्षं दृढतया प्रस्तुतवन्तौ । किन्तु प्रमाणपरिधौ प्रथमपक्षधरा अवरत्वमाप्नुवन्ति । वस्तुतस्तु सुबन्धोः बाणपूर्ववर्तित्वे स्वयं बाण एव प्रमाणं किमुतान्ये । स हर्षचरिते स्वयमेव कथयति -

कवीनामागलद्दर्पो नूनं वासवदत्तया।

शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम्।।

पतञ्जलिरपि भाष्यकारो वासवदत्ताऽऽख्यकाव्यं स्मरति।[१] यथोक्तं तत्र - 'अधिकृते ग्रन्थे—बहुलं लुग्वक्तव्यः। वासवदत्ता सुमनोत्तरा न च भवति भैमरथी' इति । समुद्रगुप्तः स्वीये कृष्णचरितमहाकाव्ये राजकविवर्णनप्रसङ्गे स्मरति सुबन्धुं तस्य कृति वासवदत्ताञ्च । तत्रोक्तम् -

जयत्ययं पूर्णकलः कविकीर्तिसुधाकरः।

अकलङ्को रसाम्भोधिमुद्वर्तयति यः सदा॥

व्याहारसौष्ठवमुदारसं महार्घं यन्नाटकं सुरभि गर्भितनाटकञ्च ।

तद्वत्सराजचरितं मृदुभावहारि कृत्वा सुबन्धुरभवत्कृतिनां वरेण्यः।।

बिन्दुसारस्य नृपतेः स बभूव महाकविः ।

किन्तु सेहे न तद्गर्वं तिरश्चक्रे च तां संभाम्।।

उरगाभे नृपे तस्मिन् कुद्धे बन्धयितं कविम् ।

सरस्वती मुमोचाथ तं देशं सोऽत्यजत्तदा।।

विद्वाञ्जयी वत्सराजो दृष्ट्वा वैदुष्यमुत्तमम् ।

पञ्चग्रामान् ददौ तस्मै निजां भगिनिकां तथा॥

एवमेव अवन्तिसुन्दरीकथायां दण्डी कथयति -

सुबन्धुः किल निष्क्रान्तो बिन्दुसारस्य बन्धनात्।

तस्यैव हृदयं बध्वा वत्सराजो...........॥ ६ ॥

अनेन मन्यते यत्सुबन्धुः मगधेशस्य बिन्दुसारस्य सभापण्डित आसीत् । बिन्दुसारो चन्द्रगुप्तमौर्यस्य पुत्रः अशोकस्य पिता च । बिन्दुसारस्य समयस्तेन विक्रमपूर्वतृतीयशतकमभितो (२४१-२१६ ) दृश्यते । समुद्रगुप्तकथनानुसारेण सुबन्धोः अपराऽपि कृतिरासीद् वत्सराजचरितं नाम नाटकम् । यद्यपि निश्चयेन तु नैव तस्य पुष्टिः भवति, तथापि एतदनुमीयते यत्पतञ्जलिना आख्यायिकारूपेण स्मृता बाणभट्टेन श्रुता ('गतया कर्णगोचरम्' इति कथनात्सम्भवति ग्रन्थोऽयं बाणेनापि श्रुत एव स्यान्न तु दृष्टः) वासवदत्ता सुबन्धोरेव कृतिः सम्भवति । यदा हि बाणभट्टसमयेऽपि ग्रन्थोऽयं दुर्लभ आसीत्तदाऽस्य मौलिकं रूपं कीदृशमासीदिति तु नैव निश्चयेन अनुमातुं शक्यते । सम्भवति बाणपश्चाद्वर्तिना केनाऽपि कविना ग्रन्थस्य काचित्प्रतिर्लब्धा कानिचिदंशानि प्रक्षिप्यापि संस्कृता प्राचीनकविनाम्नैव प्रचारिताऽपि । तेन हि तत्र -

'मुधेवेन्दुमती महिष्यप्यजानुरागिणी बभूव'

'विफलमेव दुष्यन्तस्य कृतेर्दुर्वाससः शापमनुबभूव शकुन्तला' इति कालिदासीयकृतिस्मारकाणि।

'सदा समाश्रितैर्महावीरचरितैरिव नारीकेलिधरैः' इति ।

'हृदयं विलिखितमिव उत्कीर्णमिव प्रत्युप्तमिव कीलितमिव वज्रलेपघटितमिवमर्मान्तरस्थितमिव•••••कन्दर्पकेतुं मन्यमाना' इति च भवभूतिग्रन्थस्मारकाणि।

