अथर्ववेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अथर्ववेद इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अथर्ववेदः अभिचारक्रियायाः प्राधान्येन प्रतिपादकः अयं वेदः अथर्वनामकर्षिणा दृष्टः। वेदेष्वथर्ववेदः अयमेकया भूयस्या विशिष्टतया सह संवलितोऽस्ति। ऋग्वेदादित्रयो वेदाः आमुष्मिकफलदातारः सन्ति। यदा हि ऋग्वेदादयस्त्रयो वेदा आमुष्मिकं फलं प्रददति, तदाऽयं अथर्ववेद ऐहिकमपि फलं प्रयच्छति। जीवनं सुखसमन्वितं कर्तुं येषां साधनानामपेक्षा भवति, तेषां सिद्ध्यर्थमम् इह वेदे विविधानामनुष्ठानानां विधानं विहितमस्ति। पतञ्जलिना यद्यप्यस्य वेदस्य नवशाखाः समुल्लिखताः, परमीदानीन्तु पैप्पलाद-शौनकसंज्ञके द्वे एव शाखे लभ्येते। प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता पैप्पलादशाखासंहिताऽपि च अनतिचिरेणैव मुद्रिते स्तः।

अथर्ववेदे विंशतिकाण्डानि (२०) काण्डानि, एकत्रिंशदधिकसप्तशतकानि (७३१) सूक्तानि, सप्ताशीत्यधिकोनत्रिंशत्शतमन्त्राः (५९८७) विद्यन्ते। तेषु मन्त्रेषु द्वादशशतमन्त्राः ऋग्वेदेऽपि दृश्यन्ते। विंशतिकाण्डे १५३ सूक्तानि सन्ति, तेषु द्वादशसूक्तानि अतिरिच्य शेषाणि सर्वाण्यपि ऋग्वेदस्य दशममण्डले समुपलभ्यन्ते। भूर्जपत्रेषु शारदालिप्या लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरीयैः सम्पादितम् अस्ति। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थसङ्ग्रहे अस्ति।

वेदत्रयी-अथर्वयोः पार्थक्यम्[सम्पादयतु]

ऋग्वेदत्रयी तथाऽथर्वस्य पार्थक्यं स्पष्टतः ग्रन्थेषु कृतम्। वेदत्रयी यत्र पारित्रिकफलदाताऽस्ति तत्राथर्ववेदः लौकिकफलदाताऽस्ति। अस्मिन् सन्दर्भे ध्यातव्यं तथ्यमिदमस्ति— जयन्तभट्टेण न्यायमञ्जर्यामथर्ववेदस्य प्राथमिकत्वमुद्घोषितम्- ‘तत्र वेदाश्चत्वारः, प्रथमोऽथर्ववेदः' इति। नागरखण्डः अपि अमुम् आद्यवेदो वदति, तथा प्रमाणयति यदथर्ववेद एव सार्वलौकिककार्यसिद्धयर्थं मुख्यरूपेण प्रयुक्तो भवति। अत एवायं अाद्यवेदत्वेन प्रथितः इति।[१]

रचनाकालः[सम्पादयतु]

अथर्ववेदस्य रचनाकालः ऋग्वेदापेक्षया अवान्तरकालिकः मन्यते। भाषायाः छन्दसश्च दृष्ट्या अथर्ववेदस्य अनुशीलनमस्य पूर्वोक्तसिद्धान्तस्य पोषकोऽस्ति । अथर्वस्य भाषा ऋग्वेदीयसंस्कृतापेक्षया कतिपयदृष्ट्या अनेकरूपेषु अर्वाचीना प्रतीता भवति। छन्दसामपीयमेव दशाऽस्ति । न तावदेतावदेव अपि तु भौगोलिकी सांस्कृतिकी च परिस्थितयोः अपीदमेव भावं व्यक्तं कुर्वन्ति यदथर्ववेदे चित्रितसमाजस्य प्रतिबिम्बमृग्वेदे चित्रितसमाजापेक्षया अवान्तरकालिकमस्ति ।

अथर्ववेदकाले आर्याः दक्षिणपूर्वस्यां दिशि गच्छन्नतः अवलोकिताः। वङ्गारण्यविहारिणो वर्वरव्याघ्राणां वर्णनमेव अस्य प्रमाणमस्ति । व्याघ्रोऽयं समस्ताखेटकपशुभ्यो नितान्तभित्रो भवति । अथर्ववेदे राजा राज्याभिषेककाले व्याघ्रचर्मोपरि समासीनो भवति । रीतिरियं तस्य राज्ञः राजशक्तेः प्रतीकं मन्यते । ऋग्वेदस्तु चातुर्वर्ण्यपदेन परिचयं ददाति। ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणामुल्लेखोऽत्र प्राप्यते। किञ्च अथर्ववेदे ब्राह्मणस्य शक्तिस्तथा गरिमायाः गौरवगाथा विशेषरूपेण प्राप्यते। समाजे ब्राह्मणानाम् अधिकारः विशिष्टरूपेण समृद्धः प्रतिभाति । पुरोहितवर्गस्तु स्वयज्ञीयकौशलेन अभिचारीयनैपुण्येन च समाजे स्वकीयोच्चासनम् अर्जितवान्। अथर्ववेदीयमन्त्रेषु निर्दिष्टाभिचारः स्वविशुद्धस्वरूपे जनजीवनस्य आचारविचाराणाम् इव उपलब्धो भवति। एतेषु पुरोहितवर्गेण अथर्वसंहितायाः सङ्कलनमेव न कृतम्, प्रत्युत बहूनां सूक्तानां प्रणयनम्पि पुरोहितवर्गस्य उद्योगस्य परिणतफलम् अस्ति। अनेन विधिना अथर्ववेदे पौरोहित्यविचारस्य सत्ता उपमाभ्यः दृष्टान्तेभ्यश्च यत्र तत्र उपलब्धा भवति। क्षेत्रकृमिभिः सम्बद्धे एकस्मिन् मन्त्रे कथिमस्ति - 'अभिचारस्य प्रभावेण कीटाः शस्यं परित्यज्य तथैव गमिष्यन्ति, यथा अपूर्णयज्ञे भोजनं परित्यज्य ब्राह्मणाः गच्छन्ति' इति।

अथर्ववेदे निर्दिष्टदेवमण्डलोऽपि ऋग्वेदाद् एव अवान्तरकालिकविकासस्य सूचकः पोषकश्च अस्ति। अथर्ववेदे अग्निवरुणेन्द्रादिदेवानां सत्ता वर्तते तथापि तेषां स्वरूपे कार्ये च पर्याप्तं पार्थक्यं दृग्गोचरीभवति। एतेषां देवतानां प्राकृतिकदृश्यानां प्रतीकात्मकरूपं विस्मृतमभवत्। अस्मिन् युगे ते देवविशेषरूपे एव उपस्थिताः भवन्ति । तेषां केवलं रक्षसां संहारः, रोगाणाश्च विनाशनं, शत्रूणां विध्वंसनमेव कार्यमस्ति । अथर्ववेदे अध्यात्मवादेन सृष्टिवादेन च सम्बद्धानि बहूनि सूक्तान्यपि तमवान्तरकालिकाः रचनाः प्रमाणयन्ति । एतेषां सूक्तानामध्यात्मवादः उपनिषदां दार्शनिकसिद्धान्तकोट्यां समायाति । एतेषां प्रयोगोऽपि इन्द्रजालस्य अवसरे भूतपिशाचादीनाम् अपसारणाय एवाऽभवत्। अनेन अथर्ववेदस्य रचना ऋग्वेदस्य निर्माणकालात् पश्चाद्वर्तिनी ज्ञायते।

वेदाय प्राचीनसाहित्ये ‘त्रयी' इति पदस्य प्रयोगो प्राप्यते । त्रयीति पदेन ऋग्यजुःसामवेदस्यैव बोधो भवति । अन्यत्र विद्यानां गणनाप्रसङ्गेऽपि वेदत्रयीति पदादनन्तरमेव इतिहासस्य आख्यानस्य च नामोल्लेखनं भवति । अत्राऽपि अथर्ववेदः अनुल्लिखित एवाऽस्ति । अस्य तात्पर्यमिदमेवास्ति बहोः कालपर्यन्तं वेदत्रयीवद् अथर्ववेदस्य मान्यता नासीत् । मान्यतेयं शनैः शनैः अवान्तरशताब्दीनां प्रयासस्य श्लाघनीयं फलं भवेत् । 

अथर्ववेदोपरि बाह्यप्रभावः[सम्पादयतु]

अथर्ववेदस्य स्वरूपोपरि विचारं कुर्वन्, लोकमान्यतिलकमहोदयेन 'भण्डारकर-अभिनन्दन'ग्रन्थे अभिनवसिद्धान्तं प्रकटितम् । तन्मते देशान्तराणामपि धार्मिकसिद्धान्तस्य अथर्ववेदोपरि प्रभावः परिलक्ष्यते । प्राचीनकाले वर्तमान ईराकदेशस्य नाम 'काल्दिया' अासीत् । ख्रीष्टात्पञ्चसहस्रवर्षपूर्वमेवायं प्रदेशः तुरानियनजनैरधिकृतः । तेषामुपनिवेशोऽयमासीत् । तेषां धार्मिकसिद्धान्तस्य परिचयोऽपि सम्प्रति समुपलब्धोऽस्ति । ख्रीष्टाद् द्विसहस्रवर्षपूर्वं प्रदेशोऽयं ‘बेविलोनिया' (बाबुल)नाम्ना ख्यातः आसीत् । , तस्मिन्नपि युगे तेषां भारतीयैः सह समृद्धव्यापारोऽभवत् । बाबुलदेशस्य महार्घवस्त्रं (मलमल) 'सिन्धु’-नाम्ना ख्यातमासीत्।

