कुमारदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

कुमारदासस्य (Kumardas) विषये एका कथा प्रथते कुमारदासेन सह कालिदासस्य सख्यमासीत् । कालिदासो यदा कदा कुमारदासनिवासं सिंहलं भूषयति स्म । एकस्मिन् समये कालिदासे सिंहलस्थिते कुमारदासः स्वप्रेयस्यै कस्यैचित् वेश्यायै समस्यामेकां दत्तवान् – ‘कमले कमलोत्पत्तिः श्रूयते न च दृश्यते’ इत्याकाराम् । उक्तवांश्च यत् अस्याः समस्यायाः पूरकं पारितोषकेण सत्करिष्ये इति । तदनन्तरमेव कालिदासोऽपि तस्या एव वेश्याया भवनं गतस्तां समस्यां सद्योऽपुरयत् ‘बाले तव मुखाम्भोजे कथमिन्दीव्रद्वयम्’ । द्रव्यलुब्धा सा गणिका कालिदासं घातयित्वा तच्छवं गुप्तं चकार , परदिने समस्यापूर्तिमादाय कुमारदासं राजानमुपससाद पारितोषिकं चार्थयामास । राजा सन्दिहानमानसो भूत्वा भयताडनादिना रहस्यं स्वीकारयामास । ज्ञातकालिदासावसानश्च तच्छवं प्राप्य तच्चितायामात्मनमाहुतीचकार ।

कथयाऽनया कुमारदासस्य कालिदाससमकालिकत्वं सिदध्यति । माघेन जानकीहरणपद्यमनुकृतं, वामनेन तदुदाहृतमिति तदीयप्राचीनतायाः समर्थकं प्रमाणम् । कुमारदासः सिंहलस्य राजा कुमारमणेः पुत्रश्चासीत् । यदहरसौ जन्माग्रहीत्तदहरेव तस्य पिता युध्दे हतः । पितृमरणानन्तरमसौ मातुलाभ्यां मेघाग्रबोधिभ्यां पालितः । मातुलकृतं पालनमसौ जानकीहरणे नाम्नि स्वकाव्ये विंशतिसर्गे शेषभागे स्वयमुक्तवान् –

विद्वानस्य कवेः पितार्थहृदयं धीमानतो मानितो
लङ्केश्वर्यभुजः कुमारमणिरित्यासन्नयः सन्नयः ।
श्रीमेघोऽस्य कवेरसौ किल बृहध्दामातुलो मातुलो ॥
भ्राता तन्मातुरस्याः शशिधवलयशः कारणानां रणानां
कर्त्तुं पुत्राऽग्रबोधिर्जनशिरसि लसद्भासुराज्ञः सुराज्ञः ।
आत्मापत्यविशेषं पुपुषतुरहतप्रेमदान्तौ मदान्तौ ॥

महावंशेयः कुमारघातुसेनः कित्तिसेनस्य पुत्रः उक्तः सोऽस्मात् कवेः कुमारदासाद्भित्रः पञ्चमशतकोत्पत्रश्च । कालिदासभाषातुलितभाषाकं काव्यमुत्पादितवान् कुमारदासस्तु कालिदाससमये एव स्वीकर्तुं युज्यते ।

स्थितिः, कालः च[सम्पादयतु]

कोऽस्य इत्यपेक्षायां प्रायः सर्वे एव ते सिंहलवासिनं मन्यन्ते । लङ्कायां हि, यथा जनश्रुतिः, ५७२-५८५ मितवैक्रमाब्दान्तराले कश्चित्कुमारदासाख्यो राजा शासति स्म । स एव जानकीहरणस्य कर्ता वा न वेति नैव निश्चयः । सति तथा, तदा तस्य भट्टेरपि पूर्ववर्तित्वं मन्यते। जनश्रुतिमनुसृत्य तस्य ग्रन्थस्य लङ्कायमेव प्रथमवारमुपलब्धेश्च तं सिंहलवासिनमेव कथने नैवापत्तिरन्यथा प्रमाणाभावात् ।

तस्य स्थितिकालस्तु विवादभूमिरेवं । केचितं काशिकावृत्त्यनुयायिनं मत्वा ६६० मितवैक्रमाब्दात्परवर्तिनं वामनेन स्मृतत्वात् ८०० मितवैक्रमब्दात्पूर्ववतनं मन्यन्ते । केचित्तं माघपूर्ववर्तिनं परे तु तदवरकालभवमपि मन्यन्ते । एवमेव भट्टिकुमारदासयोरपि । स्थितिः केचित्तु ते कालिदाससमकालीनमपि मन्यन्ते । केचित्काशिकायां कुमारदासप्रभावं पश्यन्ति, अन्ये तु कुमारदासे काशिकाप्रभावम् ।