'न्यायस्थितिमिवोद्योतकरस्वरूपा' इति न्यायवार्तिककर्तुरुद्योतकरस्य स्मारकाणि ।

'बौद्धसङ्गतिमिवालङ्कारभूषिताम्'। इति धर्मकीर्तिस्मारकाणि च वचनानि प्रक्षिप्तानि सम्भवन्ति । तथ्यमिदं तत्रत्ये -

सरस्वतीदत्तवरप्रसादश्चक्रे सुबन्धुः सुजनैकबन्धुः।

प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धम् ॥ १३ ॥

इति पद्ये लिट्लकारप्रयोगेणापि परिपुष्यते । नावश्यमेव कविरात्मानं कृते लिटं प्रयुनक्ति । एतद्विषयो परम्परा त्वेतादृशी - 'रघूणामन्वयं वक्ष्ये' (कालिदासः), 'वाग्देवतायाः साम्मुख्यमाधत्ते' (विश्वनाथः), 'परामृशति' (मम्मटः), 'ग्रथितं रक्तिलगोमिसूनुनेदम्' (भामहः), 'तेन ब्रूमः सहृदयसमः प्रीतये' (ध्वन्यालोककारिकाकारः) । तेन हि पद्येऽत्र लिटः प्रयोगोऽवश्यमेवास्य प्रक्षिप्तत्वं साधयति । यदि हि सुबन्धुनेदं स्वयमुक्तमभविष्यत्तदा 'चक्रे' इत्यस्य ‘अकरोत्' इत्यस्य वा 'कुर्वे' इत्यस्यापि प्रयोगः कृतोऽभविष्यत् । यथा -

'सरस्वतीदत्तवरप्रसादोऽकरोत्सुबन्धुः' वा 'सरस्वतीदत्तवरप्रसादः कुर्वे सुबन्धुः' इति कथनेऽपि न कोऽपि हानिः।यदि साम्प्रतिकस्वरूपमेव वासवदत्तायाः मौलिकं रूपं मन्यते, तदा तु सुबन्धोः समयो भवभूतेरपि पश्चाद्वर्ती सिध्यति । भवभूतिः यशोवर्मणः कान्यकुब्जेश्वरस्य सभापण्डित आसीदिति -

कविवाक्पतिराजश्रीभवभूत्यादिसेवितः।

जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम्॥

इति राजतरङ्गिणीकारस्य वचनाज्ज्ञायते । जयापीडललितादित्यसमकालिकत्वाद्यशोवर्मणः कालोऽपि ७५०-७९० मितवैक्रमाब्दान्तरालवर्ती । यशोवर्मण एव सभापण्डितः ‘गउडवहो' इति ख्यातस्य प्राकृतकाव्यस्य प्रणेता वाक्पतिराजः -

'सौबन्धवे अबंधम्मि हारिअन्दे अ आणन्दो'

इति सुबन्धुकृतं स्मरति किन्तु बाणस्य नामापि नैव गह्णाति । यदि हि सुबन्धुः बाणपरवर्ती वा बाणात्किञ्चिदेव पूर्ववर्त्यपि मन्यते तदाऽपि तस्य वाक्पतिराजसमये तादृशी ख्यातिः नैव सम्भवति । यतो हि बाणस्य समयः ७०७ मितवैक्रमाब्दमभितो मतः । तत्पश्चात्कालवर्तिना न्यूनतममपि ७२५ मितवैक्रमाब्दमभितः भाव्यम् इति मन्यते। यदि सुबन्धुः बाणात्किञ्चिन्मात्रं पूर्ववर्ती मन्यतेऽपि, यथा कतिपयैः समालोचकैः रामचन्द्रप्रभृतिभिरनुमितो यत्सुबन्धोः कालः ख्रीष्टीयषष्ठशतकं सम्भवति इति तदापि बाणातिरेकिणी ख्यातिस्तावन्मात्रकाले न सम्भवति । तेन हि सुबन्धुना बाणभट्टात्तु सुदूरपूर्ववर्तिना भाव्यमेव । अथ च सुबन्धुना -

'सारसवत्ता विहता नवका विलसन्ति चरति नो कङ्कः।

सरसीव कीर्तिशेषं गतवती भुवि विक्रमादित्ये।।'