बाबुलदेशस्य उदयात्प्रागेव ‘काल्दिया'-देशेन सह भारतवर्षस्य घनिष्ठतमः व्यावसायिकसम्पर्कः आसीत् । तस्मिन् सुदूर-प्राचीनयुगेऽपि उभयोर्देशयोर्मध्ये विचाराणामादान-प्रदानमासीत् । अस्य प्रभावः अथर्ववेदस्य मन्त्रोपरि अस्त्येव । अथर्वस्य पञ्चमकाण्डस्य त्रयोदशसूक्तस्य अष्टमे मन्त्रे 'तैमात' 'उरुगूला' इत्यादिशब्दानाम् अवितथशब्दाशयः अस्मिन्नेव 'काल्डिया'-देशस्य प्राचीनधार्मिकतथ्यानाम् अनुशीलनेन ज्ञातो भवितुं शक्यते । तस्य देशस्य विश्वासोऽस्ति यन्नागलोके ‘तियामत'-नामधारी एकः बृहत्कायः सर्पः न्यसवत् । तं सर्पं मर्दुकनामकः देवता स्वायुधेन हतवान् । तिकलमहोदयस्य अत्र कथनमस्ति यत्, अथर्वस्य ‘तैमतः' यो हि सर्पस्य बोधकः शब्दोऽस्ति, अस्यैव ‘तिमायत' इति प्रतिरूपमस्ति । 'उरुगूला'-शब्दस्य अर्थो भवति किञ्चन विराट्-नगरम् अर्थात् पाताललोकः । अथर्ववेदस्य उरुगूला-शब्दस्य इदमेव स्रोतोऽस्ति। काल्दियानगरे 'अप्सु' किंवा ‘अब्जु' अस्यैव तियामतस्य पत्युर्नाम आसीत्, यं मर्दुकः हतवान् । अतोऽसौ ‘अब्लुजित' इत्युपाधिना विभूषितः अासीत् । तिलकमहोदयस्य अनुसारेण वैदिकः ‘इन्द्रः' अस्यैव मर्दुकस्यैव प्रतिरूपमस्ति । फलतः वेदे इन्द्रस्योपाधिः ‘अप्सुजित्' इति। ‘अप्सुजित्'-शब्दस्य प्रथमांशः ‘अप्'-शब्दस्य सप्तम्यन्तरूपं न भूत्वा, स्वतः व्यक्तिवाचकसंज्ञा अस्ति ( अप्सु=अब्जु) । ‘उर्वशी' इति शब्दस्यार्थः‘उरसा समुत्पन्ना या सा' इति न भूत्वा ‘अप्सरा' इत्यर्थो भवितव्यम् । यतः काल्दीभाषायाम् 'उरु'-शब्दस्यार्थो भवति 'पातालः' अथवा 'तत्रस्थजलम् । फलतः ‘उर्वशी' जले समुत्पन्ना काऽपि दिव्याङ्गनाऽस्ति तथा तस्याः यथार्थं प्रतिरूपमस्ति ‘अप्सरा' ( यस्या उत्पत्तिः जलेन भवति ) । वेदे इन्द्रशब्दस्य पर्याये 'सतहन्-शब्दः प्राप्यते । तियामतोऽपि सतशीर्षकः आसीत्। फलतः "तियामत' वृत्रस्यैव प्रतिरूपमासीत् । अनेन विचारेण 'वृत्रहा' इन्द्रस्य 'सप्तहन्' इत्यपि उपाधिधारणं किमपि विचित्रं नास्ति । काल्दीभाषायाम् 'किम्मदिम्म' तत्रस्थानां भूतप्रेतपिशाचादीनां नाम अस्ति । तेन अस्य प्रतिध्वनिः ‘किमीदिन्' ऋग्वेदीयशब्दे अप्यस्ति[२], यस्य यास्केन 'किमीदानीम्"-शब्देन सम्बन्ध संयोज्य 'पिशाचः' इत्यर्थः कृतः।[३] हिब्रूधर्मे निर्दिष्टः ‘तेहोम'-शब्दोऽपि ‘तियामत'- शब्दादेव निष्पन्नोऽभवत् । तिलकमहोदयस्य कल्पनाऽस्ति यदनेके काल्दीशब्दाः अथर्ववेदे समुपलब्धा भवन्ति । बहुविधवैदेशिकशब्दानां प्रयोगेण अथर्ववेदस्य विशुद्धता सन्दिग्धा अथ च अमान्या दीर्घकालपर्यन्तमासीत् । अवान्तरकाले एव चतुर्वेदेषु अथर्ववेदः स्वस्थानं प्राप्तुं समर्थोऽभवत् ।[४]

प्रथमं तावत् परमार्थतो मूलरूपेण त्रय एवैते वेदाः प्रतीता अभूवन्नित्थ मैकडानल-वर्यः स्वीये संस्कृतसाहित्येतिहासस्य १८५ तमे पृष्ठे प्रतिपादयति - ‘ऋक्सामाथर्वयजुवेद इति त्रय एवेति वेदाः वैदिकसङ्ग्रहाः, यत् एत एव महता यज्ञियेनानुष्ठानेन संस्कारेण च सम्बद्धाः, अथर्ववेदस्तु तत्त्वतोऽसम्बद्धः, एतेन अन्तिमाध्यायवर्जं यच्च स्फुटमेव यज्ञियेन विधिनाऽस्य सम्बन्धमाख्यातुं सम्बद्धः । एतेनैव हेतुना सुम्भवतो वेदानां 'त्रयी' आख्या परम्परया समजनि। वेदेष्वथर्वणः परिगणनं पश्चात्कालिकमेव । तथाहि छान्दोग्योपनिषदि वेदानां वर्णनप्रसङ्गे -

'ऋग्वेद भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदपित्र्यं राशिं देवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद् भगवोऽध्येमि' इत्युक्तम् ।[५]

तत्र ऋग्यजुःसामभिः साकं वेदशब्दस्य प्रयोगः उपलभ्यते, नाथवर्ण एवमनुक्रमे पश्चमत्वेन परिगणितयोः इतिहासपुराणयोरपि विषये वेदशब्दस्य असम्प्रयोगः । तत्राथर्वणो विषयेष्वन्यसंहितातस्तत्त्वतो भेदो दृश्यते। अत एव भारतीयपरम्पराम् अनुसृत्य अस्याथर्वणो विषये महिम्नस्तोत्रस्य सप्तमश्लोकव्याख्यावसरे प्रस्थानभेदरूपेण मधुसूदनसरस्वत्या कौशिकसूत्राणां ब्लूमफील्डस्य संस्करणे ३०७ पृष्ठे, केशवेन स्वव्याख्यायाम् 'शान्तिकपौष्टिकाभिचारिकाद्भुतानि कर्माणि संहिताविधावुक्तानि" च इत्युल्लिखितम् । ततश्च अथर्वा शान्तेः पुष्टेः शत्रूणामुच्छेदादेश्च विषयमुपवर्णयति । सायणाचार्योऽपि अथर्वव्याख्यायाम् - 'पौरोहित्यशान्तिकपौष्टिकानि राज्ञामथर्ववेदेन कारयेद् ब्रह्मत्वञ्च' इत्युल्लिख्य विष्णुपुराणोक्तमुद्धरयति -

'शान्तिपुष्ट्यभिचारार्था एकब्रह्मत्विगाश्रयाः।

क्रियन्तेऽथर्ववेदेन त्र्याय्येवात्मीयगोचराः।।'

इत्थं नृपाणां निखिलं पौरोहित्यं शान्तिकर्माणि पुष्टिकर्माणि च अथर्ववेदायत्तानि, तथा यज्ञीयब्रह्मणोऽपि सर्वो विधिरथर्वोक्तदिशा विधेय इति समायाति ।

युरोपीयविद्वांसः अपि अथर्वणं यातुकर्मणाम् अभिचारादीनाञ्च कृते सर्वोत्तमं वेदं स्वीकुर्वन्ति। आधुनिकाः भारतीयाश्च विद्वांसः सामान्यरूपेण इमामेव विचारसरणिम् अनुसरन्ति। तथा च मैकडोनल-वर्यः अथर्वणो वइषये इत्थम् आख्याति - साकल्येनायम् अथर्वा विभिन्नजातीयानां मन्त्राणां सङ्ग्रहरूपः। अस्य मुख्यं विधेयम् अभिचारादिकर्म। यतोऽयं रोगाणां घातकपशूनां भूतप्रेतादीना शत्रूणाम् उत्पीडकानाश्च प्रतिपन्थिनां कर्मणां विरोधाय विनाशाय चोपदिशति। किन्त्वऽत्र बहवो मन्त्राः शुभावहा अपि सन्ति । तथाहि—पारिवारिके ग्रामीणे च जीवने सौमनस्यं समाधातुं शत्रून् विनाशयितुं, दीर्घमायुषमवाप्तुं, स्वास्थ्यमैश्वर्यश्चाधिगन्तुं मन्त्राथर्वणिमन्त्राः सन्ति । एतदेवतिरिक्तं यात्रायां सुरक्षार्थं द्यूते विजयार्थञ्चाप्यत्र मन्त्रा विद्यन्ते । इत्थमयमथर्वा

पाश्चात्र्यविद्वद्धिर्यदुपरि निदिष्टं तथ्यं सामान्यतया स्वीकृतं तत्रैतदतिरिक्तं नास्त्यन्यत् किञ्चिद् भ्रामकं यदथर्ववेदः केवलं वशीकरणादियातुकर्माणामेव शान्त्यर्थं पुष्ट्यर्थं शापार्थञ्च अपि मन्त्राणाम् उल्लेखं समाचरन् स्वीयं द्विधं रूपं प्रस्तौति। विण्डरनिट्ज्-महोगदयः अपि वेदम् इमम् अथखर्वाणं यात्वभिचारकर्णमां ग्रन्थं मनुते। सर्वानिमान् विचारान् अनुसरन् भारतीय-इतिहासवेत्ता श्री आर. डी बैनर्जी कथयति यत्, अथर्ववेदो यातुकर्मकाणां मन्त्राणां निधानमस्तीति। 

नाम, विषयश्च[सम्पादयतु]

अथर्ववेदस्य उपलब्धेषु अनेकाभिधानेषु अथर्ववेद-ब्रह्मवेद-अङ्गिरोवेद-अथर्वाङ्गिरसवेदादिनामानि मुख्यानि सन्ति। ‘अथर्व'-शब्दस्य व्याख्या तथा तस्य निर्वचनं निरुक्ते[६] तथा गोपथब्राह्मणे[७] च प्राप्यते। 'थर्व-धातुः कौटिल्यार्थस्तथा हिंसावाचकोऽस्ति। अत एवाथर्वशब्दस्यार्थों भवति-- अकुटिलतावृत्त्या, अहिंसावृत्त्या च मनसः स्थैर्यप्राप्तकर्त्ता जनः। अस्याः व्युत्पत्त्याः सम्पुष्टौ योगस्य प्रतिपादकाः अनेकाः प्रसङ्गाः स्वयमस्मिन् वेदे प्राप्यन्ते।[८] होतृवेदादिनाम्नः तुलनायामुपरि ब्रह्मकर्मणः प्रतिपादकत्वेन अथर्ववेदः ‘ब्रह्मवेदः' कथ्यते। अथर्ववेदस्य ब्रह्मवेदनाम्नः इदमेव मुख्यकारणमस्ति, यद्यपि ब्रह्मज्ञानस्य प्रतिपादनम् अस्मिन् 'वेदे अंशतः एवाऽस्ति, तथाऽप्यस्य वैशिष्ट्यमस्ति।

'अथर्वाङ्गिरस'-पदस्य व्याख्याकृते सति प्रतीतो भवति यद्वेदोऽयं ऋषिद्वयेन द्रष्टानां मन्त्राणां समूहं प्रस्तौति इति। अथर्वदृष्टमन्त्राः शान्ति-पुष्टिकर्मयुक्ताःसन्ति। अङ्गिरसदृष्टमन्त्रास्तु आभिचारिका भवन्ति। अनेनैव कारणेन वायुपुराणे[९] तथा ब्रह्माण्डपुराणे[१०] अथर्ववेदं घोरकृत्या विधिना युक्तत्वेन प्रत्यङ्गिरसयोगेन युक्तत्वेन च ‘द्विशरीरशिराः' कथ्यते। प्रत्यङ्गिरसयोगस्य तात्पर्यमभिचारस्य प्रतिविधानमर्थात् शान्तिपुष्टिकर्ममेवास्ति। अनेनाभिधानेन ज्ञायते यत्, अथर्ववेदे द्विविधा मन्त्राः सङ्ग्रहीताः सन्ति। शान्तिपौष्टिककर्मकर्त्ता मन्त्रः, आभिचारिककर्मककर्तामन्त्रः च। अाङ्गिरसकल्पे मारण-मोहन-उच्चाटनादीनां प्रख्यातषट्कर्माणां विधानं दर्शितम्, एवं नारदीयपुराणस्य कथनमस्ति यत् -

'तत्र चाङ्गिरसे कल्पे षट्कर्माण सविस्तरम्।

अभिचारविधानेन निर्दिष्टानि स्वयम्भुवा ॥'

