सामग्री पर जाएँ

रतलाम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रतलाम-नगरम्

Ratlam
'रतनपुरी'
रतलाम-नगरम्
रतलाम-नगरस्य आकर्षणम्
मध्यप्रदेश राज्यस्य मानचित्रे रतलाम नगरम्
मध्यप्रदेश राज्यस्य मानचित्रे रतलाम नगरम्
देशः भारतम्
राज्यम् मध्यप्रदेशराज्यम्
मण्डलम् रतलाममण्डलम्
जनसङ्ख्या (२०११) २,७३,८९२
Founded by रतन सिंह
Government
 • Type महापौरपरिषद्-सर्वकारः (Mayor–council government)
 • Body रतलाम म्युनिसिपल् कोर्पोरेशन्
 • महापौरः शैलेन्द्र डागा
Time zone UTC+५:३० (भारतीयमानकसमयः (IST))
पिन कोड
४५७ xxx
Area code(s) ०७४१२
Vehicle registration एम पी - ४३
साक्षरता ८७.८९%
भाषाः हिन्दी, आङ्ग्लं, मालवी
लिङ्गानुपातः पु.-५०%, स्त्री.-४८%

रतलाम ( /ˈrətəlɑːmə/) (हिन्दी: रतलाम, आङ्ग्ल: Ratlam) इत्येतन्नगरं मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतस्य रतलाममण्डलस्य केन्द्रम् अस्ति । रतलाम-नगरं मध्यप्रदेशराज्यस्य प्रमुखनगरेषु अन्यतमं वर्तते । इदं नगरं मालवा-क्षेत्रे अन्तर्गतम् अस्ति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं रतलाम-नगरस्य जनसङ्ख्या २,७३,८९२ अस्ति । अत्र १,३९,७६६ पुरुषाः, १,३४,१२६ महिलाः च सन्ति । अत्र पुं-स्त्री अनुपातः १०००-९६० अस्ति । अत्र साक्षरता ८७.८९% अस्ति ।

भौगोलिकी स्थितिः

[सम्पादयतु]

रतलाम-नगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३ º १८ उ., ७५ º ०६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४८० मी. अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ६ ºC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४४ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति ।

इतिहासः

[सम्पादयतु]

मुगल बादशाह शाह जहा इत्याख्येन एकस्यां गजक्रीडायां रतलाम-नगरं रतन सिंह इत्यस्मै उपहारत्वेन प्रदत्तम् आसीत् । यदा शहज़ादा शुजा, औरङ्गजेब इत्येतयोः मध्ये उत्तराधिकारिपदप्राप्त्यर्थं युद्धमभवत् तदा रतलाम-नगरस्य राज्ञा रतन सिंह इत्यनेन बादशाह शाह जहा इत्याख्यस्य समर्थनं कृतम् आसीत् । अतः औरङ्गजेब इत्याख्यस्य विजयः अभवत् । ततः परम् औरङ्गजेब इत्याख्येन स्वविरोधिजनाः राज्यात् निष्कासिताः । तेन राजा रतन सिंह अपि राज्यात् बहिः प्रेषितः । तत्पश्चात् रतन सिंह मन्दसौरमण्डलस्य सीतामऊ ग्रामे निवसति स्म । तस्य मृत्युः अपि सीतामऊ ग्रामे एव अभवत् । तत्र अद्यापि रतन सिंह इत्यस्य स्मारकम् अस्ति ।

रतलाम-नगरं मध्यभारतस्य मालवा एजेन्सी इत्यस्य एकः भागः आसीत् । दीर्घकालपर्यन्तं रतलाम-नगरं राठोड-वंशजानाम् आधिपत्ये आसीत् । प्रथमः शासकः रतन सिंह आसीत् । तस्य द्वादशपत्न्यः आसन् ।

वाणिज्यम्

[सम्पादयतु]

नगरेऽस्मिन् बहवः यन्त्रागाराः, शिक्षणसंस्थानानि च सन्ति । पुरा नगरमिदं पुलोमह्याः, तम्बाकु, लवणस्य इत्यादीनां व्यापारकेन्द्रमासीत् । इदं नगरं मालवा-प्रान्तस्य वाणिज्यिकनगरेषु अन्यतमम् आसीत् । अस्य नगरस्य रतलामी सेव बहुप्रसिद्धमस्ति । आभारतम् इदं खाद्यं प्रसिद्धमस्ति ।