इति कथनेन यो विक्रमादित्यः स्मृतः स तु यशोवर्मा एवेति यन्मन्यते यथा रामचन्द्रादिभिः समालोचकैरप्यनुमतं तदापि तस्य वाक्पतिराजसमकालिकत्वमेव सिध्यति यद्धि सुतरामितिहासेन सहान्याय एव मन्यते। यदि तथा मन्यते तदा 'धिया निबद्धेयमतिद्वयी कथा' इत्यत्र के कथे स्मर्येते। अपरञ्च, राजतरङ्गिणीकारसाक्ष्येनैतज्ज्ञायते यत्संवत्सरप्रवर्तकविक्रमादित्यात्पूर्वमपि कश्चिदपर एव विक्रमादित्योऽपि सिंहासनारूढ आसीद्येन खलु प्रतापादित्यः काश्मीरसिंहासने प्रतिष्ठापितः । स च कालक्रमगणनया बिन्दुसारादपि पूर्ववर्ती भवति । राजतरङ्गिणीवचनं निभाल्यतामत्र -

'अथ प्रतापादित्याऽऽख्यस्तैरानीय दिगन्तरात् ।

विक्रमादित्यभूभर्तुर्ज्ञातिरत्राभ्यसिच्यत॥[२]

शकारिविक्रमादित्य इति स भ्रममाश्रितः।

अन्यैरत्रान्यथालेखि विसंवादकदर्थितम्॥[३]

मातृगुप्तस्य सभाकविर्भर्तृमेण्ठो यद्विषये -

वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम्।

आबिद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥ इति ।

बाणेनोक्तं तथैव -

तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति।

निस्त्रिंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः॥

इति परिमलकालिदासेनोक्तमस्ति । तेन सुबन्धोः भर्तृमेण्ठात्पूर्वकालिकत्वं मन्यते यः कालो बिन्दुसारकालेन सह संवादी । अथ च निभाल्यतामधस्तनकथनान्यपि, यथा कविराजो राघवपाण्डवीये -

सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः। वक्रोक्तिमार्गनिपुणाश्चतुर्थी विद्यते न वा।।

यथा वा मङ्खक: श्रीकण्ठचरिते -

मेण्ठे स्वद्विरदाधिरोहिणि वशं याते सुबन्धौ विधेः।

शान्ते हन्त च भारवौ विघटिते बाणे विवादस्पृशः॥[४]

इत्यादावन्यत्रापि सुबन्धुर्बाणपूर्ववतत्वेन मेण्ठपरवतित्वेन च स्मृतः । एवमेव सुबन्धुः सर्वप्रथमत्वेन स्मृतः दृश्यते -

सुबन्धौ भक्तिर्नः क इह रघुकारे न रमते, धृतिर्दासीपुत्रे हरति हरिचन्द्रोऽपि हृदयम्।

विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारविगिर-स्तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते।।

अथ च यदि सुबन्धुर्नापि बिन्दुसारसमकालिकस्तथापि स नैव रुद्रदाम्नोऽवरकालिकोऽपि । यतो हि रुद्रदाम्नः स्थितिकालो विक्रमानन्तरं २०७ मितवत्सरमभितः । तस्य समये समुत्कीर्णशिलालेखे गद्य-पद्योभयविधकाव्यानामवस्थितिर्वर्णिताऽस्ति । यथोक्तम् -

१४. स्फुटवधुमधुरचित्तकान्तशब्दसमयोदारालङ्कृतगद्यपद्यकाव्यविधानप्रवीणेन प्रमाणमानोन्मानस्वरगतिवर्णसारसत्वादिभिः।

१५. परमलक्षणव्यञ्जनैरुपेतकान्तभूतिना स्वयमधिगतमहाक्षत्रपनाम्ना नरेन्द्रकन्यास्वयंवरानेकप्राप्तदाम्ना महाक्षत्रपेण रुद्रदाम्ना••••इत्यादि।

मन्यते यदनेन कश्चित्स्वपूर्ववर्तिगद्यकविरपि सङ्केतितो दृश्यते । तादृशः कविः कः सम्भवति ? सम्भवतः सुबन्धुरेव नान्यः । गौतमीपुत्रस्य नासिक-शिलालेखेऽपि काव्यात्मकं गद्यं दृश्यते । यथा -

३. दिवसकरकरविबोधितकमलविमलसदिसवदनसतिसमुदतोयपीतवाहनसपरिपूर्णमण्डलससिरीक-

४. वियदसनसवरवारणविकमचारुविकमसभुजगपतिभोगपीनवाटविपु दीर्घमुदरभजस... इत्यादि।

यदि तथ्यमिममुपेक्ष्य सुबन्धोः स्थितिकालः सप्तमशतकमभितो मन्यते तदा एतत्पूर्वकालिकः कश्चिदपर एव गद्यकविरवश्यमेवोन्नेयः । स को भवितुमर्हति ? सुबन्धुरेव । तेन यदि नापि सुबन्धुः बिन्दुसारसमकालिकस्तदापि शालिवाहनान्न कदाऽप्यर्वाचीनः सः ।

