उपनिषद्ब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन् द्वौ ग्रन्थौ सम्मिलितौ स्तः । मन्त्रब्राह्मणं, छान्दोग्योपनिषद्ब्राह्मणं च।

मन्त्रब्राह्मणम्[सम्पादयतु]

मन्त्रब्राह्मणस्य एव अपरं नाम छान्दोग्यब्राह्मणमप्यस्ति । अस्मिन् ब्राह्मणे द्वौ प्रपाठकौ स्तः । प्रतिप्रपाठके अष्टौ खण्डानि सन्ति । ब्राह्मणमिदं गृह्यसंस्कारेषु प्रयुक्तमन्त्राणां सुष्ठु सङ्ग्रहोऽस्ति । इमे एव मन्त्राः खादिरगृह्यसूत्रे तथा गोभिलगृह्यसूत्रेषु यथावसरं प्रयुक्ताः भवन्ति ।

अार्षेयब्राह्मणं तथा देवताध्यायब्राह्मणम् उभे इमे ब्राह्मणे एकस्यैव मूलभूतब्राह्मणस्य भागौ प्रतीतौ भवतः । यतोऽत्र प्रथमे सामगानामृषीणां तथाऽपरे तत्सम्बद्धदेवतानां विवरणं प्रदत्तमस्ति । देवताध्यायस्य ४॥४ सूत्रेण उभयोः सम्पृक्तभावस्य सङ्केतः प्राप्यते। सूत्रमस्ति - ‘स्वस्ति देवऋषिभ्यश्च' । अस्य सूत्रस्य सायणभाष्ये उभयोः ब्राह्मणयोः एकाङ्गीभावः सङ्केतितः -

‘देवा ऋषयश्च ये आर्षेय देवताध्यायाभ्यां प्रतिपादितास्तत्सकाशाच्च स्वस्ति भवति ।'

एतेषां ब्राह्मणानां २५७ मन्त्राः सन्ति । गृह्यसूत्रादेकादश मन्त्रा सभाष्यं सङ्कलिताः सन्त्यस्मिन् ब्राह्मणे । प्रथमप्रपाठके विवाह-गर्भाधान-सीमन्तोन्नयन-चूडाकरण-उपनयन-समावर्तनेभ्यस्तथा गोवृद्धये मन्त्राः सन्ति । द्वितीयप्रपाठके भूतबलि-आग्रहायणीकर्म-पितृपिण्डदान-देवबलिहोम-दर्शपूर्णमास-आदित्योपस्थाननवगृहप्रवेश-स्वस्त्ययन-प्रसादप्राप्त्यादीनां मन्त्राः सन्ति । यद्यप्यन्यस्मादपि संहिता-ग्रन्थात् मन्त्राः अत्र सङ्कलिताः सन्ति तथापि एतेषां मन्त्राणां भाषा सरला, आकर्षका तथा प्रसादपूर्णा अस्ति (१।२।२ )।

इयं नार्युपब्रूतेऽग्नौ लाजानावपत्नी।

दीर्घायुरस्तु मे पतिः शतं वर्षाणि जीवतु।। १/३/८/९

दाम्पत्यजीवनस्य हार्दिकैकतायै द्रष्टव्यमस्ति मन्त्रोयऽमिति ।

गुणविष्णोः भाष्यं मन्त्राणां गूढभावं सङ्क्षिप्तरूपेण प्रकटीकरणे सक्षममस्ति । भाष्यकारेण सर्वत्र ऋषि-देवता-च्छन्द-मन्त्राणां विनियोगः दर्शितः । तेन हि अर्थस्य महत्त्वं दर्शयितुं ‘स्थाणुरयं भारहारः किलाभूत्' (आर्ष० ब्रा० ३, निरु० ११८ ) मन्त्रमुद्धरन् स्वभाष्यारम्भः कृतस्तथा तदनन्तरमेव ऋष्यादीनां महत्त्वं दर्शयितुं-

“यो ह वा अविदितार्षेयच्छन्दो दैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वाञ्छति********' इत्यादिः ( आर्षे० ब्रा० १।१ ) समुद्धृतम्। सर्वत्र तेनार्थं स्पष्टीकुर्वता ऋषि-च्छन्द-देवतादिविनियोगानां संक्षिप्ततया कथनस्य स्तुत्यः प्रयासो विहितः । सायणस्य भाष्यं गुणविष्णोः भाष्यस्यानुवर्तनमेव करोति ।

छान्दोग्योपनिषद्ब्राह्मणम्[सम्पादयतु]

अस्य ब्राह्मणस्यान्तिमाष्टप्रपाठकाः प्रसिद्धच्छान्दोग्योपनिषदस्ति । अस्य अनेकानि संस्करणानि भाषान्तरेषु बभूवुः ।

शङ्काराचार्यस्य उद्धरणेषु[सम्पादयतु]

शङ्कराचार्यस्तु ब्रह्मसूत्रभाष्ये मन्त्रब्राह्मणात्तथा छान्दोग्योपनिषदः उद्धरणप्रदानकाले इमावुभौ ग्रन्थौ ताण्ड्यशाखातः सम्बद्धौ अकथयत् । शङ्कराचार्यस्य निम्नलिखितानि उद्धरणानि सन्ति।

ताण्डिनाम् ( मन्त्रसमाम्नायः )- देवसवितः (मन्त्र ब्रा० १॥१॥१), ब्रह्मसूत्रम् ० ३।३।२५ अस्ति। ताण्डिनां श्रुतिः - 'अश्व इव रोमाणि' ( छा० उप० ८।।१३।१ ) ब्रह्म० भा० ३॥३॥२६ । ताण्डिनामुपनिषदि - ‘स अात्मा तत्त्वमसि’ ( छा० उप० ६।८॥७ ) ब्रह्मसूत्रभाष्यम् ३।३।३६ ।।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उपनिषद्ब्राह्मणम्&oldid=425056" इत्यस्माद् पुनः प्राप्तिः