कर्मवादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



हिन्दुजीवनपद्धतौ परिकल्पनाद्वयं प्रामुख्यम् आवहति - कर्म पुनर्जन्म च । हिन्दुजीवनस्य सर्वेषु क्षेत्रेषु अनयोः व्यापकप्रभावः दृष्टिगोचरः भवति । इदं तत्त्वद्वयं समीचीनतया नावगतेन केनापि हिन्दुजीवनमार्गः अवगन्तुम् अशक्यः एव । अतः अनयोः अवगमनम् अत्यवश्यम् । बृहदारण्य्कोपनिषदि ऋषिः याज्ञवल्क्यः कथयति -

उल्लेखाः[सम्पादयतु]

बृहदारण्यकोपनिषदि[सम्पादयतु]

'मरणस्य अनन्तरं शरीरस्य विविधाः अंशाः मूलप्रकृतिस्थाः भवन्ति । किन्तु पुरुषस्य कर्म तु तं न त्यजति । तेन सह एव चलत् अग्रिमस्य जन्मनः कारणीभूतं भवति । मानवः स्वस्य पुण्यकर्मभिः पुण्यजीवी पापकर्मभिः पापजीवी सन् जन्म प्राप्नोति ।' - बृहदारण्यकोपनिषत्

योगसूत्रेषु[सम्पादयतु]

पतञ्जलिः योगसूत्रेषु वदति - पुरुषस्य कर्म चतुर्विधं भवति ।

  1. शुक्लकर्म - स्वाध्याय-ध्यानादिभिः अध्यात्मक्रियाभिः प्राप्तं फलम् । इदं भवति सुखम् ।
  2. कृष्णकर्म - परहिंसा-चौर्यादिभिः नीचकर्मभिः प्राप्तं फलम् । इदं भवति दुःखम् ।
  3. शुक्लकृष्णकर्म - कर्मेन्द्रियैः ऐहिकजगति क्रियमाणैः विविधैः कर्मभिः प्राप्यमाणं फलम् । परोपकारेण पुण्यकर्म परहिंसया पापकर्म च फलरूपेण प्राप्येरन् ।
  4. शुद्धकर्म - इदं कर्म योगिभिः क्रियते । इदं शुक्लकर्म अपि न कृष्णकर्म अपि न । पुण्यसम्पादनदृष्ट्या सुखार्थमपि तेन कर्म कृतं न भवति । इदं स्वधर्मः इति दृष्ट्या निःसङ्गः सन् निष्कामभावनया ईश्वरसमर्पणभावेन अत्र कर्म कृतं भवति । एतेन नूतनं कर्म न भवति । अस्य फलं भवति ज्ञानं मुक्तिश्च ।

जैनमते[सम्पादयतु]

अस्मिन् मते कर्म, कर्मफलम्, पुनर्जन्म - इत्येतानि तत्त्वानि आधृतानि सन्ति । महावीरः क्रियावादस्य उपस्थापनम् अकरोत् । क्रियायाः बाह्याकारस्य अपेक्षया तस्य पृष्ठभूमौ विद्यमानः मानसिकोद्देशः एव प्रमुखः इत्येतत् तदीयं मतम् । कर्मभिः आत्मनः बन्धनं भवति । तथापि शीलव्रतादिभिः नूतनकर्मणः आगमनं निवारयितुं शक्यम् । विविधक्रियाभिः आत्मनः स्वभावस्य उपरि यः प्रभावः भवति तदेव कर्म उच्यते । कर्मणा आत्मनः बन्धनं भवति । एतावता एव सञ्चितानि कर्माणि तपसः प्रभावेण निष्कासनीयानि ।

बौद्धमते[सम्पादयतु]

