सामग्री पर जाएँ

लोट् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ् ।'

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लोट् लकारः आज्ञां उत प्रश्नं बोधयति ।

पठ् धातोः लोट् लकारे रूपाणि
लट् लकारः(परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःपठतु/पठतात्पठताम्पठन्तु
मध्यमपुरुषःपठपठतम्पठत
उत्तमपुरुषःपठानिपठावपठाम
लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लोट् लकारः(परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतु/तात्ताम्अन्तु
मध्यमपुरुषः-तम्
उत्तमपुरुषःआनिआवआम
सेव् धातोः लोट् लकारे रूपाणि
लोट् लकारः(आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसेवताम्सेवेताम्सेवन्ताम्
मध्यमपुरुषःसेवस्वसेवेथाम्सेवध्वम्
उत्तमपुरुषःसेवैसेवावहैसेवामहै
लोट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लोट् लकारः(आत्मनेपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःताम्इताम्अन्ताम्
मध्यमपुरुषःस्वइथाम्ध्वम्
उत्तमपुरुषःआवहैआमहै


टिप्पणी

[सम्पादयतु]
  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.

इमे अपि पश्य

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=लोट्_लकारः&oldid=496135" इत्यस्माद् प्रतिप्राप्तम्