वासवदत्ता[सम्पादयतु]

मुख्यलेखः : वासवदत्ता

वासवदत्ता सुबन्धोः कृतिः । अत्र वासवदत्ताकन्दर्पकेतोः प्रेमकथोपवर्णिताऽस्ति । कन्दर्पकेतुः स्वप्ने कुसुमपुरराजकन्यां वासवदत्तां स्वप्ने पश्यति । तत्सौन्दर्याकृष्टश्च तदन्वेषणाय मकरन्देन सह चलति । देशान्तरं परिभ्रमन् स विन्ध्याचलं प्राप्नोति । तदेव कुसुमपुरराजपुत्रीं वासवदत्ताऽपि स्वप्ने कन्दर्पकेतुं दृष्ट्वा तदूपाकृष्टहृदया तदन्वेषणाय सारिकां प्रेषयति । विन्ध्याटव्यां शुकसारिकासंवादं श्रुत्वा कन्दर्पकेतुर्वासवदत्ताविषयं जानाति गच्छति च तं देशम् । तया सह मिलनानन्तरं तौ मायाश्वमाशुगमारुह्य चलतस्ततः । विन्ध्याटवीं प्राप्य तौ विश्राम्यतः । तत्र निद्रावशे कन्दर्पकेतुं विहाय वासवदत्ता वनेक्षणाय कियन्मात्रदूरं गता सती किरातैरारुद्धा भवति । तत्प्राप्त्यै किरातसमूहे परस्परं विवदमाने वासवदत्ताऽवसरं लब्ध्वा पलायते प्रविशति स्त्रीनिषिद्धं मुनेराश्रमम् । तत्र प्रविशन्ती एव सा शिलायां परिणता भवति । प्रबुद्धः कन्दर्पकेतुर्वासवदत्ताम् अन्वेषणाय प्रयतते । अन्ते च तामेव शिलां स्पृशति । तत्स्पर्शमात्रेण वासवदत्ता पुनः स्वकीयं पूर्वशरीरं प्राप्नोति । मकरन्दोऽपि तत्रैवागच्छति । ततस्ते स्वपुरं गत्वा सुखं तिष्ठन्ति । इत्थं कविकल्पितवृत्तोऽयं ग्रन्थः संयोगान्तत्वेन समाप्नोति।

शैली[सम्पादयतु]

सुबन्धुः सिद्धहस्तः कविः । सः वक्रोक्तिकथने श्लेषे च सर्वातिशायित्वेन सम्मतः । तमेवाधिकृत्येदमुक्तं 'श्लेषे केचन' इति । कथ्यते वासवदत्ताग्रन्थेनानेन कवीनां कवित्वदर्पः शीतलायते । तस्य अनुप्रासश्लेषोपमाद्यलङ्ककारच्छटा प्रशस्या । यथा -

'अभूदभूतपूर्वः सर्वोर्वीपतिचक्रचूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणिः नृसिंह इव दर्शितहिरण्यकशिपुक्षेत्रदानविस्मयः कृष्ण इव कृतवसुदेवतर्पणो नारायण इव सौकर्यसमासादितधरणीमण्डलः कंसारातिरिव जनितयशोदानन्दसमृद्धिः.....' इत्यादि ।

तस्य विरोधाभासच्छटाऽपि नितान्तमेव हृद्या । यथा -

'विद्याधरोऽपि समनाः धृतराष्ट्रोऽपि गुणप्रियः क्षमानुगतोऽपि सुधर्माश्रितः बृहन्नलानुभावोऽपि अन्तः सरलः महिषीसम्भवोऽपि वृषोत्पाद्यः तरलोऽपि महानायकः राजा चिन्तामणिर्नाम।'

अस्य यमकप्रयोगोऽपि तथैव सुरम्यः । यथा -

'राजसेनरहितो राजसेन रहितो ध्रुवम् । विशारदा विशारदाभ्रविशदा विशदात्मनीनमहिमा, महिमानरक्षणक्षमा क्षमातिलकं ! धीरताधीरताभूतता भूततावचसि, साहसेन ! साहसेन कमलाकमलोपराजिता पराजित'...इत्यादि।

अस्यैव क्लिष्टवाक्यविन्यासो यथा -

'कुररखरनखशिखरखण्डितपृथुरोमाविलमविरलशकुलशल्कजलनकूलोच्चारं क्रोष्टृकुलोत्सृष्टविकटकर्कटकर्षरपरम्परापरिगतोपान्तं'... इत्यादि।

