मुद्राराक्षसम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मुद्राराक्षसम् विशाखदत्तेन लिखितं संस्कृतनाटकम्। चाणाक्षः चाणक्यः धननन्दस्य निग्रहं कर्तुं चन्द्रगुप्तमौर्यम् उपकरोति। चन्द्रगुप्तः राज्ञा पर्वतकेन सह नन्दराज्यं जयति। ततः युक्त्या विषदग्धः पर्वतकः म्रियते। तस्य पुत्रः मलयकेतुः नन्दमन्त्री राक्षसः च मगधं जेतुं योजनां कुरुतः। परं चाणक्यः छ्लेन मलयकेतुं जयति।

पीठिका[सम्पादयतु]

संस्कृतस्य निखिलेभ्यः नाटककारेभ्यः भिन्नोऽयं विशाखदत्त नामा नाट्यकारः यः कूटनीतिं, राजनीतिञ्चाश्रित्य नाटकं निर्मितवान् ।कवेः राजवंशसम्भवात् राजनीतिषु पक्षपातो दृश्यते । विशाखदात्तस्य पितामहः श्रीवटेश्वरदत्तः वत्सराजाभिधस्य देशस्य सामन्तराजाऽऽसीत् । पिता चास्य भास्करदत्तः ‘महाराजा’ इत्युपाधिनामङ्कृत आसीत् । विशाखदत्तः कौटिल्यार्थशास्त्रस्य शुक्रनीतिशास्त्रस्य च प्रकाण्डविद्वान् आसीत् ।ज्योतिः दर्शनन्यायशास्त्रेषु चास्य नैपुण्यं दृश्यते । वैदिकधर्मावलम्बी विशाखदत्तः बौध्दधर्ममपि अत्यादरेण समवलोकयति स्म । अस्यैतानि नाटकानि प्राप्यन्ते – (१) मुद्राराक्षसम्, (२) देवीचन्द्रगुप्तम्, (३) अभिसारितवञ्चितकम्

स्थितिकालः[सम्पादयतु]

विशाखदत्तस्य स्थितिकालविषये विविधानि मतानि सन्ति । डा. जायसवालमहोदयः अस्य स्थितिकालं ४०० ईस्वीयशताब्द्याः समीपे मन्यते । केचित् समालोचकाः षष्ठयां शताब्द्याम् अस्य समयं मन्यन्ते । ४९० शताब्द्यां श्रीवराहमिहिरः बुहत्संहितायामस्योल्लेखं करोति, अतः वराहमिहिरात् पूर्वं पञ्चमशताब्द्यां विशाखदत्तस्य समयः स्वीकरणीयम् इति न्यायसङ्गतं प्रतिभाति । अस्य कृतिषु मुद्राराक्षसं महनीयं नाटकं विद्यते । पात्राणां चरित्रचित्रणबलेन कथितुं शक्यते यत् सफलमिदं नाटकं यत्र विशाखदत्तस्य भाषा- शैली, कवित्वशक्तिः एतद् द्वयमपि कवेः वैशिष्ट्यं तनोति । वस्तुतः अस्य नाटके न हि कालिदाससदृश्ं कल्पना –भाव- चाञ्चल्यं, न वा भवभूतिरिव हृदय- विदारक- करुणधारा कुत्रापि प्रवहति, न च भट्टनायकसदृशं सैनिकानां प्राणान् प्रणयितुः निमन्त्रणं विलोक्यते । विशाखदत्तस्य नाटकेऽपि युध्दं भवाति, परमत्र द्वयोः राजनीतिज्ञयोः बुध्दिवैभवास्त्रेण समरं भवति नास्त्रेण,मुद्राराक्षसे चाणक्यराक्षसौ निजकूटनीत्या विलक्षणं राजनीतिकयुध्दं सन्दर्श्य दर्शकान् मोहयतः । अत्र तु विनैवास्त्रं शुत्र- जयो भवति । अतः मुद्राराक्षसं संस्कृतनाटकेषु निः सन्देहम् द्वितीयनाटकमिति निश्चप्रचम् ।

