लुङ् लकारः
दिखावट
संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ् च आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र लुङ् लकारः सामीप्यभुतकालञ्च क्रियाप्रबन्धञ्च बोधयति। लङलुङोः भुतकालयोः लकारयोः धातोः आरम्भे एकः अकार-उपसर्गः योज्यते। अपि च लुङ् लकारे धातोः मध्यः स्वरः सामान्यते गुणयति।[१]
बहवः अन्य अन्ताः सन्ति, एते अतिसामान्या अन्त एव सन्ति-
| लुङ् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | अपाठीत् | अपाठिष्टाम् | अपाठिषुः |
| मध्यमपुरुषः | अपाठीः | अपाठिष्टम् | अपाठिष्ट |
| उत्तमपुरुषः | अपाठिषम् | अपाठिष्व | अपाठिष्म |
| लुङ् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरु़षः | इत् | स्ताम् | सुः |
| म़ध्यमपुरुषः | इः | स्तम् | स्त |
| उत्तमपुरु़षः | सम् | स्व | स्म |
| लुङ् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | असेविष्ट | असेविषाताम् | असेविषत |
| मध्यमपुरुषः | असेविष्ठाः | असेविषाथाम् | असेविध्वम् |
| उत्तमपुरुषः | असेविषि | असेविष्वहि | असेविष्महि |
| लङ् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहु वचनम् |
|---|---|---|---|
| प्रथमपुरु़षः | स्थ | साताम् | सत |
| म़ध्यमपुरुषः | स्थाः | साथाम् | ध्वम् |
| उत्तमपुरु़षः | सि | स्वहि | स्महि |
यदा वेदेषु सः अकार-उपसर्गः नास्ति, तदा तं पादं लिङ् लकार इव भवति।
- वाते॑ धाः। (तै सं ॥१।१।१।१३॥)
- मा मा॑ हिंसीः। (तै सं ॥१।२।२।३॥))
ग्रन्थसूची
[सम्पादयतु]- Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
- Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft