वात्स्यायनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वात्स्यायन इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

कामसूत्राणी इति सुप्रसिद्धकृतेः कर्ता भवति महर्षि वात्स्यायनः अथवा मल्लनागवात्स्यायनः। तस्य जीवितमधिकृत्य किम्चिदेव जानाति। तस्य समयः क्रिस्तोः पूर्वम् प्रथम शतकात् क्रिस्तो पश्चात् षष्ठ शतकपर्यन्तम् अतिविशाल कालगणनायाः मद्ध्ये भवति इत्येव वक्तुम् शक्यते।[१] भारतस्य अधुना विश्वस्य सर्व कलाप्रवर्तनेषु अस्य ग्रन्धस्य प्र्भावः द्रष्टुम् शक्यते। विवहे ज्ञेयानि कार्याणि, औषधप्रयोगाः, रतिवैविध्यम्, रतिस्थानाः। इत्यादय कामसूत्रस्य विषयविभागाः।

वात्स्यायनः कुत्र कदा जीवितः इति कृत्यतया वक्तुम् सामग्रि अथुना न लब्धः। कामसूत्रे शातकर्णि इति कुण्टलराजम् प्रति प्रस्तावः अस्ति।[२] सः प्रथमशतके जीवितः इति कारणात् वात्स्यायनस्य कालम् तदनन्तरमेव इति वक्तुम् शक्यते। तथा एव षष्टशतके जीवितस्य वराहमिहिरस्य बृहत्सम्हितायाम् अष्टादशोध्याये कामविषये कामसूत्रादुधृत पद्यानि दृश्यन्ते इति कारणात् तस्य समयः तत्पूर्वम् जातम् इत्यपि वाच्यम्। [३] वात्स्यायनः बनारस् नगरे आश्रमजीवितम् अकरोत् इति पण्डितानाम् मतम्। बहुवर्षाणाम् गवेषणानन्तरमेव कामसूत्रसदृशस्य कृतिरचना जातमिति चिन्त्यते।[४] वात्स्यायनः गौतमस्य नायसूत्राणाम् भाष्यकर्ता इति कारणेनापि स्मरणीयः।[५]

भाष्यकारः श्रीवात्स्यायनः[सम्पादयतु]

न्यायशास्त्रस्य सूत्राणामुपरि भाष्यकारो भगवान् वात्स्यायनः कस्मिन् देशे कस्मिन् काले वा समुत्पन्न इति नहि मया सम्यङ् निर्णतुं शक्यते, यतः सर्वतः प्राक् तन्नाम्न्येव चास्ति मतभेदः, तर्हि तदीये देशे काले च मतभेदः कथन्न स्यादिति स्वयमेव विचारयन्तु दार्शनिका विद्वांसः ।

महर्षिर्गोतमद्वारा विरचितेषु सूत्रेषु भाष्यं विधातुर्नाम क्वचिद् वात्स्यायनो मिलति, क्वचिच्च 'पक्षिलस्वामी'ति नामधेयं दृष्टिगोचरीभूतं भवति । एव मन्यत्र स्थले 'पक्षिलमुनि'रित्यभिधानमपि श्रावणप्रत्यक्षविषयीभूतं भवति । क्वचिच्च केवलं 'पक्षिल' इत्येव श्रूयतेऽनुभूयते च ।

किन्तु न्यायभाष्यसमाप्त्येदं विज्ञायते यद् भाष्यकारस्य वास्तविक नाम 'वात्स्यायन' एवाऽऽसीत् ।। तथाहि-

'योऽक्षपादमृषि न्यायः प्रत्यगाद्वदतां वरम् ।

तस्य वात्स्यायन इदं भाष्यजातमवर्तयत्' ॥[६]

एवं न्यायवात्तिकसमाप्त्या चेदं मया समनुभूयते यत् -

यदक्षपादप्रतिभो भाष्यं वात्स्यायनो जगौ ।

अकारि महतस्तस्य भारद्वाजेन वात्तिकम् ॥

इत्यनया प्राचीनाचार्यचरणोक्त्या सुस्पष्टमिदं समनुभूयते यद् भाष्यकारस्य नामधेयं वस्तुतो 'वात्स्यायन' एवास्ति इत्यत्र नास्ति लेशतोऽपि विचिकित्सा वसरः ।

एवं न्यायवात्तिकतात्पर्यटीकायाः प्रारम्भे षड्दर्शनाचार्यः श्रीवाचस्पति मिश्र इत्थं समुल्लिखति यत्-.

