विशाखदत्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

प्राक्कथनम्[सम्पादयतु]

विशाखदत्तः (Vishakhadatta) संस्कृतकविः नाटककारः च आसीत् । एतस्य पिता महाराजः पृथुनामा, पितामहः वटेश्वरदत्तः च आस्ताम् इति ज्ञायते मुद्राराक्षसम् नाटकस्य सूत्रधार वचनादस्मात्, यत् आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजपदभाक्पृथुसूनोः कवेः विशाखदत्तस्य कृतिः, अभिनवं मुद्राराक्षसम् नाम नाटकं नाटयितव्यमिति। अस्य पितुः भास्करदत्त इत्यपि नाम आसीत्, अपि च सः वत्सदेशस्य सामन्तराजः आसीत् । क्रमेण सः महाराजपदम् आरुरोह । स्वयं विशाखद्त्तः राजपुत्र आसीदिति कारणतः राजनीतिं सम्यगधीतवान् । एवम् प्रकृत्या अध्ययनेन च राजनीतिपारङ्गतः सन् विशेषतः कौटलीये अर्थशास्त्रे निष्णातो बभूव । जन्मना राजापि स्वभावेन कविः विशाखदत्तः स्वाधीतविद्यानुगुणम् निजप्रतिभाम् राजनीतिप्रख्यापनपरासु दृश्यकाव्यकृतिषु वितस्तार । एवं च एतेन विरचितानि त्रीणि नाटकानि श्रूयन्ते । तानि च देवीचन्द्रगुप्तम् मुद्रराक्षसम् अभिसारितवञ्चितकम् चेति । तेषु मुद्राराक्षसमेकम् एव अस्माभिः लब्धम् ।

कवेः देशः कालश्च[सम्पादयतु]

संस्कृतमहानाटककारेषु अन्यतमः "विशाखदत्तः" कल्पनालोकम् विहाय वास्तवम् चरित्रम् च्रित्रम् इव व्यलिखत् । अयम् "पाटलिपुत्रे" आसीत् । पाटलिपुत्रम् गङ्गाशोणानद्योः सङ्गमस्य दक्षिणे दिशि अवर्तत । अस्य कुसुमपुरम् इति नामान्तरमपि विद्यते । पूर्वस्मिन् काले यत्र मुद्राराक्षसनाटकस्य कथा प्राचलत्, तत्रैवायं कविः जनिम् अल्भत । अयम् क्रि.श.५ तमशतमाने पूर्वार्धे आसीत् बहवो विमर्शकाः मन्वते । यतः पञ्चमशताब्दस्य उत्तरभागे विद्यमानः "वराहमिहिरः" एनम् अस्तौत् । पाट्लिपुत्रम् अस्य वासस्थानं कार्यस्थानं च अभवत् ।

नाटकस्य कथा[सम्पादयतु]

क्रिस्तात् पूर्वकाले घटितस्य मगधानां महापतनस्य चन्द्रगुप्तोदयस्य चाणक्यतन्त्राणां कथाविस्तरस्य रूपकम् "मुद्राराक्षसम्" । एशा चाणक्यस्य कथा, चन्द्रगुप्तः अस्य नायकः । विष्णुपुराणेऽपि उक्तं यथा-

नव चैतान्नन्दान्कौटल्यो ब्राह्मणः समुद्धरिष्यति । कौटल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति । अतः परं शूद्राः पृथिवीं भोक्ष्यन्ति । इति ।

बृहत्कथायाम् एवमुक्तम् -

चाणक्यनाम्ना तेनाथ शकटारगृहे रहः ।
कृत्यां विधाय सप्ताहात् सपुत्रो निहतो नृपः ॥
योगानन्दे यशःशेषे पूर्वनन्दसुतस्ततः ।
चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥

अस्मिन् नाटके चाणक्यस्य प्रधानं पात्रम् । चणकः चाणक्यस्य जनकः । चाणक्यः साङवेदाध्यायी, ज्योतिश्शास्त्रे नीतिशास्त्रे च पारङ्गतः आसीत् । एतस्य विष्णुगुप्तः, कौटल्यः इति च नामान्तरे आस्ताम् । एषः अर्थशास्त्रम् इति ग्रन्थम् अलिखत् । अस्य अर्थशास्त्रस्य प्रसारमाध्यमम् इव इदम् नाटकम् भासते । पुरा पाटलिपुत्रम् अथवा कुसुमपुरम् नाम्नि नगरे चन्द्रवंशीयः "सर्वार्थसिद्धिः" नाम राजा राज्यं शासति स्म । तस्य सुनन्दा नाम्नी पट्टमहिषी, शूद्रकुलसञ्जाता "मुरा" प्रियमहिषी च इति द्वे पत्न्यौ आस्ताम् । कस्यचन मुनेः अनुग्रहेण सुनन्दायां नव पुत्राः, मुरायाम् एकश्च तनयः इति दश पुत्राः अजायन्त । वृद्धाप्ये राजा राज्ञ्याः ज्येष्ठपुत्रे राज्यं विनिक्षिप्य मुरापुत्रं (मौर्यम्)सेनाधिकारिणम् नियोजमास । कालक्रमेण मौर्यस्य शतम् पुत्राः समभवन् । एतेषु सर्वेभ्यः कनीयानेव चन्द्रगुप्तः

औचित्यम्[सम्पादयतु]

नन्दानां नाशाय, चन्द्रगुप्तस्य अभ्युद्याय च हेतुभूतं अमात्यराक्षसस्य मुद्राङ्गुलीयकम् । अतः कविः स्वनाटकम् मुद्राराक्षसम् इति अभिधत्ते ।

"https://sa.wikipedia.org/w/index.php?title=विशाखदत्तः&oldid=364794" इत्यस्माद् पुनः प्राप्तिः