तैत्तिरीयब्राह्मणे[११] ‘अथर्वणामङ्गिरसां प्रतीची’ इत्यस्मिन् पदे उभयोर्मिलितस्वरूपस्य वर्णनमस्ति। अमूभ्याम् ऋषिभ्यां दृष्टमन्त्रसमूहः पृथक् सत्तामपि धारणमकरोत् इत्यपि सम्भावना। अनया दृष्ट्या गोपथब्राह्मणस्य एकस्मिन् प्रकरणे ‘अाथर्वणो वेदः सिद्ध्यति' 'अाङ्गिरसो वेदोऽभवच्चे'ति वाक्यं लभते।[१२] शतपथब्राह्मणेऽपि एतयोरुभयोरुल्लेखो लभते।[१३] सर्वत्र एव अङ्गिरसाभिधानमुपलब्धोऽस्ति, येन अथर्वाऋषेरभ्यर्हितत्त्वस्य सङ्केतो प्राप्यते। एवम् एतस्मिन् वेदे प्रथमतः शान्तिपौष्टिक-मन्त्रणां सत्ताऽऽसीत् तदनु अाभिचारिकमन्त्राणां सन्निवेशोऽभवत्। ब्रह्मपुत्रेण अथर्वेण समाहृता इति अथर्ववेदः अन्वर्थं नाम। अथर्वाङ्गिराः, ब्रह्मवेदः इति नामान्तराणि।

अथर्ववेद ऐहिकफलदायकोऽस्ति। अथर्ववेदस्य ऋत्विक् ब्रह्मा वर्तते। प्रस्थानभेदे लिखितमस्ति यत् –

“अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यंतविलक्षण एव“।

कुमारिलभट्टेनोच्यते –

“शान्तिपुष्ट्याभिचारार्थी ह्येकब्रह्मर्त्विगाश्रितः।

क्रियास्तन्न प्रमीयन्तेऽत्रामयमेवात्मीयगोचरा” इति।

महत्त्वम्[सम्पादयतु]

कस्याऽपि यज्ञस्य पूर्णनिष्पादनार्थं चत्वारः ऋत्विजो भवन्ति। तेषु ब्रह्मानामको ऋत्विग् यज्ञस्याध्यक्षो भवति। अस्य प्रधानकार्यं नानाविधानानां निरीक्षणं तथा सम्भावितत्रुट्याः मार्जनञ्च भवति। एतदर्थं ब्रह्मणा सर्ववेदविद्भवितव्यम्। तेन मनसा बलेनाऽपि सम्पन्नेन भवितव्यम्। किश्च तस्य ब्रह्मणः प्रधानवेदः अथर्ववेदः एव भवति। ब्राह्मणग्रन्थेषु ब्रह्मणः महनीयगौरवमनेकत्र वर्णितमस्ति। गोपथब्राह्मणस्य कथनमस्ति त्रिभिर्वेदैः यज्ञस्थान्तरः पक्ष एव संस्क्रियते।[१४] ब्रह्मा मनसा अपरपक्षस्य संस्कारं करोति। यथा -

‘स वा एष त्रिभिर्वेदैर्यज्ञस्यान्यन्तरः पक्षः संस्क्रियते ॥

मनसैव ब्रह्मा यज्ञस्यान्यतरं पक्षं संस्करोति ॥'[१५]

पुरोहिताय अथर्ववेदस्य ज्ञानम् अतोऽपि आवश्यकं भवति, यदसौ राज्ञः शान्त्यास्तथा पौष्टिककार्यस्य च सम्पादनं करोति। अथर्ववेदस्य परिशिष्टे लिखितमस्ति — यस्य राज्ञः जनपदे अथर्ववेदस्य ज्ञाता निवसति, तस्य राष्ट्रं निरुपद्रवं भूत्वा वृद्धिम् अभिगच्छति। यथा -

‘यस्य राज्ञो जनपदे ह्यथर्वाशान्तिपारगः ॥

निवसत्यपि तद्राष्ट्रं वर्धते निरुपद्रवम् ॥

तस्माद्राजा विशेषेण ह्यथर्वाणं जितेन्द्रियम् ॥

दान-सम्मानसत्कारैर्नित्यं समभिपूजयेत्।'[१६]

धाराद्वयमिश्रणस्य परिणतफलमेव अथर्ववदोऽस्ति। अमुयोः एकाऽस्ति अथर्वधारा अपरा चास्ति अङ्गिरो धारा। अथर्वऋषिणा दृष्टमन्त्राः शान्तिपुष्टिकर्मभिः सह सम्बद्धाः सन्ति। अस्य सङ्केतः भागवतपुराणेऽपि अस्ति — ‘अथर्वणेऽदात् शान्तिं यया यज्ञो वितन्यते’[१७] अङ्गिरोधाराऽऽभिचारिकैः कर्मभिः सह सम्बद्धाऽस्ति। येन जनसामान्ये वेदोऽयं प्रियोऽभवत्। शान्तिकर्मणा सम्बद्धत्वेन अथर्वस्य सम्बन्धं श्रौतयागात् प्रारम्भादेव अस्ति, पश्चाद् आभिचारिककर्मणा सह सम्बद्धत्वेन राज्ञः पुरोहितवर्गेभ्यो वेदोऽयम् उपयोगी अभवत्। अनेन प्रकारेण ऐहिक-आमुष्मिक-लौकिक-पारलौकिकविषयाणां प्रतिपादकत्वेन अथर्ववेदः वैदिकसंहितायां स्ववैशिष्ट्यं स्थापयति।

राज्ञेऽथर्ववेदस्य सविशेषमहत्त्वमस्ति। राज्ञे शान्तिकपौष्टिककर्मणः तुलापुरुषादिदानस्य च महती आवश्यकता भवति। एवंविधस्य सर्वेषां विधानमथर्ववेदस्य स्वसम्पत्तिरस्ति। अस्मिन् विषये पुराण-स्मृति-ग्रन्थानां प्रचुरप्रमाणानि समुपलब्धानि भवन्ति। विष्णुपुराणस्य स्पष्टकथनमस्ति–पौरोहित्य-शान्तिकपौष्टिकादिकर्माणि अथर्ववेदेनैव राज्ञः कर्त्तव्यमस्ति। मत्स्यपुराणस्य कथनमस्ति — पुरोहितेन अथर्वमन्त्रे ब्राह्मणे च पारङ्गतेन भवितव्यम् (पुरोहितं तथा अथर्वमन्त्र-ब्राह्मण-पारगम् )। कालिदासस्य कथनेनाप्यस्य कथनस्य पुष्टिर्भवति। कालिदासेन वशिष्ठमुनये ‘अथर्वनिधिः' इत्येवं विशेषणं दत्तम्, यस्येदं तात्पर्यमस्ति- रघुवंशोद्भवानां पुरोहितः मुनिर्वशिष्ठः अथर्वमन्त्राणां तथा तेषां क्रियाकलापानां च भाण्डारः आसीत्।[१८] नृपः अजः अथर्ववेदमन्त्रैः गुरुवशिष्ठेन अभिषिक्तो भूत्वा शत्रुभ्यः दुर्धर्षोऽभवत्।[१९] अत्र कालिदासः वशिष्ठं ‘अथर्ववेत्ता’ इति कथयति।[२०]

अथर्वे विज्ञानम्[सम्पादयतु]

अथर्ववेदाभ्यन्तरे आयुर्वेदीयसिद्धान्तस्य, व्यवहारस्य च अनेकेषां महनीयजिज्ञास्यविषयाणां विशिष्टसङ्कलनमस्ति। अस्यानुशीलनेन आयुर्वेदस्य प्राचीनताप्रामाणिकता-व्यापकतादीनां पूर्णपरिचयो भवति। रोगस्य, शारीरिकप्रतीकारस्य, औषधादीनां च विषये अनेकोपयोगीनां वैज्ञानिकतथ्यानां च उपलब्धिः अथर्ववेदस्य आयुर्वैदिकविशिष्टता प्रदर्शयितुं पर्याप्तः।[२१] तपनरोगस्य (ज्वरस्य) सामान्यवर्णनम् अस्मिन् वेदस्य मन्त्रे प्राप्यते।[२२] सतत-शारदग्रैष्म-शीत-वार्षिक-तृतीयकादिज्वर-प्रभेदानां निदर्शनम् अपि प्राप्यते।[२३] यक्ष्मा-विद्रघ-वातीकारादिरोगाणां वर्णनं मन्त्रषु प्राप्यते।[२४] प्रतीकारस्य विषये आधुनिकप्रणाल्याः शल्यचिकित्सायाः निर्देशः अतीव विस्मयकारी प्रतीतो भवति। यथा — मूत्रघाते शरशलाकादिना मूत्रस्य निःसारणम्[२५], सुखप्रसवाय योनिभेदनम्[२६], जलधावनेन व्रणस्योपचारः[२७] इत्यादयः। नानाकृमिभिः विविधरोगानामुत्पत्तेः सिद्धान्तः प्राचीनायुर्वेदशास्त्रम् आधुनिकवैद्यकशास्त्रेण सह संयोजयति। रोगकारकाणां नानाविधानां कृमीनां वर्णनम्[२८], नेत्र-नासिकादन्तेषु प्रवेशकर्त्तारः कृमीनां नाम तथा निःसरणस्योपायः[२९], सूर्यकिरणैस्तेषां विनाशः[३०] इत्यादीनाम् अनेकविषयाणां वैज्ञानिकाधारोपरि निर्मिताः प्रतीताः भवन्ति। रोगनिवारणार्थं तथा सर्पविषदूरीकरणार्थञ्च नानाविधौषधीनां, मणीनाञ्च निर्देशः प्राप्यते। ‘विषस्य विषमौषधम्' इत्यस्यापि सिद्धान्तस्य निदर्शनम् अथर्ववेदस्य मन्त्रे प्राप्यते।[३१] अत एव आयुर्वेदः अथर्ववेदस्य उपवेदः कथ्यते। भौतिकविज्ञानस्य अनेकविधानां तथ्यानाम् उदाहरणम् अथर्ववेदे यत्र तत्र प्राप्यते। तं सुष्ठुतया ज्ञातुं वेदेन सह विज्ञानस्य अपि ज्ञानम् अपेक्षितमस्ति। द्वि-त्रिमन्त्रेषु निगूढवैज्ञानिकं रहस्यानाम् उद्घाटनमत्र कृतमस्ति। एकमेव विशिष्टोदाहरणमस्य विषयसङ्केतं करोति। अथर्ववेदस्य पञ्चमकाण्डस्य पञ्चमसूक्ते लाक्षायाः वर्णनमस्ति। वर्णनमिदं वैज्ञानिकदृष्ट्या नितान्तं प्रामाणिकं, तथ्यपूर्णमुपादेयं च अस्ति। आधुनिकविज्ञानेन समर्पितं समर्थितञ्च सूक्तनिर्दिष्टतथ्यमित्थमस्ति --

(१) लाक्षा कस्यापि वृक्षस्य निःस्यन्दो नास्ति, प्रत्युत तस्या उत्पादनस्य श्रेयः कीटविशेषं मुख्यतया स्त्रीकीटमस्ति।[३२] कीटोऽयमत्र ‘शिलाची'-नाम्ना ख्यातोऽस्ति। उदरमस्य रक्तवर्णं भवति। तेनैवेमाः कीटस्त्रियः शृङ्गिकं (संखिया ) भक्षिकाः मन्यन्ते। इमे कीटाः अश्वत्थ-न्यग्रोध-धव-खदिरादिवृक्षाणामुपरि विशेषतः निवस्य लाक्षां प्रस्तुवन्ति।[३३]

( २ ) स्त्रीकीटः यदा युवा भवति, तदा अण्डप्रसवात् पूर्वं तस्य देहः क्षीणो भवति। तेषां कोषाः पीताभाः भवन्ति। अत एवेमाः कीटस्त्रियोऽत्र हिरण्यवर्णा वा सूर्यवर्णाः कथ्यन्ते।[३४] एवंविधानां कीटानां शरीरोपरि सघनलोमावलिर्भवति, तेनायं कीटः ‘लोमशवक्षणा' कथ्यते। लाक्षायाः उत्पत्तिविशेषरूपेण वर्षाकालस्य तमसा आच्छन्नरात्रावेव भवति। तेनाऽस्मिन् सूक्ते[३५] रात्रिः माता, आकाशश्च पिता कथ्यते।