'अथ भगवता अक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते व्याख्याते च भगवता पक्षिलस्वामिना किमपरमवशिष्यते'। -न्या० वा० ता० प्रारम्भे

इत्यनया खलु वाचस्पतिमिश्रवाचोभङ्ग्या न्यायभाष्यप्रणेता 'पक्षिल स्वामी' एव प्रतीयमानो भवति । अयञ्च चाणक्यचित्रगुप्तकालीन आसी दित्यपि श्रूयते ।

वेदभाष्यकर्ता श्रीमाधवाचार्योऽपि तामेव वाचस्पति मिश्रोक्ति समर्थयति 'पक्षिलस्वामिना च सेयमान्वीक्षिकी विद्या प्रमाणादिभिः पदार्थविभज्यमाना' इति । इत्यनेन सर्वदर्शनान्तर्गताऽक्षपादलेखेन भाष्यकारस्याऽपरं नाम ‘पक्षिल स्वामी' अपि आसीदिति विज्ञायते ।

एवं पक्षिलमुनिप्रभृतयः' इत्यनया ताकिकग्रन्थस्य प्रारम्भिकपङ्क्त्या भाष्यकारस्य 'पक्षिलमुनिः' इत्येव नामधेयं प्रतीयमानं भवति । अत्र घटकीभूत एवकारोऽप्यर्थकः । नामधेयमित्यस्य नामान्तरमित्यर्थो बोध्यः । अर्थात् 'पक्षिल मुनि'रपि श्रीवात्स्यायनस्यैकमपरं नामास्तीति सूचितं भवतीति भावः । केवल. मस्ति शब्दानुपूर्व्या भेदो नत्वर्थानुपूर्व्या अपि ।

तामेव खलु वात्स्यायनस्वरूपामर्थानुपूर्वी प्रमाणान्तरमपि समर्थयति शतपथब्राह्मणस्य बृहदारण्यकोपनिषदः समाप्तौ-'अथव ॐशः' इत्युपक्रम्य 'वात्स्यात्वात्स्य' इत्यनेन सर्वथा प्रमाणभूतेन लेखेन वात्स्यायनस्यैव तादृश भाष्यकर्तृत्वं सूचितं भवति । यतः 'वत्सस्य युवा गोत्रापत्यं वात्स्यायनः वत्स यञ् यूनिफक जीवति वत्से युवाऽपत्यं वात्स्यायनः' एतद्व्युत्पत्त्यनुसारं 'वात्स्यायने'ति शब्दो निष्पन्नो भवति ।

अपि च । वात्स्यायनस्य चर्चा पद्मपुराणस्य रामाश्वमेधप्रकरणेऽपि समायाति । यथा - व्यास उवाच-

'ततः परं धराधरं पृष्टवान् भुजगेश्वरम् ।

वात्स्यायनो मुनिवर: कथामेतां सुनिर्मलाम्' ।

इत्थञ्च वात्स्यायनविषयिण्याश्चर्चायाः स्वयं वात्स्यायन एव विषयीभूतः सन् तादृशभाष्यकर्ता सिद्धयतीति भावः ।

तात्त्विकदृष्ट्यापि विचार्यमाणे गोतमसूत्रेषु यदस्ति भाष्यं तद् 'वात्स्यायन भाष्यम्' इत्येव निगद्यते सर्वैरेव दार्शनिकैर्न तु 'पक्षिल'भाष्यम्, नापि 'पक्षिलमुनि'भाष्यम् । नापि च 'पक्षिलस्वामि'भाष्यम् इति चोच्यते । अत स्तादृशभाष्यकर्ता वात्स्यायन एवेति सिद्धम् ।

