लुट् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लुट् लकारः अनद्यतनभविष्यात्कालं बोधयति ।

पठ् धातोः लुट् लकारे रूपाणि
लुट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिता पठितारौ पठितारः
मध्यमपुरुषः पठितासि पठितास्थः पठितास्थ
उत्तमपुरुषः पठितास्मि पठितास्वः पठितास्मः
लुट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लुट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ता तारौ तारः
मध्यमपुरुषः तासि तास्थः तास्थ
उत्तमपुरुषः तास्मि तास्वः तास्मः


सेव् धातोः लुट् लकारे रूपाणि
लुट् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेविता सेवितरौ सेवितारः
मध्यमपुरुषः सेवितासे सेवितासाथे सेविताध्वे
उत्तमपुरुषः सेविताहे सेवितास्वहे सेवितास्महे
लुट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लुट् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ता तारौ तारः
मध्यमपुरुषः तासे तासाथे ताध्वे
उत्तमपुरुषः ताहे तास्वहे तास्महे

इमे अपि पश्य[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.wikipedia.org/w/index.php?title=लुट्_लकारः&oldid=486621" इत्यस्माद् प्रतिप्राप्तम्