( ३) पुरुषकीटोऽयं द्विधा विभज्यते - १. सरा-सर्पणकर्ता, २. पतत्रिणी-खे विसर्पणकत्ता पुरुषकीटः। शराः-स्त्रीकीटाः वृक्षोपरि तथैव गुल्मोपरि समानरूपेण सर्पन्ति। तेनेमाः 'स्परणी' इति कथ्यन्ते।[३६]

 ऋग्वेदस्य पूरकत्वेन अथर्ववेदः[सम्पादयतु]

ऋग्वेदः यदि अधिकांशतः आधिदैविकविषयस्याध्यात्मिकविषयस्य च मनोरममन्त्राणां सङ्ग्रहोऽस्ति, तर्हि अथर्ववेदः , आधिभौतिकविषयोपरि रचितमन्त्राणां रुचिरस्तथा प्रशंसनीयः सङ्ग्रहोऽस्ति। काव्यदष्ट्या उभयोर्मध्ये उदात्तभावनया मण्डितस्तथा मानवहृदयस्पर्शिगीतिकाव्यानां बृहत्सङ्ग्रहोऽस्ति । उभयोर्मिलित्वा आर्याणां प्राचीनतमकाव्यकलायाः रुचिरदृष्टान्त समुपस्थाय विनात्र काचिद्विप्रतिपत्तिरिति ।

कस्मिन्नपि देशे समाजे च स्तरद्वयस्य जनाः प्राप्यन्ते — निम्नस्तरीयाः, उच्चस्तरीयाश्च । निम्नस्तरीयाणां जनानाम् आचारविचाराः विचित्रधारायां प्रवहन्ति, उच्चस्तरीयजनानाम् आचारविचारः विशिष्टवर्गं गृह्णाति । उभयोः रुचिभिन्ना भवति, उभयोः कविता अपि भिन्ना भवति । कवितायाः विभिन्नप्रकारोऽयम् असन्दिग्धरूपेण अन्योऽन्यस्य पूरको भवति । ऋग्वेदाथर्वयोः कवितायाः पार्थक्यमनेनैव कारणेन सिद्धो भवति । अथर्ववेदीयविचाराणां धरातलं सामान्यजनजीवनमस्ति । ऋग्वेदीयविचाराणाञ्चाधारं विशिष्टकोटिकजनजीवनमस्ति । जन सामान्यस्य अनेकविधविश्रम्भाः विचित्राः विलक्षणाश्च भवन्ति । कस्यापि रुजस्य (रोगस्य) निदानकाले आधिदैविककारणमुपेक्षितुं न शक्यते । तेषां जीवनोपरि भूतप्रेतपिशाच-डाकिनी-शाकिन्यादीनां तथैव प्रभावो भवति, यथा भूतलस्य दृश्यप्राणिनामस्तित्वं भवति । तेषां विचारे नैते पदार्थाः अदृश्यजगतः निवासिनो भवन्ति प्रत्युत तेऽपि अस्मिन् धरातले तथैव निवसन्ति, यथा मानवाः पशवश्चेति । फलतः एतेषां प्राणिनामस्तित्वं तेषां जीवन प्रभावितुं सर्वथा समर्थों भवति।

अस्य वेदस्य एवाध्ययनेन ज्ञातो भवति यदभिचारोऽपि द्विविधः अासीत्। मङ्गलसाधकः, अमङ्गलसाधकश्चेति । अथर्ववेदस्य पवित्राभिचारे शारीरिकक्लेशशमनार्थं मन्त्राः प्राप्यन्ते, अमाङ्गलिकाभिचारे शत्रून् प्रति कृताभिशापयुक्तमन्त्राः अपि सन्ति। एतयोरुभयोः प्रकारकयोः अभिचारमन्त्राणां सङ्ग्रहकर्त्तृत्वेन वेदोऽयम् आङ्गिरसपदेन व्यपदिश्यते ।

एतेषाम् अभिचाराणां स्पष्टीकरणं कतिपयोदाहरणैः कृतम् अस्ति। कौशिकसूत्रे विधानमेकमस्ति - कोऽपि प्रेमी स्वप्रेमिकायाः मृण्मयीं मूर्त्तिं सृजति । तत्पश्चात् स्वहस्ते चापं गृह्णाति, यस्य बाणस्य अग्रभागः तीव्रकण्टकयुक्तो भवति, तेन बाणेन सः स्वप्रेमिकायाः हृदयं वेधति । तस्मिन् काले अथर्ववेदस्य मन्त्राणामप्युच्चारणं करोति[३७], येन तस्य मनोरथः पूर्णो भवति । यदा कदा वर्वराभिचारस्य अपि प्रयोगोऽपि प्राप्यते, यदा कस्याश्चिदपि नार्याः वन्ध्याकरणमभीष्टं भवति अथवा कस्यापि पुरुषस्य पुरुषार्थापहरणं भवति तदा तेषामपि अभिचारप्रयोगोऽथर्ववेदे उल्लिखितः।[३८] दुःस्वप्नापहरणाय भूतापसरणविधिरपि उल्लिखतः। सङ्ग्रामे शत्रोः प्रबलसेना-संहरणाय, नृपतेः जयाय चानेके अभिचारमन्त्राः सन्ति । व्याधिविनाशाय विभिन्नप्रकारकाणाम् औषधीनां प्रयोगः मन्त्रैः सह समुपलब्धो भवति । ज्वर-यक्ष्मा-कुष्ठ-कुलक्रमागतरोग-विषादीनां निवारणाय बहुविधौषधीनां प्रयोगाः नानाविधानैः सह समुपलब्धाः भवन्ति । यैः मन्त्रैः मनुष्याणां कल्याणस्य भावनाः प्रस्फुटाः भवन्ति । तात्पर्यमिदमस्ति यद्, अथर्ववेदोऽयं प्राकृतजनस्य प्रत्ययानाम्, अाचारविचाराणाम्, अाधानपरिधानानाम्, अलौकिकशक्तौ दृढ-प्रत्ययस्य, भूतप्रेताद्यदृश्यजीवेषु पूर्ण-आस्थायाः च एको विराट् विश्वसनीयः कोशोऽस्ति, येन साहाय्येन प्राचीनयुगस्य स्वरूपं ज्ञातुं शक्यते । अस्य मन्त्राणां भाषाऽपि सरला सुबोधा चास्ति ।

तत्स्थाने च ऋग्वेदे संस्कृतजनस्य विचाराणामीषद् अभिव्यक्तिः प्रस्तुता भवति। तेषाम् आचारविचारस्य च धरातलमत्युच्चतरं सुसंस्कृतं शिष्टं चास्ति । सामाजिकोच्चस्तरीयविचाराणां विमला धारा मन्त्रमाध्यमेनात्र प्रवहति । मानवजीवनं सुखमयं विधातुं, तथा प्राकृतिकदृश्यानां प्रतीकरूपाः देवाः अस्माकं जीवने सर्वथा प्रभविष्णवः, महतीशक्तिंस्वरूपेण च अवस्थिताः सन्ति । अतः पुरोहितवर्गाः स्वहिताय, स्वकीययजमानहेतवे, स्वाश्रयदात्रे सुश्लिष्टभाषायां प्रार्थयन्ति । ते सर्वदा स्वपुत्रपौत्रादीनां कल्याणहेतवे देवानां प्रार्थनां कुर्वन्ति । अस्मिन् कर्मणि ते कदापि न प्रमदन्ति। देवान् साक्षात्कत्तुं श्रद्धामयीं पूजां प्रदातुं च यज्ञ एव प्रधानोपकरणमस्ति । एनमेव लक्ष्यं कृत्वा ऋग्वेदस्य अधिकांशमन्त्राः प्रवर्त्तिताः भवन्ति । अनेकानि सूक्तानि यज्ञसम्बन्धविहीनानि सर्वथा प्रतीतानि भवन्ति, किञ्च तेषामभ्यन्तरे किमपि याज्ञिकोद्देश्यमवश्यमेव विद्यमानं भवति । यज्ञीयोपकरणानि तान्तोदात्तानि विशुद्धानि च भवन्ति । घृत-तिल-यव-सोमरसादयः देवानुद्दिश्य समर्पणस्य प्रधानपदार्थाः सन्ति । एतेष्वपि सोमरसस्य प्राधान्यमस्ति । सोमयागे सोमरसं वारत्रयं प्रस्तरेण कुट्टयित्वा परिस्रावयत् तच्च्यवनकर्म, ‘सवन'-पदेन व्यपदिश्यते । तदनन्तरं तं वस्त्रेण क्षारयित्वा दुग्धमिश्रणस्यापि विधिरासीत् । अस्यैव नाम आसीत् ‘पवमानसोमः’ यस्य विशिष्टमन्त्रेभ्यः ऋग्वेदस्यैकः विशिष्टमण्डल एवास्ति, फलतः यज्ञस्यावसरे इन्द्र-वरुण-अग्नि-सूर्य-अश्विन्यादिभ्यो देवताभ्यः सोमरसस्य समर्पणमृग्वेदीययुगस्य धार्मिकमावश्यकं कृत्यमासीत् । एतदर्थमेव यजुषः साम्नश्चापि प्रयोगोऽभवत् । फलतः एते त्रयः ऋक्-यजुःसामवेदाः एकमेव यज्ञमभिलक्ष्य मन्त्रपुञ्जाः सन्ति । समाजस्योच्चस्तरीयभागोऽयमस्य पूजाविधानस्याधिकारी आसीत् । अत्र प्रयुक्ता संस्कृतभाषाऽपि स्वकीये विशुद्धोदात्तस्वरूपे समायाति । फलतः ऋग्वेदाथर्ववेदयोः मन्त्राः मिलित्वैव वैदिकयुगस्य स्वरूपस्थापने समर्थाः भवन्ति । अत एतयोः पूरकता स्वीकृता अस्ति।

तेन हि अथर्ववेदे यज्ञविधानस्य स्थानमुपेक्षणीयं नगण्यश्च नास्ति । ऋग्वेदीययज्ञयागानां विधानमत्र कृतमासीत् । किञ्च यज्ञस्य सम्बन्धः अभिचारेण सह विशेषरूपेण प्रतिष्ठितः आसीत्, अतः उद्देश्यञ्चास्य स्वर्गप्राप्त्या सह सांसारिकाभ्युदयानां शत्रूणांश्च पराजयोऽप्यासीत् । अनेन प्रकारेणाथर्ववेदे याज्ञिकभावनायां विकासक्रमस्यैकः परिचयोऽपि प्राप्यते। विकासोऽयं भौतिकरूपेण आमनःस्तरीयो भवति । यज्ञस्तु प्रतीकात्मकत्वेनापि मानसिककोट्यां समायाति । अनेन प्रकारेण यज्ञस्येयमाध्यात्मिकी भावना अनौपनिषदिककल्पनापार्श्वे समानयति । अस्मिन् काले यज्ञस्य सरलविधानमभवत् । अल्पव्ययेन, स्वल्पकालेनैव सम्पन्नं भवितुं शक्यते । अनेन प्रकारेण अथर्ववेदे पूर्वकालिकवैदिकविधानापेक्षया स्वरूपविधाने परिवर्तनं परिलक्ष्यते ।

शाखाः[सम्पादयतु]

