पशुपतिनाथमन्दिरम् (मन्दसौर)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
पशुपतिनाथः

पशुपतिनाथ-मन्दिरं ( /ˈpəʃʊpətɪnɑːθməndɪrəm/) (हिन्दी: पशुपतिनाथ मन्दिर, आङ्ग्ल: Pashupatinath Temple) मध्यप्रदेशराज्यस्य मन्दसौरमण्डलस्य मन्दसौर-नगरे स्थितम् अस्ति । इदं मन्दिरं मन्दसौर-नगरस्य आकर्षणकेन्द्रम् अस्ति । मन्दिरेऽस्मिन् अष्टमुखीप्रतिमारूपेण भगवतः शङ्करस्य एकं लिङ्गम् अस्ति । अस्याः मूर्तेः प्रतिष्ठा मार्गशीर्ष-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ अभवत् । अतः प्रतिवर्षं तस्यां तिथौ जनाः पाटोत्सवम् आचरन्ति । अस्य मन्दिरस्य समीपे शिवनानदी प्रवहति ।

मन्दिरस्य स्थापना वास्तुकला च[सम्पादयतु]

पशुपतिनाथ-मन्दिरस्य स्थापना १९६१ तमस्य वर्षस्य नवम्बर-मासस्य २७ तमे दिनाङ्के (२७/११/१९६१) अभवत् । मन्दसौर-नगरस्य दक्षिणदिशि शिवनानदी प्रवहति । शिवनानद्याः तटे इदं मन्दिरं स्थितम् अस्ति ।

मन्दसौर-नगरस्य प्राचीनं नाम दशपुर इति आसीत् । कुमार गुप्त प्रथम, बन्धु वर्मा इत्येतयोः अभिलेखेषु पश्चिमपुरम् इति नाम प्राप्तम् । महाराज गौरी इत्यस्य आधित्यवर्धनकालीनेषु खण्डिताभिलेखेषु दसादिकपुरम् इति नाम प्राप्यते । दशपुर-नगरस्य नामोल्लेखः स्कन्दपुराणे, मार्कण्डेयपुराणे, मेघदूते, अमरकोषे, जैनधर्मस्य साहित्ये, बौद्धसाहित्ये इत्यादिषु दृश्यते । स्कन्दपुराणे अस्य नगरस्य नाम दशारण्यम् इति उल्लिखितम् अस्ति । वत्सभट्टिना अपि उक्तं यत् दशपुर-नगरं मालवा-प्रान्तस्य शिरोभूषणम् अस्ति इति ।

मन्दसौर-नगरस्य विशिष्टेषु मन्दिरेषु अन्यतमम् अस्ति इदं मन्दिरम् । पशुपतिनाथ-मन्दिरस्य मूर्त्याः नामकरणं श्री प्रत्यक्षानन्द जी महाराज इत्याख्येन कारितम् आसीत् । मन्दिरमिदं पश्चिमाभिमुखी अस्ति । पशुपतिनाथ-मन्दिरं ९० फीट् लम्बमानं, ३० फीट् विस्तृतं, १०१ फीट् उन्नतम् अस्ति । अस्य मन्दिरस्य शिखरे एकः कलशः स्थापितः अस्ति । तस्य कलशस्य भारः १०० किलो अस्ति । सः कलशः ५१ तोला स्वर्णेन लेपितः अस्ति । १९६६ तमस्य वर्षस्य फरवरी-मासस्य २६ तमे दिनाङ्के (२६/०२/१९६६) राजमाता विजयाराजे सिन्धिया इमं कलशम् अनावरणं कृतवती ।

पशुपतिनाथमूर्तिः[सम्पादयतु]

मन्दिरेऽस्मिन् भगवतः शिवस्य लिङ्गं वर्तते । तत् शिवलिङ्गम् अष्टमुखी अस्ति । अस्य शिवलिङ्गस्य निर्माणम् आग्नेयशिलायाः खण्डस्य उपरि कारितम् । अस्याः मूर्तेः आकारः २.५ x ३.२० मीटर् अस्ति । अस्याः मूर्तेः भारः ४६ क्विंटल् ६५ किलो ५२५ ग्राम् अस्ति । अस्याः प्रतिमायाः तुलना नेपाल-देशे स्थितया पशुपतिनाथस्य प्रतिमया सह कृता अस्ति । नेपाल-देशे स्थितायाः प्रतिमायाः चत्वारि मुखानि एव सन्ति । किन्तु अस्याः मूर्तेः अष्ट मुखानि सन्ति । प्रत्येकं मुखं भिन्नं भावं प्रकटयति । अस्यां प्रतिमायां मानवजीवनस्य चतस्रः अवस्थाः (बाल्यावस्था, युवावस्था, प्रौढावस्था, वृद्धावस्था) दृश्यन्ते । सौन्दर्यशास्त्रानुसारेण अपि इयं प्रतिमा निर्माणकलायां, भावाभिव्यक्तौ च उत्कृष्टा वर्तते । इयं प्रतिमा सोमवासरे शिवनानद्याः प्राप्ता इति मान्यता अस्ति । शवना-नामकः लघुग्रामः अस्याः नद्याः उद्गमस्थानं वर्तते । अतः अस्याः नाम शिवना इति । शवना-ग्रामः मन्दसौरमण्डलस्य सालगढ-ग्रामात् ४ कि. मी. दूरे रायपुरिया-पर्वतक्षेत्रस्य समीपे अस्ति । अयं ग्रामः ताम्राष्मयुगी वर्तते । तत्र महाकाल चौबीस खम्भा नामकं प्राचीनं मन्दिरम् अस्ति । शिवनानदी ६५ कि. मी. पर्यन्तं प्रवहति । अन्ते चम्बलनद्यां लीना भवति । मूर्तेः प्राप्तेः २१ वर्षाणां ५ मासानां ४ दिवसानां पश्चात् सोमवासरे अस्याः प्रतिष्ठा कृता ।

मूर्तेः स्वरूपम्[सम्पादयतु]

पशुपतिनाथस्य मूर्तेः स्वरूपं विशिष्टं वर्तते । प्रत्येकदिशि अस्य मूर्तेः मुखद्वयम् अस्ति । अतः मूर्तिः अष्टमुखी वर्तते । प्रत्येकस्य मुखस्य भावः भिन्नः वर्तते । प्रत्येकस्य नाम अपि भिन्नः अस्ति । शिवमहिमास्तोत्रे अपि पुष्पदन्तेन उक्तम् –

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योस्मि भवते ॥

१ भवः, २ शर्वः, ३ रुद्रः, ४ पशुपतिः, ५ महादेवः, ६ भीमः, ७ ईशानः, ८ देवः इत्येतानि अष्ट नामानि सन्ति ।

पूर्वमुखम् – इदं मुखं शान्त्याः, समाधिरसस्य च सूचकम् अस्ति । ललाटे मालायाः सूत्रद्वयं सज्जितम् अस्ति । मूर्तौ सर्पाः शिवस्य कर्णाभ्यां बहिः आगच्छन्ति इति दृश्यते । ग्रीवायां सर्पमाला, मन्दारमाला च अस्ति । अधरोष्ठौ अत्यन्तसरलौ सौम्यौ च स्तः । मूर्तेः मुखं समाधिः इव दृश्यते । तृतीयनेत्रम् अत्यन्तं प्रचण्डं दृश्यते ।

दक्षिणमुखम् – इदं मुखं सौम्यम् अस्ति । केशानां सज्जता कलात्मकरूपेण कृता अस्ति । शृङ्गारे चन्द्ररेखा अपि दृश्यते । ग्रीवायां सर्पद्वयस्य माला, कर्णयोः सर्पकुण्डले च स्तः । इदं मुखम् अतीव काम्यं दृश्यते ।

उत्तरमुखम् - इदं मुखं जटायुतम् अस्ति । तस्यां जटायां सर्पाः संवीताः सन्ति । कर्णयोः कुण्डले स्तः । कण्ठे रुद्राक्षमाला, भुजङ्गमाला च धृता अस्ति ।

पश्चिममुखम् – शीर्षे जटा लघ्वी वर्तते । केशाः नागैः ग्रन्थिताः सन्ति । मुखे रौद्ररूपम् दृश्यते । नेत्रम्, अधरोष्ठं च क्रोधात् उद्घाटितमस्ति । मुखं वक्रम् अस्ति । कुमारसम्भवं-महाकाव्ये यथा योगीश्वरस्य समाधिः भग्ना जाता तथैव तत् मुखं दृश्यते ।

मन्दिरस्य परिसरे अन्यानि मन्दिराणि[सम्पादयतु]

पशुपतिनाथमन्दिरस्य परिसरे बहूनि अन्यानि मन्दिराणि अपि सन्ति । श्री रणवीर मारुती मन्दिर, श्री जानकीनाथ मन्दिर, सिंहवाहिनी दुर्गा मन्दिर, श्री गायत्री मन्दिर, श्री गणपति मन्दिर, श्री राम मन्दिर, श्री बगलामुखी माता मन्दिर, श्री तापेश्वर महादेव मन्दिर, सहस्रलिङ्ग मन्दिर इत्यादीनि मन्दिराणि स्थितानि सन्ति । पश्चिमदिशि प्रत्यक्षानन्द जी महाराज इत्यस्य प्रतिमा अस्ति । मस्तराम महाराज इत्यस्य समाधिः अपि मन्दिरपरिसरे स्थिता अस्ति ।

पशुपतिनाथ-मन्दिरस्य उत्सवः[सम्पादयतु]

पशुपतिनाथ-मन्दिरस्य स्थापना मार्गशीर्ष-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ अभवत् । अतः प्रतिवर्षं तस्यां तिथौ जनाः अस्य मन्दिरस्य पाटोत्सवम् आचरन्ति । श्री प्रत्यक्षानन्द महाराज इत्यनेन अस्य उत्सवस्य प्रथायाः आरम्भः कृतः । उत्सवस्य आनन्दप्राप्तये बहवः जनाः तत्र गच्छन्ति । अस्मिन् उत्सवे प्रतिदिनं वेदपाठिनः रुद्राभिषेकं, सन्त-महात्मनः प्रवचनानि च कुर्वन्ति । प्रतिदिनं भगवतः शिवस्य नूतनः शृङ्गारः भवति । मन्दिरस्य सम्पूर्णे परिसरे विद्युद्दीपाः प्रज्वाल्यन्ते । तेन अस्य मन्दिरस्य आकर्षणे वृद्धिः भवति । १९६३ तमात् वर्षात् मन्दसौर-नगरस्य नगरपालिकया अस्मिन् उत्सवे पशुपतिनाथ मेला इत्यस्य अपि आरम्भः कृतः । पाटोत्सवे मेला अपि प्रतिवर्षं भवति । अयम् उत्सवः मनोरञ्जकः भवति । उत्सवेऽस्मिन् सांस्कृतिककार्यक्रमस्य, साहित्यिककार्यक्रमस्य च आयोजनं भवति । मन्दसौर-नगरस्य वासिनः तु आगच्छन्ति एव, अन्येभ्यः नगरेभ्यः अपि पशुपतिनाथस्य दर्शनार्थं श्रद्धालवः गच्छन्ति । बहवः जनाः स्वव्यावसायिकानां प्रतिष्ठानानां प्रचारार्थम् अपि उत्सवं गच्छन्ति । उत्सवेऽस्मिन् मध्यप्रदेशराज्यस्य सर्वकारस्य ’सूचना एवं प्रकाशन’-मन्त्रालयः शासकीयगतिविधीनां, जनानां विकासकार्याणां प्रदर्शनीनाम् आयोजनं करोति । श्रावणमासस्य प्रत्येकस्मिन् सोमवासरे बहवः भक्ताः दर्शनार्थं तत्र गच्छन्ति । महाशिवरात्रिपर्वणि तत्र महान् जनसागरः एव भवति । प्रतिमासं पञ्चम्यां तिथौ भगवतः विशेषाभिषेकः भवति ।

मार्गाः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

इन्दौर-नगरे (२२० कि. मी.), उदयपुर-नगरे (२१० कि. मी.) च मन्दसौर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

मन्दसौर-नगरस्य धूमशकटमार्गः भारतदेशस्य अधिकतमैः भागैः सह सम्बद्धः अस्ति । इदं नगरम् अजमेर-रतलाम रेल-मार्गस्य प्रमुखं रेलस्थानकं वर्तते ।

भूमार्गः[सम्पादयतु]

क्रं. ३१ राष्ट्रियमार्गेण इदं नगरं देशस्य प्रमुखनगरैः सह संलग्नम् अस्ति । दिल्ली, जयपुर, चित्तौडगढ, नीमच, उदयपुर, कोटा, गान्धीसागर, भानपुरा, मुम्बई, वडोदरा, रतलाम, जावरा, अहमदाबाद, बांसवाडा, प्रतापगढ, शामगढ इत्यादिभ्यः नगरेभ्यः मन्दसौर-नगरं प्रति बस्-यानानि प्राप्यन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]