राजशेखरस्तु तमैतिहासिकरूपेण स्मरति । तदनुसारेण सः जन्मान्धः आसीन्मेधाविरुद्र इव । सामान्यतो विक्रमानन्तरं षष्ठशतकमेव कुमारदासस्य स्थितिकालं मन्यन्ते समालोचका यतो हि माघादारभ्य रामधारास्थाने कृशधारा प्रवहति । कुमारदासश्च रामधाराप्लुतः कविः । तेन तस्य माघपूर्ववर्तित्वमेव मन्यते। यदि सः सिंहलेश्वरस्तदाख्यस्तदा तु जानकीहरणस्य प्रणयनकालः ५७७ मितवैक्रमाब्दमभितः सम्भवति नो चेन्यथाऽपि परिकल्पनीयमेव । वस्तुतस्त्वसौ भारविप्रवर्तितं पण्डितयुगं न मनागप्यनुसरति तेनासौ भारवेरपि पूर्ववर्ती सम्भवति। जानकीहरणं पञ्चविंशतिसर्गेषु विभक्तं महाकाव्यम् । किन्त्वस्य पञ्चदशसर्गपर्यन्तमेव मुद्रिता प्रतिलभ्यते। कथ्यते अस्यैका हस्तलिपिः विंशतिसर्गव्यापिनी लभ्यते । सम्पूर्णः ग्रन्थस्तु सिंहलीभाषायामनूदित एव लभ्यते । ग्रन्थेऽस्मिन् रामायणीया कथा निबद्धाऽस्ति ततोऽपि चमत्कारितया। काव्यमिदं वैदर्भरीतेः क्रीडाभूमिः । अस्य हि यमकानुप्रासप्रयोगो विलक्षणः । सर्वतोभावेन कालिदासमनुवर्तमानः कविरसौ यत्र कुत्र तु स्वं कालिदासरूपेणैवोपस्थापयति । चारुतैवाऽस्य विशिष्टगुणः । अस्यापि व्याकरणप्रियत्वं भाषापाण्डित्यञ्च स्पष्टमेव परिलक्ष्यते । वंशस्थमस्य प्रियं छन्दः । आस्वादयोग्या च तस्य वर्णनाचातुरी । दिङ्मात्रं यथा -

शिशिरशीकरवाहिनि मारुते चरति शीतभयादिव सत्वरः।

मनसिजः प्रविवेश वियोगिनीहृदयमाहितशोकहुताशनम् ।।

प्रालेयकालप्रियविप्रयोगग्लानेव रात्रिः क्षयमाससाद ।

जगाम मन्दं दिवसो वसन्तक्रूरातपश्रान्त इव श्रमेण ।।

वसन्ते सूर्यस्य प्रचण्डकिरणत्वं दाक्षिणात्ये एव प्रदेशे भवति न तु उत्तराञ्चले । एवमेव -

विनीद्रपुष्पाभरणः पलाशः समुल्लसत्पुष्पलतावनद्धः।

उद्भूतभस्मा मधुनेव रेजे राशीकृतो मन्मथदाववह्निः।।

सा मदेन मदनेन लज्जया साध्वसेन च विमिश्रचेष्टिता।

आययौ सपदि तादृशां दशां या नः वक्तुमपि शक्यविभ्रमा।।

स्त्रियो न पुंसामुदयस्य साधनं त एव तद्धामविभूतिहेतवः।

तडिद्वियुक्तोऽपि घनः प्रजृम्भते विना न मेधं विलसन्ति विद्युतः ।।

कुमारदासस्य जानकीहरणम्[सम्पादयतु]

जानकीहरणं चिरमप्राप्तमेवासीत्, केवलं – जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च यदि क्षमः इति स्तुतिपद्यमेव तत्सत्त्वमनुमापयति स्म । सिंहलभाषानुवादाधारेण राजसुन्दरः पञ्चद्शसर्गान्तां जानकीहरणामुद्धृतवान् । नन्दर्गीकरमहाशयः हरप्रसादशास्त्रिमहाशयश्च ये संस्करणे प्रकाशितवन्तौ ते अपि क्रमशः १०, १४ सर्गानेव धारयतः । षोडशः सर्गः बार्नेटमहोदयेन पश्चात्सम्पादितो मुद्रितश्च लन्डन्- नगरे सम्प्रति अन्येऽपि लेखाः प्राप्ताः ये पुस्तकस्य स्वरुपद्वयमुपस्थापयन्ति । रामकृष्णकविना प्राप्ते लेखपुस्तके प्रकाशितपुस्तकेभ्योऽधिकाः श्लोकाः सन्ति ।

वर्णनादिषु कुमारदासः कालिदासमनुहरति जल्हणः कुमारदासं रामाश्रयकाव्यकर्त्तृषु द्वितीयं ब्रवीति । कालिदासमतिरिच्य सर्वोत्कृष्टरामाश्रयकाव्यप्रणेता कुमारदासः इति तदाशयः ।

कुमारदासस्य् भाषाशैली[सम्पादयतु]

सर्वात्मना कालिदासमनुहरतः कुमारदासस्य भाषाऽपि कालिदासानुकारिणी सरसा सरला च । कतिचनोदाहाणानि प्रदीयन्ते –

स्त्रियो न पुंसामुदयस्य कारणं त एव तध्दामविभूतिहेतवः ।
तडिद्वियुक्तोऽपि घनः प्रजृम्भते विना न मेघं विलसन्ति विद्युतः ॥
उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे ।
यौवने वनिता वल्कसन्ततिर्वार्धके च नः॥
गतापि भर्त्रे परकोपमायत गिरं कृथा मा परुषार्थदीपिनीम् ।
कुलस्त्रिया भर्तृजनस्य भर्त्सने वदन्ति मौनं परमं हि साधनम् ॥
फुल्लं यदीदं कमलं किमेतत्तत्रैव नीलोत्पलयोर्विकासः ।
इत्यात्तशङ्काऽनुसरस्तरन्त्या हंसः सिषेवे वदनं सुदत्याः ॥

एवमादीनि बहून्युदाहरणानि दातुं शक्यन्ते, यैः काव्यस्य भाषाशैलीपरिचिता भविष्यति, स्थालीपुलाकन्यायेनैतावतैव विभाव्यताम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुमारदासः&oldid=443977" इत्यस्माद् पुनः प्राप्तिः