पस्पशाह्निके ‘नवधाऽऽथर्वणो वेदः' इति लिखित्वा पतञ्जलिना अथर्ववेदस्य नवशाखाः कथिताः। पुराणानुसारेण वेदव्यासः यं शिष्यम् अथर्वस्य अध्यापनम् अकारयत्, तस्य नाम सुमन्तुः इति आसीत्।[३९] भागवतेऽस्य चर्चाऽस्ति – सुमन्तुः अभिचारप्रधानवेदस्य मुख्यप्रचारकः आसीत्। तेन असौ 'दारुणमुनिः' इत्युपाधिना विभूषितः आसीत्। अथर्ववेदस्य शाखानां विस्तारः पुराणेषु वर्णितः अस्ति। किञ्च भागवते कबन्धस्य नाम निर्दिष्टं नास्ति।[४०] अस्मिन् पुराणे सुमन्तोः द्वौ शिष्यौ कथितौ - पथ्यो वेददर्शश्चेति। विष्णुपुराणेऽपि शिष्यद्वयस्य चर्चाऽस्ति। किन्तु वेददर्शस्य स्थाने ‘देवदर्श' इति नाम अस्ति। अाथर्वणमहानारायणोपनिषद् स्वात्मानं देवदर्शी नाम्नाऽथर्वशाखया सह सम्बद्धं स्वीकरोति। अतः ‘देवदर्शः' किंवा ‘देवदर्शी' इति नाम अधिकं स्वीक्रियते। विष्णपुराणानुसारेण पथ्यस्य त्रयाणां शिष्याणां नाम क्रमशः जाबालिः, कुमुदादिः, शौनकः चासीत्। देवदर्शस्य (वेददर्शस्य) चत्वारः शिष्या अासन्। ते च मोदः, ब्रह्मावलिः, पिप्पलादः, शौष्कायणिः, अथवा शौक्लायनिः। एतेषु शौनकस्य शिष्यः बभ्रूस्तथा सैन्धवायनः कथितः। एभिः मुनिभिः अथर्ववेदस्य विशेषप्रचारः सम्पन्नोऽभवत्। प्रपञ्चहृदय-चरणव्यूह-सायणभाष्यादीनाम् उपोद्घातेषु यद्यपि शाखानां सङ्ख्या अभिन्ना, तथापि एतेषु नामसु महती भिन्नता दग्गोचरीभवति। निम्नलिखितान्यभिधानानि सन्ति - (१) पियलाद, ( २ ) स्तौदः, ( ३ ) मोदः, (४) शौनकीयः, (५) जाजलः, ( ६ ) जलदः, ( ७ ) ब्रह्मविदः, (८) देवदर्शः, ( ९ ) चारणवैद्यश्च। आसु अथर्ववेदस्य नवशाखासु सम्प्रति शौनकपिप्पलादसमाख्ये द्रे एव शाखे प्राप्येते।

प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता, पिप्पलादशाखासंहिताऽपि अनतिचिरेणैव मुद्रिता।

पिप्पलादः[सम्पादयतु]

पिप्पलाद-मुनिरेको अध्यात्मवेत्ता भवति। स्वाध्यात्मविषयकसंशयनिवारणाभिप्रायेण सुकेशा-भरद्वाजादिषड् मुनीनां तस्य पार्श्वे आगमनस्योल्लेखो लभते। तेन दत्तान्युत्तराण्यपि प्रश्नोपनिषदि सुरक्षितानि च सन्ति। पुरा अस्य संहितायाः विशेषा ख्यातिरासीत्। अस्य द्वौ ग्रन्थौ अास्ताम्। प्रपञ्चहृदयस्य कथनमस्ति यत् — पिप्पलादशाखायाः मन्त्रसंहिता विंशतिः काण्डेषु विभक्ताः सन्ति, तथा तस्याः ब्राह्मणे अष्टाऽध्यायाः सन्ति। पिप्पलादसंहितायाः एका प्रतिः शारदालिप्यां कश्मीरे उपलब्धाऽभवत्। सा हस्तप्रतं कश्मीरनृपतिना जर्मनविद्वांषे राथ-महोदयाय उपहारत्वेन प्रेषिताऽभवत्। एकोऽधिकोनविंशतितमे ख्रीष्टाब्दे तस्याः अालोकलेख्यं अमेरिकातः प्रकाशितोऽभवत्। महाभाष्यानुसारेण- ‘शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरमिस्रवन्तु नः' अथर्ववेदस्य प्रथमोऽयं मन्त्रोऽस्ति, किञ्च सम्प्रतिप्रचलितायां शौनकसंहितायां षष्ठसूक्तस्य अयं प्रथमो मन्त्रोऽस्ति। गुणविष्णुना ज्ञातो भवति यदयं मन्त्रः पिप्पलादशाखायाः अादिमो मन्त्रः अासीत् इति।[४१] अनेनैव ज्ञातो भवति यद्, महाभाष्यकाले अस्याः संहितायाः विशेषख्यातिरासीत्।

मौदः[सम्पादयतु]

महाभाष्ये[४२], शावरभाष्ये[४३] अस्य मौदमुनेः उल्लेखो लभते। मौद-शाखा-विशेषज्ञः किंवा जलदशाखाविशेषज्ञः पुरोहितः यस्मिन् राष्ट्रे निवसति, तद्धि राष्ट्रं विनश्यति -

पुरोधा जलदो यस्य मौदो वा स्यात् कदाचन।

अब्दाद् दशभ्यो मासेभ्यो राष्ट्रभ्रष्टं भविष्यति।।

अनेनास्याः शाखायाः अल्पप्रचलनस्य बोधो भवति।

शौनकः[सम्पादयतु]

सम्प्रति प्रचलिताऽथर्वसंहिता गोपथब्राह्मणश्चास्यैव शाखायाः वर्त्तते। तौद-जाजल-ब्रह्मवद-देवदर्शादयः तु नाममात्रणैव ख्याताः सन्ति। अथर्वस्य अन्तिमा शाखा चारणवैद्यानां विषये कौशिकसूत्रस्य व्याख्यातः[४४] इति अथर्वपरिशिष्टादेव[४५] ज्ञातो भवति। वायुपुराणाद् ज्ञातो भवति यदस्यां शाखायां (६०२६) षड्विंशत्यधिकषड्विंशतिमन्त्राः आसन्, किञ्चाधुना इयं संहिता समुपलब्धा नास्ति।

 विषयाः[सम्पादयतु]

अथर्ववेदस्य विषयविवेचनम् अन्यवेदानाम् अपेक्षया नितान्तं निगूढ विलक्षणचास्ति। अस्मिन् वेदे वर्णितानां विषयाणां विभाजनं त्रिधा भवति - (1) आध्यात्मिकम्, (२) आधिभूतम्, (३) अाधिदैवतञ्चेति।

अध्यात्मप्रकरणं - मुख्यतः ब्रह्मजीवविषयकं, परमात्मविषयकं वर्णनञ्चास्ति। तदनन्तरम् आश्रमाणामपि पर्याप्तनिर्देशो लभते। आधिभूतप्रकरणं — राजा-राज्य-शासन-सङ्ग्राम-शत्रुवाहनादीनां वर्णनमस्ति। आधिदैवतप्रकरणे - नानादेवतानां, विविधानां यज्ञानां कालादीनाञ्च विषये पर्याप्तज्ञातव्यविषयाणां सङ्कलनमस्ति।

भैषज्य-सूक्तानि[सम्पादयतु]

अस्मिन् प्रकारणे रोगानां चिकित्सासम्बन्धिनां मन्त्राणां, विधिविशेषाणां च अन्तर्भावो भवति। रोगाणामुत्पत्तिः अनेककष्टप्रदानां रक्षोभूतपिशाचादीनां कृतोपद्रवेणेव भवति। अतोऽस्य प्रकरणस्य अनेकमन्त्रेषु पूर्ववार्णितोपद्रवाणां शमनोपायं वर्णितमस्ति। एतेषां मन्त्राणां साहाय्येन कृताभिचाराणां विशेषवर्णनं कौशिकसूत्रेऽस्ति। विविधरोगाणां लक्षण तथा तद्रोगेण समुत्पन्नशारीरिकविकाराणां विशदवर्णनञ्च आयुर्वेदिकदृष्ट्या विशेषमहत्त्वपूर्णमस्ति। अथर्ववेदे - ‘तक्माः’ ज्वरस्यैव नाम अस्ति। अस्मिन् सन्दर्भे अथर्ववेदस्य कथनमस्ति यत् ज्वरपीडिताः जनाः पीताः सन्तप्ताः च भवन्ति। अतः कतिपयेषु मन्त्रेषु ज्वरनिमित्तकप्रार्थना वर्तते। यथा - हे ज्वर ! त्वं तिरोहितो भव, अथवा रोगार्तजनं विहाय मूजवत-वह्निक-महावृषादि-सुद्वरस्थे प्रान्ते गच्छ।[४६] बलासः (क्षयादिः) रोगः[४७], गण्डमाला[४८], यक्ष्मा[४९] प्रभृतिरोगाणां दूरीकरणाय वरुणनामकस्य औषधेः सेवनस्य उपयोगः उल्लिखितः। कासः[५०] तथा दन्तपीडादीनां[५१] रोगाणां तथा तेषाम् औषधीनां वर्णनं अथर्ववेदेऽस्ति। सर्पविषविनाशाय नानाविधोपायाः वर्णिताः सन्ति। एकस्मिन् सूक्ते[५२] असित-तैमात-आलिङ्गी-विलङ्गी- उरु-गूलादिसर्पाणां नामोल्लिखितमस्ति। लोकमान्यतिलकेन अपि वर्णनमिदमिति कथितम्। बहुविधौषधीनां तथा नानावृक्षाणां प्रशंसायाम् अनेकाः मन्त्राः अत्र प्राप्यन्ते।

अायुष्य-सूक्तानि[सम्पादयतु]

दीर्घायुषे बहुविधा प्रार्थनापरकमन्त्राः अस्मिन् विभागे सन्ति। एतेषा मन्त्राणां विशेषप्रयोगः पारिवारिकमहोत्सवानाम् अवसरे अभवत्। बालकानां मुण्डने, किशोराणां गोदाने (प्रथमक्षौरकर्मणि) तथोपनयनसंस्कारे अस्य मन्त्रस्य उपयोगो भवति। अस्मिन् सूक्ते शतशरद्पर्यन्तं तथा शतहेमन्तपर्यन्तं जीवनाय, बहुविधमृत्युभ्यः त्राणाय, विविधरोगेभ्यः रक्षणाय च प्रार्थना समुपलब्धा भवति। अथर्ववेदे अायोर्वर्द्धनाय करे रक्षासूत्रधारणस्य विशेषविधानं प्राप्यते। अनेन रक्षासूत्रधारणेन प्राणिनः पूर्णस्वास्थ्यस्य तथा चिरजीवनस्य सद्यः प्राप्तिर्भवति। सप्तदशकाण्डस्यैकमात्रं सूक्तमस्य एवान्तर्गते अायाति।

पौष्टिकानि[सम्पादयतु]

अस्य विभागास्य अन्तर्गते गृहनिर्माणाय, सीरकर्षणाय, बीजवपनाय, अन्नोत्पादनाय, पुष्ट्यै, विदेशगमनाय, व्यापारहेतवे नानाविधाशीर्वादाय च प्रार्थना कृताऽस्ति।[५३] अस्मिन् सूक्ते वृष्टश्याः अतीव रमणीयं, साहित्यिकं, समुज्ज्वलं ; वर्णनमस्ति।

प्रायश्रिवक्तानि[सम्पादयतु]

