लट् लकारः
दिखावट
लट्-लकारः दशसु लकारेषु अन्यतमः अस्ति। संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ् च आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र लट् लकारः वर्तमानकालं बोधयति ।
लट् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | पठति | पठतः | पठन्ति |
मध्यमपुरुषः | पठसि | पठथः | पठथ |
उत्तमपुरुषः | पठामि | पठावः | पठामः |
लट् लकारः (परस्मैपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | ति | तः | न्ति |
मध्यमपुरुषः | सि | थः | थ |
उत्तमपुरुषः | आमि | आवः | आमः |
लट् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | सेवते | सेवेते | सेवन्ते |
मध्यमपुरुषः | सेवसे | सेवेसे | सेवध्वे |
उत्तमपुरुषः | सेवे | सेवावहे | सेवामहे |
लट् लकारः (आत्मनेपदम्) | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | ते | ते | न्ते |
मध्यमपुरुषः | से | थे | ध्वे |
उत्तमपुरुषः | ई | आवहे | आमहे |
इमे अपि पश्य
[सम्पादयतु]टिप्पणी
[सम्पादयतु]धातूनां तिङन्तरूपाणि प्राप्तुम् अनुबन्धमेतत् उपयुज्यताम् - http://www.sanskrit.jnu.ac.in/tinanta/tinanta.jsp Archived २०११-०९-०५ at the Wayback Machine