अथ न्यायसूत्राणामुपरि विरचितस्य वात्स्यायनभाष्यस्योपरि वर्तते वार्तिक मुद्योतकरस्य । तदुपरि चास्ति न्यायतात्पर्यटीका श्रीवाचस्पतिमिश्रस्य, तत्र च पुनरस्ति तात्पर्यपरिशुद्धिटीका श्रीउदयनाचार्यस्येति क्रमो विज्ञेयः ।

वात्स्यायनकालविचारः[सम्पादयतु]

'पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्' । गो० सू० अ० ५, सू० १० । इत्यस्य पञ्चमाऽध्यायान्तर्गत द्वितीयाऽऽह्निकस्य दशमसूत्रस्य भाष्ये 'दश दाडिमानि सन्ति' इत्युदाहरणमुद्धृतम् । एतावता इदमवश्यं प्रतीयते यत् व्याकरणशास्त्रस्य परमाचार्यस्य श्रीमहर्षेः पतञ्जले: समनन्तरकालावच्छेदे नैव न्यायसूत्रेषु भाष्यकर्तुः श्रीवात्स्यायनस्य जन्म जातमिति सर्वथा सुनिश्चित मस्ति । यत उपर्युक्तानां 'दश दाडिमानि सन्ति' इत्युदाहरणानां समुल्लेख स्वीये महाभाष्ये महर्षिप्रवरश्रीपतञ्जलिरपि कृतवान् । अत एतावता क्रमा नुबन्धेन महर्षेायभाष्यकारस्य श्रीवात्स्यायनस्य जन्मकालः प्रथमां शताब्दी मारभ्य चतुर्थशताव्दीपर्यन्तं जायमानत्वमेव निश्चितमस्ति ।

अस्मिन् विषये केषाञ्चिद् दार्शनिकविदुषामिदमप्यस्ति कथनम्--यद् विक्रमतः पूर्व प्रथमशताब्द्यां वात्स्यायनस्य जन्म जातमिति प्रथमशताब्द्येवास्ति तदीयो जन्मकाल इति वदन्ति ।

अपरे केचन दार्शनिका वात्स्यायनस्य जन्मकालम् 'ईसा'तः पूर्वं द्वितीय शताब्दी कथयन्ति केवलमनुमानतः ।

अहन्तु शशिबाला गौड़:-वात्स्यायनस्य न्यूनान्न्यूनं जन्मकालं कार्यकालं वा 'ईसा' इत्याख्यस्य चतुर्थशताब्द्याः प्रारम्भोऽस्तीति मन्ये । कुतः -

प्रो० जैकोबी वात्स्यायनस्य जन्मकाल ईशवीय सन् ३०० अस्तीत्यभ्युप गच्छति । यतः पञ्चमशताब्द्यामुद्भटबौद्धदार्शनिकस्य श्रीदिङ्नागस्य प्रमाण समुच्चयनामके ग्रन्थे वात्स्यायनस्य भाष्यखण्डनं समुपलभ्यते । इदमत्रा वधेयमस्ति -

यथा 'मार्तण्डतिलकस्वामी,' 'देवस्वामी', इति च नामद्वयं पूर्णं नाम मन्यते लोकस्तथैव 'पक्षिलस्वामी' इत्यप्यस्ति पूर्णं नाम । 'पक्षिल' इत्यभिधान मस्ति, स्वामी इति चोपाधिरिति नाऽभ्युपगन्तव्यम् । कामसूत्राणां कर्ता वात्स्यायनः, अर्थशास्त्रनिर्माता वात्स्यायनः, तथा न्यायसूत्राणां कर्ता वात्स्या यनः, इमे त्रयोऽपि सन्ति विभिन्ना विद्वांसः ।

वात्स्यायनस्य देशनिर्णयः[सम्पादयतु]

भाष्यकर्ता श्रीवात्स्यायनः 'नवकम्बलोऽयं देवदत्तः' इत्यस्माच्छलस्योदाहरणात् तथा 'रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम्' अस्य सूत्रस्य 'नदी पूर्णा गृह्यते'। 'नीडोपघातादपि पिपीलिकाण्डसंचारो भवति' 'पुरुषोऽपि मयूरवासितमनुकरोति' एतेभ्य उदाहरणेभ्योऽपि मिथिलादेशवासी मैथिलो ब्राह्मणः समनुभूयते ।।