सूक्तेष्वेतेषु प्रायश्चित्तस्य विधानमुपलब्धमस्ति। प्रायश्चित्तस्य विषयः अस्ति यत्, चारित्रिकत्रुटेः धार्मिकविरोधस्य च अन्यविधिहीनाचरणानां विधानम् इति। यथा ज्ञाताज्ञातापराधहेतुना, धर्मशास्त्रेण वजितविवाहकारणेन, ऋणप्रतिशोधविहीनहेतुना ज्येष्ठं परित्यज्य विवाहहेतुना ये अपराधाः भवन्ति, तेषां दूरीकरणाय अत्र प्रायश्चित्तस्य विधानमस्ति। तत् सम्बन्धिनः एवंविघाः मन्त्रगीतोत्सवादयः प्राप्यन्ते, यैः शारीरिकदुर्बलता-मानसिकत्रुटि-दुःस्वप्न-अपशकुनादीनां निराकरणम्, अपसरणश्च भवति। वर्तमानयुगमिव तस्मिन्नपि युगे अशुभस्वप्ने मानवानां विश्वासः अासीत्। तद्दूरीकरणाय बहुविधोपायाः मन्त्रेषु वर्णिताः सन्ति।

स्त्रीकर्माणि[सम्पादयतु]

विवाहविषयकाणि, प्रेमविषयकाणि च बहूनि सूक्तानि अस्मिन् वेदे सन्ति। एतानि सूक्तानि तत्कालिकसमाजस्य स्वरूपज्ञाने विशेषरूपेण सहायकानि भवन्ति। एतेषु सूक्तेषु पुत्रोत्पादनाय सद्योजातशिशो रक्षणाय च भव्यप्रार्थनाऽपि उलब्धा अस्ति। अनेन प्रसङ्गेन चतुर्दशकाण्डः विशेषरूपेण सम्बद्धोऽस्ति। अनेनैव क्रमेणाथर्ववेदस्य (३/२५, ६/१३०, ६/१३८, ६/१३०, ६/१३१) प्रभृतिमन्त्रेषु मारण-मोहन-उच्चाटन-वशीकरणादीनां क्रियायाः बहुलप्रयोगाः वर्णिताः सन्ति। कौशिकसूक्तेन ज्ञातो भवति यत्, नारीप्रेमसम्पादनाय बहुविधाभिचारिकक्रियायाः वर्णनमस्ति इति।

राजकर्माणि[सम्पादयतु]

राजभिः सम्बद्धानि बहूनि सूक्तानि अथर्ववेदे समुपलब्धानि सन्ति। एतेषां सूक्तानामध्ययनेन तत्कालीनायाः राजनैतिकस्थित्याः विशदचित्रणं समुपलब्ध भवति। शत्रूणां विनाशाय प्रार्थनया सह सङ्ग्रामस्य तथा तदुपयोगिनां साधनानां यथा - रथ-दुन्दुभि-शह्वादीनां विशेषविवरणं साङ्ग्रामिकदृष्ट्या अपि अथर्ववेदे प्राप्यते। अथर्ववेदस्य ‘क्षत्रवेदः' इति नामकरणस्य इदमेव कारणमस्ति। तस्मिन् युगे प्रजा एव राज्ञः संवरणमकरोत्। अथर्ववेदस्य सूक्ते मानवैः सह अश्विन्-मित्रावरुण-मरुत्-वरुणादिद्वारेण राज्ञः संवरणस्य वर्णनमस्ति।[५४] अन्धसूक्तेन ज्ञातो भवति यद्देशात् निष्कासितो राजा पुनः राज्ये सम्मानपूर्वकेण प्रतिष्ठितोऽभवत्।[५५] सङ्ग्रामभूमौ गमनाय वीरान् समुत्साहयितुं दुन्दुभेः वर्णनं साहित्यिकं वीररसपूर्णश्चाऽस्ति। पञ्चमकाण्डस्य दशमसूक्तं कवित्वदृष्ट्या मनोहरभावानां प्रदर्शनेनातीवारोचकं, सरसं, अभिव्यञ्जनात्मकञ्चास्ति। दुन्दुभेः गर्जनं श्रुत्वा रिपुयुवती भयानकास्त्रसङ्घर्षाणां मध्ये स्वपुत्रं नीत्वा पलायनस्य प्रार्थना अपि कारुणिका अस्ति।[५६]

दुन्दुभिसूक्तम्[५७][सम्पादयतु]

सुष्ठूपमायाः भावसौष्ठवस्य च योगेन वीररसस्य आदिकाव्यत्वेन अथर्ववेदः प्रसिद्धः। दुन्दुभिगर्जितेन शत्रूणां त्रासनस्य मोहनस्य च प्रार्थनासमये मालोपमायाः सौन्दर्यमिदं नितान्तम् अभिरामं श्लाघनीयश्चाऽस्ति —

यथा स्येनात् पतत्त्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा।

एवात्वं दुन्दुभेऽमित्रानभिकन्द प्रमासयाथो चित्तानि मोहय।।

मन्त्रस्य आशयोऽयमस्ति यथा - श्येनपक्षिणा अपरपक्षिणः उद्विग्नाः भवन्ति, यथा सिहस्य गर्जनं श्रुत्वा प्राणिनो भयभीताः भवन्ति, तथैव हे दुन्दुभे ! त्वम् अस्माकं शत्रुम्प्रति गर्जनं कुरु। तान् भयाक्रान्तान् कुरु, सम्मोहितान् कुरु, येन युद्धे तेषां शक्तेः ह्रासो भवतु तथा ते शत्रवः शीघ्रमेव विनाशं गच्छन्तु।

पृथिवीसूक्तम्[सम्पादयतु]

पृथिव्याः महिम्नः वर्णनमिदं स्वातन्त्र्यप्रेमिणः, स्वच्छन्दतायाः रसिकस्य अथर्वण-ऋषेः हृदयोद्गारमस्ति। अस्याः शैल्याः प्रौढकाव्यस्य उच्चकल्पना तथा भव्या भावुकता वैदिकसाहित्ये अप्यन्यत्र दुर्लभे स्तः। अस्मिन् सूक्ते अाथर्वणऋषिः त्रिषष्ठिः (६३) मन्त्रेषु मातृरूपिण्याः भूम्याः समग्रपार्थिवपदार्थानां जननीस्वरूपे महिमानं समुद्घोषितवान्। कतिपयेषु मन्त्रेषु तेन प्रजानां क्लेशानर्थौ त्रातुं सुख-समृद्धिसंवर्धनाय च सुष्ठु प्रार्थना कृता।

अस्मिन् सूक्ते मातृभूम्याः मनोहरा कल्पना कृताऽस्ति। मातृभूम्याः रुचिरमिदं वर्णनं देशभक्त्याः प्रेरणायाः मधुरो विलासः अस्ति। अत्र मातृभूमिः सजीवरूपेण चित्रिणम् अस्ति। ‘माता भूमिः पुत्रोऽहं पृथिव्याः’[५८] अर्थात् मम माता भूमिरस्ति, अहञ्च मातृभूम्याः पुत्रोऽस्मि। उदात्तभावनायाः प्रेरकोऽयं मन्त्रोऽस्ति। अस्याः भूम्याः निर्माणे, संरक्षणे च देवतायाः सहयोगोऽस्ति। अश्विनीसुतौ यां मापितवन्तौ, विष्णुना पादत्रयं यस्याः उपरि प्रक्षेपं कृतम्। देवराजेनेन्द्रेण स्वलाभाय या शत्रुविरहिता कृता, सा भूमिः मह्यं तेनैव प्रकारेण दुग्धं ददातु यथा माता स्वपुत्राय स्वानुरागेण दुग्धं ददाति।[५९] पृथिव्यामुपरि नर्तनस्य, कूर्दनस्य, उत्प्लवनस्य, सङ्घर्षणस्य च कीदृक् स्वाभाविकं वर्णनं कृतमत्र, तदपि दर्शनीयमस्ति। पृथिव्याः सर्वाङ्गीणं स्वरूपम् अस्मिन् सूक्ते उपस्थितमस्ति। पृथिव्यामुपरि नद्यः, पर्वताश्च सर्वदा लाभदायकाः भवन्तु, षड्ऋतूनामागमनं प्रजाकल्याणाय भवतु, प्रावृङ्काले पृथिव्यामुपरि ये सर्प-वृश्चिक-हिंसक-रोगवर्धकादयः कृमयश्चलन्ति, ते मां दृष्ट्वैव दूरे अपसर्पन्तु सदैव अस्माकं सन्निधौ ‘शिवाः' सन्तु।[६०] अनेन प्रकारेण भूमिसूक्तमिदम् अथर्ववेदीययुगस्य महनीयाः राष्ट्रियतायाः सन्देशवाहकं, प्रेरकं च अस्ति।[६१]

ब्रह्मण्यानि[सम्पादयतु]

अस्मिन् सूक्ते जगतः परमतत्त्वभूतस्य परमात्मनः परब्रह्मणः स्वरूपस्य कार्यस्य च विवेचनमस्ति। अनेनैव आमुष्मिकब्रह्मण्यसूक्तहेतुना अथर्ववेदस्य महनीया अनाभिधानेन ‘ब्रह्मवेदः' इति कथ्यते। सूक्तेष्वेतेषु दर्शनस्य गम्भीरतथ्यानां विशदसमीक्षा कृताऽस्ति। एतेषु सूक्तेषु अन्तर्दृष्ट्या संवलितप्रातिभचक्षुः ऋषीणां स्वानुभूततथ्यानां विशदविवेचनमस्ति। तेनैव कारणेन दार्शनिकदृष्ट्याऽपि वेदोऽयं विशिष्टोपादेयोऽभवत्। परमतत्त्वन्तु तेनैव नानाभिधानैः तत्राभिहितमस्ति। स एव कालनाम्ना जगतः, पृथिव्याः, अपरलोकस्य चोत्पादकः नियन्ता चास्ति। काल एव समस्तप्रपञ्चस्य अधिष्ठानं वर्त्तते। तस्मिन् न केवलं मन-प्राण-नामानि समाहितानि सन्ति, प्रत्युदसौ सर्वेषामीश्वरः प्रजापतेः अपि पिता अस्ति। तस्यैव सङ्कल्पेन जगदिदं समुत्पन्नमभवत्। तस्मिन्नेव प्रतिष्ठितमस्ति। काल एव जगतः परमतत्त्वमस्ति।

काले तपः काले ज्येष्ठ काले ब्रह्मसमाहितम्।

कालो ह सर्वस्येश्वरो यः पिताऽसीत् प्रजापतेः।।[६२]

त्रयोदशकाण्डस्य अनेकसूक्तेषु यस्य रोहितस्य वर्णनमस्ति, सोऽपि सूर्यस्य अथवा सूर्यस्थवीर्यस्य प्रतीकोऽस्ति। स एव जगतः सृष्ट्यादिसमस्तव्यापाराणां निर्वाहकः अस्ति। सूर्यस्य अश्वास्तमेव रोहितं रथे संस्थाप्य सर्वासु दिक्षु भ्रामयन्ति। स एव यज्ञानां जनयिता समग्रविश्वस्य निर्माता चास्ति। तदैव अधिष्ठानमधिकृत्य विश्वमिदं स्थितं, स्वजीवनं च यापयति। अनेन वर्णनेन स्पष्टतः रोहितनाम्नः ब्रह्मणस्य प्रतीकत्वं सिद्धं भवति। अन्येष्वपि सूक्तेषु गावः वर्णनं मार्मिकत्वेन प्रदत्तम्[६३]। गौरियं जगतः समस्तपदार्थानां जननीस्वरूपे चित्रिताऽस्ति। ब्राह्मणेभ्यः दक्षिणास्वरूपत्वेनैव केवलं वैदिकयुगे गावः महत्त्वमासीत् प्रत्युत कृषकसमाजाय सर्वस्वत्वेनाऽपि अस्याः गौरवमासीत्। अस्मिन् सूक्ते वशा गौः जगति सर्वश्रेष्ठतत्त्वस्वरूपे चिन्तिताऽस्ति। कतिपयाः वशायाः अमृतस्वरूपेण कतिपयाश्च मृतरूपेण उपासनां कुर्वन्ति। संसारेऽस्मिन् देव-दनुज-मुनि-मनुज-पित्रादयः सर्वे वशा एव सन्ति।