अस्य श्लेषसौन्दर्यं यथा -

'अस्मिन् संसारे केन किं वा न कृतम् । तथा हि गुरुदारग्रहणं द्विजराजोऽकरोत् पुरूरवा ब्राह्मणधनतृष्णया विननाश । नहुषः परकलत्रदोहदी महाभुजङ्ग आसीत् । ययातिर्विहितब्राह्मणीपाणिग्रहणः पपात । सुहसुन्नः स्त्रीमय इवाभवत् । सोमकस्य विख्याता जन्तुवधनिघृणता । पुरुकुत्सः कुत्स आसीत् । कुवलयाश्वोऽश्वतरकन्यामपि जहारः। नृगः कृकलासतामगमत् । नेलं कलिरभाभूतवान्। सवरणो मित्रदुहितरि विक्लवतामगमत्। दशरथ इष्टरामोन्मादेन मृत्युमवाप। कार्तवीर्यो गोब्राह्मणपीडया पञ्चत्वमवाप्सीत्। युधिष्ठिरः समरशिरसि सत्यमुत्ससर्ज। शान्तनुरतिव्यसनाद्वने विललापः। इत्थं नास्त्यकलङ्कः कोऽपि'.... इत्यादि।

अस्य समासे स्वरमाधुर्यमनुप्रासे मुधरसङ्गीतं सुस्फीतो लोकोत्तरो रसोल्लासः कस्य न प्रशस्यः। एभिरेव बैशिष्ट्यैः वैशिष्ट्यैः प्रसन्नो वामनभट्टबाणः संस्तौति -

'प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः।

सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः॥' इति ।

न केवलमन्य एव किन्तु स्वयमेव कविरपि कथयति -

'सरस्वतीदत्तवरप्रसादाच्चक्रे सुबन्धुः सुजनैकबन्धुः।

प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धम्॥

वस्तुत एव प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिः कविरसौ । केवलं गद्यकाव्येऽपि तु पद्यरचनायामपि तथैव कुशलः । यथा हि -

'भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य।

वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्योतः॥'

तथैव हि -

'पश्योदञ्चदवाञ्चवञ्चितवपुः पश्चार्द्धपूर्वार्द्धभाक्

स्तब्धोत्तानितपृष्ठनिष्ठितमना भुग्नाग्रलाङ्गूलभृत् ।

दंष्ट्राकोटिविशङ्कटास्यकुहरः कुर्वन् शटामुत्कटा-

मुत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केसरी ॥'

सन्तुलनीयं पद्यमिदं कालिदासीयपद्येनानेन -

'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः

पश्चार्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्।

शष्पैरर्द्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा

पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमूर्त्यां प्रयाति॥'

एतादृशैरेव गुणैर्बाणः कथामिमामतिद्वयीष्वेकां मन्यते । दण्डी च - 'ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम्' इति। गद्यकाव्यप्रवर्तकोऽयं कविर्यत्रकुत्रश्लेषलोभेन कथावस्तु विच्छिनत्यपि, यथार्थरसाभिव्यक्तिमपि न तथाद्रियते, उल्लङ्घयति चौचित्यसीमामपि, भावावेशान् न्यक्कृत्यापि शब्दाडम्बरजालमातनोति तथापि तावतैव नास्य कौशलं विहतं दृश्यते । अस्य तादृशश्लेषप्रियतां विलोक्यैव महासमालोचक आनन्दवर्धनः कथयति -

'दृश्यन्ते च कवयोऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु' इति । कामं न स्यादत्र दण्डिनः पदलालित्यं, नैव च बाणस्य सरसस्वारस्य प्रभावस्तथापि सुबन्धोः विलक्षणा स्वरमाधुरी, अपूर्वा च वर्णनचातुरी, प्रखरपदप्रयोगप्रावीण्यञ्च तं सदैव कवीनामग्रणीं कल्पयन्ति । साधूक्तं द्विजेन्द्रनाथेन मूर्धन्यसमालोचकेन -

गद्यवाङ्मयस्याद्यः प्रवर्तकः क इत्यपेक्षायामुच्यते यत्स महाकविः सबन्धुरेव नान्यः । तस्यैवोच्छिष्टं निखिलं संस्कृतगद्यसाहित्यम् । सत्यमेवोक्तम् - 'सुबन्धौ भक्तिर्नः' इति । सुबन्धुमनुसृत्यैवोदेति बाणभट्टः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. महाभाष्ये ४।३।८७
  2. २।५
  3. २/६
  4. २/५३
"https://sa.wikipedia.org/w/index.php?title=सुबन्धुः&oldid=443954" इत्यस्माद् पुनः प्राप्तिः