उद्देशपूर्वकं कृतस्य सर्वस्य अपि कर्मणः फलम् अस्मिन् जन्मनि अग्रिमजन्मनि वा अवश्यम् अनुभोक्तव्यम् एव । तस्मात् पलायनं कृत्वा गमनाय कोपि प्रदेशः अस्यां सृष्टौ न विद्यते । - (धर्मपद-पापवर्ग-१२८)
हे ब्राह्मण युवक, जीविनः स्वस्य कर्मभिः बद्धाः । कर्मणां फलं तेषामेव । कर्माणि एव तस्य अग्रिमस्य जन्मनः निर्णयं कुर्वन्ति । कर्म एव तस्य मित्रं परमः आश्रयश्च । उत्तमम् अधमं च जन्म प्राप्य जीवी कर्मणः मुक्तिं प्राप्नुयात् । - (सूत्रपिटक-चूलकम्मविभङ्ग-) बौद्धदर्शने क्रियायाः बाह्यरूपस्य अपेक्षया कर्तुः आन्तरङ्गिकी स्थितिः एव प्रामुख्यम् आवहति । यतः इच्छा एव बाह्यरूपं प्राप्नोति । कर्म संस्कारः भवचक्रस्य सम्बन्धतन्तुः वर्तते इति इदं दर्शनं बोधयति ।

वैज्ञानिकी दृष्टिः[सम्पादयतु]

भौतविज्ञाने 'शक्तेः नित्यता नियमः' यथा विद्यते तथैव 'नैतिकमौल्यानाम् अपि नित्यता नियमः' विद्यते । इमं नियमम् एव ऋषयः स्वतपसा अवगत्य कर्मनियमः इति निर्दिष्टवन्तः । मानवः मनसा वाचा कायेन यत् कर्म करोति तस्य योग्यं फलं प्राप्नोति एव । कर्मफलं भवति द्विधा - १ बाह्यपरिणामः - कर्म एव कारणं भूत्वा परिणामं जनयति । २ एतेन सहैव कर्म कर्तुः इच्छा, उद्देशः, सङ्कल्पः, मानसिकस्थितिः - एतान् अनुसृत्य तस्य अन्तः (चित्ते) कञ्चन परिणामं जनयति । सः एव संस्कारः । एवं बहिः स्थूमं कर्मफलम् अन्तः सूक्षः कर्मसंस्कारः नियततया भविष्यति । अग्रे सूक्तपरिसरतः प्रचोदनं यदा प्राप्यते तदा सः सुप्तसंस्कारः कर्त्रा पुनः तादृशं कर्म कारयति । एवं संस्कारः कर्मरूपेण वर्धते ।

कर्मबन्धनम्[सम्पादयतु]

मानवस्य चित्तं तस्य कर्मकलापादयः अनादि । तस्य आरम्भः निर्देष्टुम् अशक्यः । अस्याः अनादिकर्मपरम्परातः मानवस्य इच्छास्वातन्त्र्यं क्रियास्वातन्त्र्यञ्च बहुधा परिमितं जातम् अस्ति । इदमेव कर्मबन्धनम् । 'कर्म कृतम् अस्ति । तस्य फलं न भवेत्' इत्येतत् शाश्वतप्रकृतिनियमं कार्यकारणसम्बन्धम् एव निराकरोति । कर्म क्रिया भवति । कर्मफलं संस्कारः प्रतिक्रिया भवति । प्रत्येकस्य क्रियायाः प्रतिक्रिया भवति एव ।

कर्मयोगः[सम्पादयतु]

प्रतिक्रियां प्रतिरोधक्रियया सम्मुखीकर्तुं शक्यः । प्राप्तं कर्मफलं सहनया धैर्येण च सोढ्वा समचित्तता रक्षणीया । विद्यमानम् इच्छास्वातन्त्र्यं क्रियास्वातन्त्र्यं च उपयुज्य विवेकेन विचारशक्त्या च दुष्कर्माणि अकुर्वन् सत्कर्माणि कर्तव्यानि । सत्कर्मभिः कर्मबन्धनात् मुक्तिः प्राप्तुं शक्यः इति ऋषिभिः दर्शितम् अस्ति । अयम् एव कर्मयोगः

"https://sa.wikipedia.org/w/index.php?title=कर्मवादः&oldid=406440" इत्यस्माद् पुनः प्राप्तिः