रतलाममण्डलम्
रतलाममण्डलम् Ratlam District | |
---|---|
रतलाम जिला | |
रतलाममण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे रतलाममण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | रतलाम, पिपलोदा, आलोट, ताल, जावरा, सैलाना, बाजना |
विस्तारः | ४,८६१ च. कि. मी. |
जनसङ्ख्या (२०११) | १४,५५,०६९ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६६.७८% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४८.५% |
Website | http://ratlam.nic.in/ |
रतलाममण्डलम् ( ( शृणु) /ˈrətəlɑːməməndələm/) (हिन्दी: रतलाम जिला, आङ्ग्ल: Ratlam district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रतलाम इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]रतलाममण्डलस्य विस्तारः ४,८६१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उज्जैनमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे मन्दसौरमण्डलं, दक्षिणे धारमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं रतलाममण्डलस्य जनसङ्ख्या १४,५५,०६९ अस्ति । अत्र ७,३८,२४१ पुरुषाः, ७,१६,८२८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ६६.७८% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- रतलाम, पिपलोदा, आलोट, ताल, जावरा, सैलाना, बाजना ।
कृषिः वाणिज्यं च
[सम्पादयतु]इदं मण्डलं मध्यप्रदेशराज्यस्य उद्यमकेन्द्रं मन्यते । अस्मिन् मण्डले बहवः यन्त्रागाराः सन्ति । अस्मिन् मण्डले बहूनां वस्तूनां व्यापारः भवति ।
वीक्षणीयस्थलानि
[सम्पादयतु]शिवमन्दिरम्
[सम्पादयतु]शिवमन्दिरं रतलाममण्डलस्य झार-ग्रामे स्थितमस्ति । मन्दिरेऽस्मिन् भगवतः शिवस्य सुन्दरं लिङ्गम् अस्ति । इदं मन्दिरं परमार-शासनकालीनम् अस्ति । अत्र एकः जलप्रपातः अस्ति । वर्षाकाले बहवः जनाः तत्र दर्शनार्थं गच्छन्ति ।
गुलाब चक्कर पुरातत्व-सङ्ग्रहालयः
[सम्पादयतु]गुलाब चक्कर पुरातत्व-सङ्ग्रहालयस्य निर्माणम् ई. १८७९ तमे वर्षे राज्ञा रणजीतसिंहेन (१८६१-१८९३) कारितम् । अस्य सङ्ग्रहालयस्य नाम राजपुत्र्याः नाम्ना कारितम् । अस्य स्थितिः अव्यवस्थया जर्जरी आसीत् । अस्य पुनः जीर्णोद्धारः कृतः । इदानीम् इदं स्थलं जनानाम् आकर्षणस्य केन्द्रमस्ति । सैलाना इत्यत्र ’केक्टस गार्डन’, जावरा इत्यत्र ’हुसैन टेकरी’, केदारेश्वर-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।
मन्दसौरमण्डलम् | ||||
राजस्थानराज्यम् | उज्जैनमण्डलम् | |||
रतलाममण्डलम् | ||||
धारमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये रतलाममण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://ratlam.nic.in/
http://www.census2011.co.in/census/district/301-ratlam.html