यतः प्रागुक्तोदाहरणेभ्यो निर्दिष्टानि खल 'पललपिण्ड'प्रभृतीनि वस्तूनि विशेषतो मैथिलेष्वेव व्यवहृतानि भवन्ति ।

एवं 'दश दाडिमानि सन्ति' इत्युदाहरणेनापि भाष्यकार श्रीवात्स्यायनस्य मैथिलत्वं याथार्थ्येन सुनिश्चीयते । यतः प्रागुक्तानीमानि फलानि मिथिलादेश एव विशेषतो भवन्ति मिलन्ति च ।

यद्यपि 'दाडिम' = अनार, इति हिन्दी, इति फलमिदानीन्तनकालावच्छेदेन तु 'पञ्चनद' प्रदेशेऽपि समुपलभ्यते । परन्तु इतः पूर्वकालावच्छेदेन मिथिला अदरा एव जनाः प्राप्नुवन्ति स्मेति प्रतीयते, अतः श्रीवात्स्यायनस्य मैथिल ब्राह्मणत्वमक्षुण्णमेवेत्यत्र नास्ति लेशतोऽपि विचिकित्सावसर इति वर्ततेऽयं लादशवासीत्यस्मिन् महाविदुषि मिथिलादेशवासित्व, मैथिलत्वोभयधर्म योरेव सत्त्वेनोभयमविरुद्धमिति न किञ्चिदनुपपन्नम् ।

वात्तिककारस्य जीवनचरित्रम्[सम्पादयतु]

न्यायवात्तिकस्याऽन्तिमे भागे वात्तिककारः श्रीभारद्वाजः स्वयमेव लिखति यत् -

'यदक्षपादप्रतिभो भाष्यं वात्स्यायनो जगौ ।

अकारि महतस्तस्य भारद्वाजेन वात्तिकम् ॥ [७]

इति परमर्षिभारद्वाजकृतं न्यायत्रिसूत्रीवात्तिकं समाप्तम् । मुल्लखो मिलति त्रिसूत्रीप्रकरणस्याऽन्तिमे भागे। एवम् किरकृतो न्यायसूत्रवात्तिके पञ्चमोऽध्यायः' ।[८]

एवंविधेनाऽनेन लेखेन सुस्पष्टमेव सिद्धयति यत् वात्तिककारः श्रीभारद्वाज ग. पाशुपतसिद्धान्तावलम्बी चासीदिति सर्वेऽपि इत्येवंभूतः समुल्लेखो मिलति त्रिसूत्रीप्रकर" 'इात पाशुपताचार्यश्रीभारद्वाजोद्योतकरकृतौ न्यायसूत्रवात्तिक एवं विधेनाऽनेन लेखेन सुस्पष्टमेव सिद्ध एवाऽऽसीत्, तथाऽयं श्रीभारद्वाजः पाशुपतसिद्धान्ताव प्राचीनाचार्यचरणा विदन्ति स्वीकुर्वन्ति च ।

तात्पर्यटीकायाः प्रारम्भे षड्दर्शनाचार्यः श्रा ऽक्षपादेन निःश्रेयसहेती शास्त्रप्रणीते व्युत्पा। किमपरमवशिष्यते यदर्थं वात्तिकारम्भ इति प्रयोजनानुवादपूर्वकं वात्तिकारम्भप्रयोजनं दर्शयति - यदक्षपाद इति।

यद्यपि 'भाष्यकृता तदपनीयते' एवम् षड्दर्शनाचार्यः श्रीवाचस्पति मिश्रः 'अथ भगवता शास्त्रप्रणीते व्युत्पादिते च भगवता श्रीपक्षिलस्वामिन राचिकीर्षुः सूत्रकारोक्त वात्तिकारम्भप्रयोजनं दर्शयति—यदक्षपाद इति । एवम्भूतो लेखोऽस्ति, अतोऽस्य लेखस्य पौर्वापर्यक्रमानुसारेण, तथा 'न्यायकन्दली' नाम्नी या चास्ति टीका कणादभाष्यो परि श्री-श्रीधराचार्यस्य, तल्लेखानुसारेण च, तथा तत्त्वप्रदीपिका टीका रचयितः श्रीचित्सुखाचार्यस्य लेखानुसारतो वात्तिककारस्य नामान्तरम् 'उद्योतकरो'ऽपि प्रतीयमानं भवतीत्यनुशुश्रुमः । 'स्वामी', 'मुनि'रितिवच्च नोपाधिरस्ति 'उद्योतकरः' इति । यतस्तत्र बलवत्तरप्रमाणाभावात् ।