मुद्राराक्षसस्य विशिष्टता[सम्पादयतु]

असत्यामपि शृङ्गारकथायामसत्यपि च प्रणयव्यापारकाले नाटकमिदमलौकिकेन सरसत्वेनामूलमाचूलं चाप्यायितं वर्तते । ओजोगुण एवात्र तथा समृध्दो यथा सामाजिकमनोरञ्जानाय वस्त्वन्तरं नापेक्षते । स्त्रीपात्रस्याभावे विदूषकस्य चाभावे सत्यपि यदिदं नाटकमेतावत्सरसं जातं तदस्य रचयितुः काव्यकलाप्रवीणतायाः परमं प्रमाणम् ।

यद्यपिवेणीसंहारनामकं नाटकमपि भूयसा प्रोक्तगुणशालि, परं तत्र युध्दस्य वातावरणं दर्शकानां मनसि किमपि विचित्रं भीतिमिश्रं वैरस्यं सृजति । अस्मिंस्तु ‘विनैव युध्दादार्येण जितं दुर्जयं परबलमिति परा तृप्तिः । यथाऽऽधुनिकेषपन्यासेषु गहनः कथातन्तुर्वाचकानाकर्षति, मध्ये विरन्तुमवसरं न ददात्ति, तथैवात्र पाठकानां जिज्ञासा कदापि मध्ये न विश्रान्तिमासादयति । कुतूहलवर्धकमाख्यानं नाट्यस्य जीवितं तदत्र पर्याप्तभावेनावस्थितमिति चमत्कारि नाटकमदम् । सुघटितकथावस्तुयोजनायां व्यक्तित्वपूर्णपात्रचरित्रचित्रणे, ओजस्विवातावरणोपन्यासे च नाटकमिदमद्वितीयमिति सर्वसम्मतम् ।

मुद्राराक्षसे नायकः[सम्पादयतु]

अस्य नाटकस्य नायकचन्द्रगुप्तश्चाणक्यो वेति विचारविषयः । केचित् प्रधानफलाश्रयताया चन्द्रगुप्तं नायकं मन्येन्तेऽपरे कथातन्तुसञ्चालनप्रधानतया चाणक्यमेव नायकं स्वीकुर्वन्ति । वस्तुतत्त्वे चिन्त्यमाने चाणक्य एव नायकः सिद्ध्यति । मुद्रया निगृहीतो राक्षसो यत्र तन्मुद्राराक्षसमिति व्युत्पत्तौ मुद्राप्रवर्त्तकस्य नायकत्वं सिध्दिप्रायम् । सत्यव्रतसिंहद्विजेन्द्रनाथावपि मतमिदं समर्थयतः । विशाखदत्तस्य देवीचन्द्रगुप्तं नाम नाटकान्तरम्

विशाखदत्तकृतं देवीचन्द्रगुप्तनामकं नाटकान्तरमपि प्राप्यते । रामचन्द्रगुणचन्द्रकृते नाटकदर्पणे नाम ग्रन्थेऽस्य विस्तृतमुध्दरणं प्राप्यते । भोजस्य सरस्वतीकण्ठाभरणे अभिनवगुप्तस्य अभिनवभारत्थां चास्योल्लेखो दृश्यते । अत्र नाटके शकराजस्य कारागारात् रामगुप्तस्य महिष्या ध्रुवदेव्याः चन्द्रगुप्तकृत उध्दारो वर्णितः । एतन्नाटकेतिवृत्तमादायैव जयशङ्करप्रसादेन हिन्दीभाषायां ध्रुवस्वामिनी’ नाम नाटकं प्रणीतम् ।

मुद्राराक्षसे काव्यगुणाः[सम्पादयतु]