शिक्षणसंस्थानानि

[सम्पादयतु]
  • श्री सांई इंस्टिट्यूट् ऑफ् टेक्नोलजी
  • सर्जन इंस्टिट्यूट् ऑफ् टेक्नोलजी एण्ड मेनेज्मेण्ट् साइन्स्
  • गवर्नमेण्ट् PG आर्ट्स् एण्ड् साइन्स् कॉलेज्
  • शासकीय कन्या स्नातक महाविद्यालय
  • शासकीय विज्ञान एवं कला महाविद्यालय
  • शासकीय विवेकानन्द वाणिज्य महाविद्यालय
  • शासकीय पोलीटेक्नीकल् कॉलेज्, जावरा
  • शासकीय शहीद भगत सिंह महाविद्यालय, जावरा
  • शासकीय महाविद्यालय, सैलाना
  • आई टी आई

वीक्षणीयस्थलानि

[सम्पादयतु]

बिल्पकेश्वर-मन्दिरम्

[सम्पादयतु]

बिल्पकेश्वर-मन्दिरं रतलाम-नगरात् १८ कि. मी. दूरे स्थितमस्ति । इदं मन्दिरं बहुपुरातनमस्ति । अस्य मन्दिरस्य निर्माणं १० शताब्द्याम् अभवत् । अस्य मन्दिरस्य निर्माणं चालुक्य-परमार इत्येतयोः वास्तुकलायाम् अभवत् ।

गुलाब चक्कर पुरातत्व सङ्ग्रहालय

[सम्पादयतु]

अयं सङ्ग्रहालयः रतलाम-नगरे स्थितः अस्ति । अस्य सङ्ग्रहालयस्य निर्माणं १८७९ तमे वर्षे राज्ञः रणजीत सिंह इत्याख्यस्य शासनकाले अभवत् । अस्य सङ्ग्रहालयस्य नाम राज्ञः पुत्र्याः गुलाब कुंवर साहिबा इत्याख्यायाः नामोपरि अभवत् । अव्यवस्थायाः कारणात् अस्य स्थितिः जर्जरा जाता । अस्य पुनर्जीणोद्धारः कारितः । अयं जनानाम् आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् एकम् उद्यानम् अस्ति । उद्याने गुलाब-पुष्पस्य बहवः पादपाः सन्ति । तत्र बहवः जनाः भ्रमणार्थं गच्छन्ति ।

केदारेश्वर-मन्दिरम्

केदारेश्वर-मन्दिरम्

[सम्पादयतु]

केदारेश्वर-मन्दिरं रतलाममण्डलस्य सैलाना ग्रामे स्थितमस्ति । इदं शिवमन्दिरं वर्तते । मन्दिरेऽस्मिन् एकः कुण्डः अस्ति । तत्र एकः जलप्रपातः अपि अस्ति । तस्य जलं कुण्डे पतति । तत् दृश्यं रमणीयं वर्तते । तस्मिन् कुण्डे एव भक्तजनाः पादप्रक्षालनं कृत्वा मन्दिरं प्रविशन्ति । वर्षर्तौ तत्र बहवः जनाः भ्रमणार्थं गच्छन्ति । इदं मन्दिरं प्राचीनम् अस्ति, यस्य अनुमानं शिवलिङ्गात् एव भवति । तत्र स्थितं शिवलिङ्गं प्राकृतिकमस्ति ।

अन्यानि वीक्षणीयस्थलानि

  • सागौद जैन मन्दिर
  • केक्टस् गार्डन्, सैलाना
  • हुसैन टेकरी, जावरा
  • हनुमान मन्दिर
  • खारमोर पक्षी उद्यान
  • गङ्गा सागर

रतलाम-नगरस्य प्रसिद्धाः उद्योगाः

[सम्पादयतु]
  • बोरीदा सॉल्ट् प्राइवेट् लिमिटेड्
  • गायत्री एञ्जिनियर्स्
  • देवेन्द्र इण्डस्ट्रीस्
  • टेक्नो बेस्ट् ट्रान्स्फॉर्मर्स्
  • मालवा ऑक्सोजेन् एण्ड् इण्डस्ट्रीस् गॅसस् प्राइवेट् लिमिटेड्
  • श्रीराम केमिकल् इण्डस्ट्रीस्

मार्गाः

[सम्पादयतु]

धूमशकटमार्गः

[सम्पादयतु]

मुम्बई, देहली, बेङ्गळूरु, अजमेर, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः रेल-यानेन रतलाम-नगरं प्राप्तुं शक्यते ।

भूमार्गः

[सम्पादयतु]

रतलाम-नगरस्य मार्ग-परिवहन-निगमः बहुविकसितः अस्ति । मध्यप्रदेशस्य अन्येभ्यः नगरेभ्यः, ग्रामेभ्यः च नियमितरूपेण रतलाम-नगराय बस्-यानानि प्राप्यन्ते ।


बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://hi.bharatdiscovery.org/india/%E0%A4%B0%E0%A4%A4%E0%A4%B2%E0%A4%BE%E0%A4%AE
http://ratlaminfo.com/ Archived २०१४-१२-१७ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=रतलाम&oldid=481763" इत्यस्माद् प्रतिप्राप्तम्