नामान्तरमवश्यम्भवितुमर्हति, यत अनेकाचार्णाणां नामद्वयं प्रायोऽवश्य मेवाऽनुभूयते सर्वत्र, यथा महर्षेर्गोतमस्य = अक्षपाद, इति, गोतम इति च । एवं न्यायसूत्राणामुपरि भाष्यकारस्यैकं नाम वात्स्यायनः, अपरञ्च पक्षिल स्वामी, पक्षिलमुनिरित्यपि निगद्यते इति । एवं भगवतो वेदव्यासस्यैकं नाम वेदव्यासः, द्वितीयञ्च कृष्णद्वैपायन इति ।

इत्थमेव च न्यायभाष्योपरि वात्तिकं विधातुः वात्तिककारस्यैकं नामास्ति 'भारद्वाज' इति, अपरञ्चास्ति 'उद्योतकर' इति ।

देशनिर्णयः[सम्पादयतु]

केचन विद्वांसो वात्तिककारं भारद्वाजम् अथवा उद्योतकरं काश्मीरदेश वासिनं वदन्ति । तेषामिदमस्ति कथनं यत् काश्मीरदेशे एव नानाविधाः सम्प्रदायाः श्रूयन्ते, दृश्यन्ते च ।

अपि च वार्तिककारः 'पाशुपताचार्य उद्योतकरविरचितं न्यायसूत्रवात्तिक समाप्तम्' एवं लिखितवान् । एतेन लेखेन सुस्पष्टमिदं विज्ञायते यत् न्याय वात्तिककारोऽवश्यमेव काश्मीरदेशवासी आसीत्, यतः पूर्वं तान्त्रिकविद्या एवं तान्त्रिकविद्याप्रयुक्ताः सर्वेऽपि संप्रयोगाः, तथा तान्त्रिकविद्यातः सम्बन्धिताः पाशुपतप्रभृतयो नानाविधाः सम्प्रदायाः काश्मीरदेशे एव समुपलब्धा भवन्ति स्म प्रचलन्ति स्म च ।

केषाञ्चिद् विदुषामिदमप्यस्ति कथनं यत्-'गोपालकेन मार्गेऽपदिष्टे एषः . पन्था स्नुधं गच्छति' एतदुदाहरणानुसारेण श्रीवात्तिककारो मालवदेशान्तर्गत 'पद्मावती' इत्याख्यस्य स्थानस्य निवासी समवर्ततेत्यपि श्रूयते ।

इत्थञ्च वात्तिककारः खलु उपर्युक्तदेशेषु कस्य देशस्य निवासकर्ताऽऽसी दिति याथार्थ्यन नहि वक्तुं शक्यते, परन्तु एतेष्वेवाऽन्यतमत्वेन निर्देशे देशे निवासकर्ताऽयमासीदिति सर्वथा सुनिश्चितमस्तीति भावः ।  

पश्यतु[सम्पादयतु]

अवलम्बः[सम्पादयतु]

  1. http://www.gradesaver.com/author/vatsyayana
  2. कामसूत्रम् 2:7:29
  3. The Kama Sutra of Vatsyayana, Richard Burton
  4. http://www.gradesaver.com/author/vatsyayana
  5. https://www.britannica.com/biography/Vatsyayana
  6. -न्या० भा०
  7. न्यायवा० अन्तिमभागः
  8. त्रिसूत्रीप्रकरणस्यान्तिमे भागे ।
"https://sa.wikipedia.org/w/index.php?title=वात्स्यायनः&oldid=458082" इत्यस्माद् प्रतिप्राप्तम्