सामग्री पर जाएँ

लिट् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लिट् लकारः परोक्षभूतकालं बोधयति । लिट् लकारे धातोः आरम्भे एका द्वित्वप्रत्यया योज्यते (इति- नन्द् → ननन्द, वन्द् → ववन्दे)। तत्र त्रयः नियमाः सन्ति।

  • यदि धातोः आरम्भः कवर्गं (क, ख, ग, घ, ङ) उत हकारं भवेत्, तर्हि द्वित्वं चवर्गं (च, छ, ज, झ, ञ) भवेत् (खाद् → चखाद, हु → जुहाव)।
  • यदि धातोः आरम्भः महाप्राणं (ख, झ, थ, भ …) भवेत्, तर्हि द्वित्वं अल्पप्राणं (क, ज, त, ब …) भवेत् (झर्झ् → जझर्झ, भाष् → बभाषे)।
  • यदि धातोः आरम्भः संयोगः (क्व, स्थ, भ्य …) भवेत्, तर्हि द्वित्वं द्वितीयं व्यञ्जनं एव भवेत् (स्था → तस्थौ, स्पर्ध → पस्पर्धे)।[]
नन्द् धातोः लिट् लकारे रूपाणि
लिट् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःननन्दननन्दतुःननन्दुः
मध्यमपुरुषःननन्दिथननन्दथुःननन्द
उत्तमपुरुषःननन्दननन्दिवननन्दिम
लिट्(परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लिट् लकारः(परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअतुःउः
मध्यमपुरुषःइथअथुः
उत्तमपुरुषःइवइम


भाष् धातोः लिट् लकारे रूपाणि
लिट् लकारः(आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःबभाषेबभाषातेबभाषिरे
मध्यमपुरुषःबभाषिषेबभाषाथेबभाषिध्वे
उत्तमपुरुषःबभाषेबभाषिवहेबभाषिमहे
लिट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःआतेइरे
मध्यमपुरुषःइषेआथेइध्वे
उत्तमपुरुषःइवहेइमहे

टिप्पणी

[सम्पादयतु]
  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
  • Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. Whitney, W
"https://sa.wikipedia.org/w/index.php?title=लिट्_लकारः&oldid=496132" इत्यस्माद् प्रतिप्राप्तम्