सामग्री पर जाएँ

लुङ् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लुङ् लकारः सामीप्यभुतकालञ्च क्रियाप्रबन्धञ्च बोधयति। लङलुङोः भुतकालयोः लकारयोः धातोः आरम्भे एकः अकार-उपसर्गः योज्यते। अपि च लुङ् लकारे धातोः मध्यः स्वरः सामान्यते गुणयति।[]

बहवः अन्य अन्ताः सन्ति, एते अतिसामान्या अन्त एव सन्ति-

पठ् धातोः लुङ् लकारे रूपाणि []
लुङ् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअपाठीत्अपाठिष्टाम्अपाठिषुः
मध्यमपुरुषःअपाठीःअपाठिष्टम्अपाठिष्ट
उत्तमपुरुषःअपाठिषम्अपाठिष्वअपाठिष्म
लुङ् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लुङ् लकारः (परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरु़षःइत्स्ताम्सुः
म़ध्यमपुरुषःइःस्तम्स्त
उत्तमपुरु़षःसम्स्वस्म


सेव् धातोः लङ् लकारे रूपाणि []
लुङ् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअसेविष्टअसेविषाताम्असेविषत
मध्यमपुरुषःअसेविष्ठाःअसेविषाथाम्असेविध्वम्
उत्तमपुरुषःअसेविषिअसेविष्वहिअसेविष्महि
लुङ् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लङ् लकारः (आत्मनेपदम्)एकवचनम्द्विवचनम्बहु वचनम्
प्रथमपुरु़षःस्थसाताम्सत
म़ध्यमपुरुषःस्थाःसाथाम्ध्वम्
उत्तमपुरु़षःसिस्वहिस्महि

यदा वेदेषु सः अकार-उपसर्गः नास्ति, तदा तं पादं लिङ् लकार इव भवति।

वाते॑ धाः। (तै सं ॥१।१।१।१३॥)
मा मा॑ हिंसीः। (तै सं ॥१।२।२।३॥))

ग्रन्थसूची

[सम्पादयतु]
  1. Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
  2. Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. 1
  2. 2
  3. 2
"https://sa.wikipedia.org/w/index.php?title=लुङ्_लकारः&oldid=496131" इत्यस्माद् प्रतिप्राप्तम्