वशामेवामृतमाहुर्वशा मृत्युमापसते।

वशेदं सर्वमभवद् देवाः मनुष्या असुराः पितर ऋषयः।।[६४]

गावः अाध्यात्मिकमहत्त्वमिदं ज्ञातारमेव यज्ञे दानस्य फलं कल्याणप्रदं भवति नान्यत्।[६५] ‘स्कम्भः'[६६] तथा ‘उच्छिष्टः'[६७] प्रकारान्तरेण परब्रह्मणरेव नवीनाभिधानं स्वरूपञ्च प्रतीयते। जगतः समस्तपदार्थानाम् आश्रयत्वेन अधिष्ठातृत्वेन चासौ परमतत्त्वं स्कम्भस्य संज्ञां प्राप्नोति। नासौ केवलं विश्वस्य कारणमस्ति प्रत्युत ब्रह्मणोऽपि कारणमस्ति। अतोऽसौ ज्येष्ठब्रह्मपदेन अभिधीयते। अस्मिन् ब्रह्मणि भूमिः, अन्तरिक्षम्, आाकाशश्च समाहिताः सन्ति। यस्मिन् तत्त्वे अग्निः, चन्द्रः, सूर्यः तथा वायुः, अर्पितः भूत्वा निवसति, स एव स्कम्भोऽस्ति।[६८] तदेवात्मना सह ऐक्यं धर्त्ता तत्त्वमस्ति। उच्छिष्टशब्दस्य अर्थो भवति- ‘अवशिष्टपदार्थः’। दृश्यप्रपञ्चस्य निषेधकरणात् यदवशिष्टो भवति, तदेवोच्छिष्टोऽस्ति। अर्थात् स एव ‘नेति नेति' ब्रह्मपदवाच्यं भवति। जगतः समस्तपदार्थानाम् उत्पत्तिः - वेदपुराणयोरुत्पत्तिः[६९], प्राणापानचक्षुश्रोत्रादीनामुत्पत्तिः[७०] उच्छिष्टादेव सम्भूता अस्ति। उक्तञ्च -

यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा।

उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रिताः।।[७१]

व्रात्यः[सम्पादयतु]

अथर्ववेदस्य शौनकशाखायां या संहिता पूर्णतया समुपलब्धा भवति। तथा सम्प्रति प्रचलिताऽप्यस्ति, तस्याः पञ्चदशतमः काण्डः व्रात्यकाण्डनाम्ना परिचीयते। यतोऽस्मिन् व्रात्यस्य एव समग्रतया विवरणमस्ति। काण्डेऽस्मिन् द्वौ अनुवाकौ स्तः। ययोः प्रथमानुवाके सप्त सूक्तानि, अपरस्मिन् एकादशसूक्तानि सन्ति। अनेन प्रकारेण अस्मिन् काण्डे अष्टादशसूक्तानि सन्ति। प्रतिसूक्तम् अनेके गद्यात्मकाः मन्त्राः सन्ति। पैप्पलादशाखायाः समुपलब्धायाम् अपूर्णसंहितायाम् अष्टादशतमस्य काण्डस्य सप्तविंशतितमे सूक्ते व्रात्यविषयकस्य केवलं नव मन्त्रा एव प्राप्यन्ते। शेषमन्त्राः लुप्ता अभवन्। कोऽयं व्रात्यः ? इति जिज्ञासायां सत्यां बोध्यं यत्, साधारणतः उपनयनादिसंस्कारविहीनस्य द्विजकुलोत्पन्नस्य जनस्य व्रात्यपदेन बोधो भवति इति। अनेन ज्ञातो भवति यद् आर्याणां प्राचीना काऽपि अर्धसभ्यशाखा अप्यासीत्, या ग्रामाद् बहिरतिष्ठत्। क्रमशः साऽपि शाखाऽऽर्यसमाजे एव सम्मिलिताऽभवत्। किञ्च प्राचीनकाले तेषाम् आचारव्यवहारः अार्यापेक्षया भिन्न एवाऽसीत्। सम्भवतः ते वैदिकसंस्कारं न आमन्यन्त।

ताण्ड्यब्राह्मणे तेषां जनानां वेशभूषायाः विषये विस्तृतं सजीववर्णनञ्च लभते।[७२] अस्मिन् वर्णने एतेषां जातिगतविशिष्टतायाः, आचार-व्यवहारस्य वेशभूषायाश्च रोचकं स्वरूपं दृष्टिगोचरं भवति। किञ्च अथर्ववेदीयव्रात्यकाण्डे निर्दिष्टव्रात्यस्य किं तात्पर्यमस्ति ? आचारविचाररहितस्य नियमश्रृङ्खलायाः बन्धनमुक्तस्य जनस्य द्योतकत्वेन व्रात्य इति पदस्य लाक्षणिकार्थो भवति — ‘ब्रह्म’ इति। ब्रह्म इदं जगतः नियमशृङ्खलायाम् अबद्धोऽस्ति, कार्य-कारणयोः भावनया अोतप्रोतोऽस्ति। अस्यैव ब्रह्मणः स्वरूपस्य तथा तस्मादेव समुत्पन्नसृष्टिक्रमस्य व्यवस्थितं वर्णनमस्मिन् काण्डे विस्तरेण सह वर्णितम्।

'व्रात्यो वा इदम् अग्र आसीत्' — पैप्पलादशाखायाः अनेन वाक्ये जगदादौ व्रात्य एव विद्यमान अासीत् इति उल्लिखतम्। फलतः व्रात्यशब्देन ब्रह्मण एव बोधो भवति। व्रात्योऽयं गतिमान् भूत्वा प्रजापतिं प्रेरयति। अत्र प्रजापतिपदेन हिरण्यगर्भस्य बोधो भवति- ‘स प्रजापतिः सुवर्णमात्मन्यपश्यत् तत्प्राजनयत्।' अत्र जीवानां शुभाशुभकर्मणः संस्कार एव सुवर्णपदेन व्यपदिश्यते। यथा — बहुविधानाम् आभूषणानां समुत्पत्तिः सुवर्णेन भवति तथा जीवानां संस्कारसमूहेन नानाविधजगतः निर्माणं भवति। अनेनैवाधारेण प्रजापतिः हिरण्यगर्भनाम्ना प्रख्यातोऽस्ति। हिरण्यगर्भेणैव अत्र सृष्ट्याः क्रमस्य वर्णनमस्ति। तदनन्तरं व्रात्योऽयं केन प्रकारेण नानादिक्षु गच्छति ? तत्सम्बद्धजीवानां सृष्ट्यां समर्थो भवति ? अस्य विशदविवरणमस्मिन् काण्डेऽस्ति। अनेन प्रकारेण व्रात्यकाण्डोऽपि अयम् उच्छिष्टसूक्तमिवाध्यात्मिकतथ्यानां प्रतिपादकोऽस्ति, यस्य विपुलं वर्णनमुपनिषदि वर्त्तते। अथर्ववेदस्य दार्शनिकसूक्तेषु निर्दिष्टतत्त्वमुपनिषदां पूर्वपीठिकां कथयितुं समर्थास्ति। एतेषां सूतानां महती व्याख्या उपनिषत्सु प्राप्यते। 

अथर्ववेदे कौटुम्बिकाभिचारः[सम्पादयतु]

यत्रान्यवेदाः देवतानां स्तुतिमेव स्वप्रतिपाद्यविषयं मन्यन्ते, तत्राथर्ववेदः भौतिकविषयाणामपि वर्णनं करोति। प्रारम्भिकयुगसम्बन्धिमानवानां क्रियाकलाप-आचारविचार-वेशभूषादीनां पूर्णपरिचयार्थम् अथर्ववेदान्न कोऽपि प्राचीनग्रन्थोऽस्ति। यथा- शत्रूणां पराजयाय, क्लेशनिवारणाय, सद्योजात-शिशूनां मातृःसन्तप्तकतॄणां भूत-प्रेतादिकानां विनाशाय नानाभिचाराणां विचित्रं वर्णनम् अथर्ववेदस्य सूक्तेषु सम्मिलतम् अस्ति।

अभिचारकर्माणि सर्वदाऽशुभान्येव न भवन्ति । एतेन प्राचीनमानवाः शत्रुरोग-क्लेशादीनामाक्रमणात् स्वकौटुम्बिकजनानां त्राणं कुर्वन्ति स्म । अात्मसंरक्षणम् एवाभिचारक्रियायाः पृष्ठभूमिरस्ति । अस्मिन् धरातले अात्मसंरक्षणस्य प्रवृत्तिः सहजैव भवति । प्रथमतः लोकाः अात्मसंरक्षणं स्वकीयभौतिकोद्योगबलेनैव सम्पादयितुमिच्छन्ति । स्वकीयभौतिकोद्योगे भग्नमनो भूत्वैव जनाः आधिदैविकं प्रयासं प्रति उन्मुखाः सचेष्टाश्च भवन्ति । अस्मिन्नेव प्रयत्ने अभिचारस्यापि गणना भवति । अभिचारस्तु ( यातु ) द्विविधो भवति- शुभमशुभञ्चेति । शोभनकर्मणि अनिष्टादात्मसंरक्षणस्य भावना प्रबला भवति । अशोभनप्रकारके कर्मणि मारण-मोहनोच्चाटनादीनां भावनैव विशिष्टरूपेण जागृता भवति । पाश्चात्यजगत्यपि उभयोः अभिचारयोः सक्ताः विद्यमानाः सन्ति । ते च श्वेतकृष्णाभिचारनामभ्यां ( White magic and Black magic ) ख्याताः सन्ति। शेक्सपियर-(Shakspeare)नामकस्य आङ्ग्लकविः Macbeth नामके अभिनये अभिचारस्य साहित्यिकवर्णनं कृत्वा यूरोपीयमध्ययुगसम्बन्धिधारणायाः भव्यरूपं स्थापितवान्। अथर्ववेदः एवंविधप्रत्ययानां परिचयार्थं मनुष्याणाम् इतिहासे सर्वाधिकप्राचीनग्रन्थरत्नमस्ति । अथर्वसंहितायाम् अरि अन्यसंहितेव मन्त्राणां सङ्ग्रहोऽस्ति । एतेषां मन्त्राणामुपयोगः कदा केनोद्देश्येनाभवद् अस्याभिज्ञानं कौशिकगृह्यसूत्रसाहाय्येन भवति ।

विवाहसम्बद्धं विवरणम्[सम्पादयतु]

ग्रन्थेऽस्मिन् तेषामभिचारिकक्रियाकलापानां विचित्रवर्णनमस्ति, यैः मन्त्रैः सह प्रयुक्ताः अभवन् । विवाहेन सम्बद्धानि बहुविधसूक्तानि अथर्ववेदे उपलब्धानि सन्ति, येषामनुशीलनेन तात्कालिकयुगस्य बहुविधानि सामाजिकचित्राणि प्रत्यक्षीभवन्ति । एतेषु सूक्तेषु क्वाऽपि पुत्रोत्पत्तिनिमित्ताय प्रार्थना वर्त्तते, क्वचिच्च सद्योजातशिशोः क्लेशात् संरक्षणार्थं देवतानां स्तुतयः सन्ति । अथर्ववेदस्य चतुर्दशतमः काण्डः ‘विवाहकाण्ड'नाम्ना ख्यातोऽस्ति । काण्डेऽस्मिन् ऊनचत्वारिंशदधिकत्रियोदशशतमन्त्राः (१३३९) सन्ति । एतेषां मन्त्राणाम् उपयोगः विवाहकाले एवाऽभवत् । निम्नलिखितमन्त्रे सूर्याग्न्योः प्रार्थनाऽस्ति —