मुद्राराक्षसस्य शैली विलक्षणतमा, अलङ्काराणां प्रयोगोऽपि हृद्यतमः । आदावेव –

                            आस्वादिताद्विरदशोणितशोणशोभां सन्ध्यारुणामिव कलां शशलाञ्छनस्य ।
                                              जृम्भाविदारितमुखस्य मुखात्स्फुरन्तीं को हर्त्तुमिच्छति हरेः परिभूय दंष्ट्राम् ।

इति पद्यमोजोगुणगुम्फिततया नितान्तमनोरमम् । अत्रत्यं शरदृतोर्वर्णनमतिरमणीयम् –

                                आकाशं काशपुष्पच्छविमभिभवता भस्मना शुल्कयन्ती
                                               शीतांशोरंशुजालैर्जलभरमलिनां क्लिन्दती कृत्तिमैभीम् ।
                               कापालीमुद्वहन्ती स्रजमिव धवलां कौमुदीमित्यपूर्वां
                                              हासश्रीराजहंसा हरतु तनुरिव क्लेशमैशो शरद्वः ।

नाटकस्य स्वरूपम्[सम्पादयतु]

नाटकमिदम् आद्यन्तं यावत् ओजस्वितायाः पौरुषस्य चोपरि आधारिभूतमस्ति । यद्यपि महाकविभासस्य ‘प्रतिज्ञायौगन्धरायणम्’ कूटनीत्याधारीभूतं नाटकं विद्यते, परमस्मिन् मुद्रराक्षसे या ओजस्विता दरीदृश्यते । न सा प्रतिज्ञायौगन्धरायणे संस्कृतसाहित्ये ‘वेणीसंहारम्’ निः सन्देहं वीररसस्य सफलं नाटकमस्ति, परन्तु अनेनापिमुद्राराक्षसस्य तुलना कर्तुं न शक्यते । यतो हि वेणीसंहारनाटके युध्द- भीषणता, नाटकस्य वातावरणं नितरां भयावहं करोति स्थाने- स्थाने सैनिकानाम् अन्योऽन्यसंघट्टने नाटकस्य वातावरणं सर्वदैव खटखटायते अतः ऐतिहासिक- राजनैतिक- क्थाभूतं वीररसपूर्णमपि ‘वेणीसंहारनाटकं’ मुद्राराक्षसस्य न तुलामुपयाति । मुद्राराक्षसेऽपि युध्दं तु भवति, परमत्र सैनिकानां युध्दं न भवति द्वयो राजनीतिज्ञयोः राजनीति- समराङ्गणे कूटबुद्ध्यस्त्रेण् समरं भवति नास्त्रेण”न,धनुषापि वा । चन्द्रगुप्तस्य कथनमिदम्- 'विनैव युध्दादार्येण् जितं दुर्जयं परबलमिति युक्तियुक्तं प्रतिभाति । अतः मुद्राराक्षसं नाटकसाहित्येऽद्वितीया कृतिरिति कथने नातिशयोक्तिः । मुद्राराक्षसे विशाखदत्तस्य शैली पुरुषार्थपूर्णास्ति। पुत्रानुरुपं भावनिरुपणं तथा भाषाप्रयोगश्च दृश्यते । तृतीयाङ्के शरदर्तोः वर्णनं नितान्तं प्रभावपूर्णं विद्यते । विशाखदत्तः नाटकं वीररसपूर्ण्ंअ तथौजपूर्णं च कर्तुं यथाशाक्तिः प्रयत्नशीलः दृश्यते सफलश्चाभूत् । पाराणां चरित्रचित्रणेऽपि कविप्रतिभा सर्वातिशायिनी । भाषा –भावयोः शैलीपात्रचरित्रचित्रणयोः कवित्वशक्तेश्च सम्यकतया कृतायां समालोचनायां मुद्राराक्षसः विशाखदत्तस्य अद्वितीयम् ऎतिहासिकं नाटकमस्ति ।

मुद्रणानि[सम्पादयतु]

आधाराः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुद्राराक्षसम्&oldid=364801" इत्यस्माद् पुनः प्राप्तिः