'यत् ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्धि रघं कृतम्।

अग्निष्ट्वा तस्मादेनसः सविता च प्रमुच्यताम्।।'[७३]

अनेनैव प्रकारेण यदा काऽपि नववधूः स्वपतिगृहे समायाति, तदा तस्याः दीर्घजीवनाय कृता भव्या प्रार्थना अस्मिन् मन्त्रे दर्शनीया —

'प्रबुध्यस्व सुसुधा बुध्यमाना दीर्धायुत्वाय शतशारदाय ।

गृहान् गच्छ गृहपत्नी यथासो दीर्घं व अायुः सविता कृणोतु ॥'[७४]

अथान्यप्रकारकाणां मन्त्राणां, तत्सम्बद्धानुष्ठानानां च वर्णनम् अस्ति। काऽपि स्त्री स्वपत्युः प्रेम प्राप्तुमिच्छति अथवा क्वचिदन्यत्र सा स्वसपत्नीं वशीकर्तुमिच्छति, तदा सा एकेन विशिष्टानुष्ठानेन सह अस्य सूक्तस्य मन्त्राणामुपयोगं करोति -

'उत्तुदस्त्वोत् तुदतु मा वृथाः शयने स्वे।

इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि।।१।।

आधीपर्णां कामशल्यामौषुं सङ्कल्पकुल्मलाम्।

तां सुसन्नतां कृत्वा कामो विध्यतु त्वा हृदि।।२।।

या प्लीहानं शोषयति कामस्येषुः सुसन्नता ।

प्राचीनपत्रा व्योषा तया विध्यामि त्वा हृदि।।३।।'

अस्मिन् सूक्ते षट् मन्त्राः सन्ति, येषु त्रयाणां मन्त्राणामुल्लेखोऽभवत् । शेषाः त्रयो मन्त्राः अस्यैव भावस्य पुष्टिं कुर्वन्ति । वशीकरणक्रियायाः प्रतीकरूपेण मन्त्रद्वयम् अपि उपलब्धम्।[७५] एतेषां ध्रुववाक्यमस्ति - 'देवाः प्रहिणुत स्मरम् असौ मामनुशोचतु ।' अपरोऽपि मन्त्रः द्रष्टव्यः -

'उन्मादयत मरुत उदन्तरिक्षमादय।

अग्न उन्मादया त्वमसौ मामनुशोचतु।'

अर्थात्, हे देवताः ! मम प्रेम्णा एनमुन्मादयत । अन्तरिक्षमुन्मादय । हे अग्निदेव ! त्वमप्येनमुन्मादय । मम प्रेम्णाऽसौ शोकसन्तप्तो भवतु इति।

‘यद् धावसि त्रियोजनं पञ्चयोजनमाश्विनम्।

तत स्वं पुनरायसि पुत्राणां नो असः पिता ॥'[७६]

काऽपि विरहिणी पतिं प्रति कथयति — यदि त्वया योजनं शतं गतमपि वा अश्वारोहणं कृत्वा पञ्चयोजनपर्यन्तं गतं, तथाऽपि तस्मात्स्थानात् शीघ्रमेव पुनरागत्य मम पुत्राणां पिता भव इति। घृणाभावस्यापि मन्त्राः सन्ति -

‘भर्गमस्या वर्च आदिष्यधि दृश्रादिव स्रजम्।

महाबुध्न इव पर्वतो ज्योक् पितृष्वास्ताम्।।'

मया अस्याः स्त्रियाः कल्याणं, सौभाग्यं, तेजाश्चापहृता, यथा वृक्षात् माला । दृढमूलपर्वत इव सा सदैव पितृगृहे तिष्ठतु । अत्र द्वयोरुपमयोः तात्पर्यमतीव सुष्ठु प्रतिभाति । माला तु कल्याणसौभाग्ययोः प्रतीकमस्ति । पर्वतस्याप्युपमा दृढमूलकत्वेन प्रसङ्गानुकूलमेवाऽस्ति ।

‘एषा ते राजन् कन्या वधूर्निधूमतां यम।

सा मातुर्वध्यतां गृहेथा भ्रातरथो पितुः।।

एषा ते कुलपा राजन् तामुते परिदद्मसि।

ज्योक् पितृष्वासाता आ शीष्णैः समोप्यात् ॥'

अत्र काऽपि स्त्री यमं लक्षयित्वा कथयति - हे राजन् यम ! इमां कन्यां त्वं स्वपत्नीत्वेन वरय । सा स्वमातुः, पितुः, भ्रातुर्वा गृहे एव तिष्ठतु । तव कुलरक्षणाय त्वाम् अहमिमां कल्याणीं कन्यां प्रयच्छामि इति।

अत्र अस्याः चण्डिकायाः प्रार्थना अतीव कठोराऽस्ति । न केवलं यमराजं तां समर्प्य सन्तोषमावहति, अपि तु जर्जरावस्थापर्यन्तं पतिमुखदर्शनाद्वञ्चिता भवतु - इतोऽप्यधिका न काऽपि घृणाकारिका भावना भवितुं शक्यते ।

कतिपयेषु मन्त्रेषु कस्याः अपि स्त्रियाः उग्रप्रतिहिंसायाः वह्निः प्रज्वलति - अथर्ववेदस्य मन्त्रे सपत्नीं वन्ध्याकरणाय प्रार्थना अस्ति।[७७] कस्यापि पुरुषस्य पुंस्त्वविनाशाय निर्भ्रान्ता प्रार्थना अस्ति। अपरस्मिन्नपि सूक्ते तथातीव्रप्रतिहिंसायाः भावना नास्ति[७८] यथा ६/३८ सूक्ते उग्रा भवना अस्ति। इदं सूक्तं पठित्वा तु कस्यापि सहृदयस्य हृदयं विदीर्णं भवति । कोऽप्यन्यः इन्द्रं प्रार्थयति- हे इन्द्र ! मम शत्रुं सर्वकालाय क्लीबं कुरु, प्रस्तरद्वयेन तस्याण्डकोशं सर्वकालाय चूर्णेय । शत्रूणां पुरभेत्ताऽस्ति इन्द्रस्तमण्डभेत्ता भवितुं प्रार्थनाऽपि विचित्रैवास्ति । अनेन भावसम्पन्नमन्त्रः एवम् अस्ति -

‘क्लीवं कृध्योपशिनमथो कुरीरिणं कृधि।

अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्यौ।।'

एतद्विषयकेष्वन्यसूक्तेषु साहित्यिकसौन्दर्यस्याऽप्यभावो नास्ति । सरलसामान्यशब्देषु स्वमनोगतभावप्रदर्शनस्य क्षमतां दृष्ट्वाऽऽलोचकाश्चकिताः भवन्ति ।

भाष्यम्[सम्पादयतु]

सायणात् पूर्ववत्तीं अथर्वसंहितायाः न कोऽपि भाष्यकारोऽभवत्। सायणस्तु सम्पूर्णायाम् अथर्वसंहितायामुपरि भाष्यं लिलेख, किश्च प्रकाशितग्रन्थेषु द्वादश काण्डानाम् ( १-४, ६-८, ११, १७-२०) एव भाष्यमुपलब्धं भवति। अनेन प्रकारेणास्य वेदस्य सायणभाष्यमप्यपूर्णमेवाऽस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. जयन्तभट्टस्य न्यायमञ्जरी ( चौ० स० पृ० २३७-२३८ )
  2. ‘द्वेषो धत्तमनवायं किमीदिने ।।' ऋ० ७॥१०४॥२
  3. ‘साधुजनवैरी सदा विरुद्धबुद्धिः पिशुनोऽभिधेयः'-देवराजयज्वा, निघण्टुनिर्वचनम् पृ० ३५६
  4. 'भण्डारकर-अभिनन्दनम्'
  5. (७॥२)
  6. ( ११॥२॥१७ )
  7. ( १॥४ )
  8. (अथर्ववेदे ६॥१; १०॥२॥२६-२८)
  9. ( ६५॥२७ )
  10. ( २॥१॥३६ )
  11. ( ३॥१२॥९॥१ )
  12. ( ११॥५ ११॥१८ )
  13. ( १३॥४॥३।|२ )
  14. ( ३॥|२ )
  15. (गोप० ब्रा० ३॥२)
  16. (अथर्ववेदभाष्यभूमिकातः समुद्धृतः)
  17. (३।२४।। 2४)
  18. (रघु० १॥५९)
  19. (८/३)
  20. ‘स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः' ।-८॥३
  21. काश्यपसंहितायाः उपोद्घातः, पृ० ९-१२ बम्बईसंस्करणम्
  22. ( ६॥२१॥१-३ )
  23. ( ६॥८३॥१-३ )
  24. ( ९॥१३॥१२२ )
  25. ( १॥३॥१९ )
  26. (१॥११॥१-६ )
  27. ( ५॥१७॥१-३ )
  28. ( २॥३१॥१-५ )
  29. ( ५॥२३॥१-१३ )
  30. ( ४।३७॥१॥१२ )
  31. (७॥८८१)
  32. स्त्रिकीटेन जीवनचक्रस्य उल्लेखः संशोधने प्राप्यते।
  33. ( ५॥५॥५ )
  34. ( ५॥५॥६ )
  35. ( १॥ ५।१ )
  36. Dave-International Academy of Indian Culture, Nagpur Esepl 1950) and Dr. Hora Journal of Asiatic Society of Ben gal L vol., xviii 1952, No 1, p. p. 13-15
  37. (३॥२५॥१-५, ६)
  38. ( ६॥१३८॥९॥९० )
  39. (श्रीमद्भागवते १२॥७॥१-३; वायुपुराणे ६१॥४९-५३, विष्णुपुराणे ३॥६॥९-१३ )
  40. (१२॥७॥१)
  41. शन्नो देवी*******'अथर्ववेदादिमन्त्रोऽयं पिप्पलाददृष्टः'--छान्दोग्यमन्त्रभाष्ये
  42. (४।१।।८६)
  43. ( १।१।।३० )
  44. (६॥३७)
  45. ( २२||२ )
  46. ( ५॥२५॥७॥८ )
  47. ( ६॥१४ )
  48. ( ६॥८३ )
  49. (६॥८५)
  50. ( ६॥१०५ )
  51. ( ६॥१४० )
  52. (५।१३ )
  53. ( अथर्व० ४॥१५ )
  54. ( ३।४ )
  55. ( ३॥३ )
  56. ( अथर्व० ५/२०/५)
  57. ( ५॥२१ )
  58. ( १२॥१॥१२ )
  59. इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥
  60. ( मं० ४५)
  61. ( १२।१ )
  62. ( १९॥५३॥८ )
  63. (१०॥१०)
  64. ( अथर्ववेदः १०।१०।२६ )
  65. ( म० २७ )
  66. ( १०॥७॥८ )
  67. (११॥९)
  68. ( १०॥७॥ १२ )
  69. ( म० २४ )
  70. ( मन्त्र २५ )
  71. ( ११॥७॥२३ )
  72. ( १७।१ )
  73. ( अथर्व० १४।२।६२ )
  74. ( अथर्वं० १४॥२॥७५ )
  75. ( ६।१३० ए° ६l१३८ )
  76. ( अथर्व० ९॥१३१॥३ )
  77. ७/३५
  78. ७/९०
"https://sa.wikipedia.org/w/index.php?title=अथर्ववेदः&oldid=424245" इत्यस्माद् पुनः प्राप्तिः