पारस्करगृह्यसूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पारस्करगृह्यसूत्रनाम्ना शुक्लयजुर्वेदस्य गृह्यसूत्रं विख्यातमस्ति । अस्य त्रिषु काण्डेषु प्रथमकाण्डे आवसथ्याग्नेराधानं, विवाहादारभ्यान्नप्राशनपर्यन्तानां विषयाणां वर्णनमस्ति । द्वितीयकाण्डे चूडाकरणादारभ्य उपनयन-समावर्तन-पञ्चमहायज्ञ-श्रवणाकर्म-सीतादियज्ञानां विवरणमस्ति । अन्तिमे काण्डे श्राद्धान्तरे अवकीर्णि-प्रायश्चित्तादीनां विविधानां विषयाणां प्रतिपादनमस्ति ।

भाष्याणि[सम्पादयतु]

अस्य व्याख्यासम्पत्तय एवास्य लोकप्रसिद्धेः परिचायिकाः सन्ति । निम्नलिखितान्यस्य पञ्चभाष्याणि प्रसिद्धानि सन्ति । तद्यथा — कर्कभाष्यं, जयरामभाष्यं, हरिहरभाष्यं, गदाधरभाष्यं, विश्वनाथभाष्यञ्चेति ।

कर्कः[सम्पादयतु]

कर्काऽख्यो विद्वान् अयम् अतिप्राचीनस्तथा मान्यो भाष्यकारोऽस्ति। अयं हि कात्यायनस्य श्रौतसूत्रस्य पारस्करस्य गृह्मसूत्रस्य च टीकाग्रन्थं लिलेख । हिमाद्रिनामको विद्वान् स्वीये 'कालनिर्णये' त्रयोदशशतकस्य अन्तिमे चरणे त्रिकाण्डमण्डनं समुद्धृतवान्। अनेन स्वकीयग्रन्थे ‘आपस्तम्बध्वनितार्थकारिका'यां कर्काचार्यमनुस्मृतम् । हेमाद्रिमहोदयेन स्वश्राद्धनिर्णये कर्काचार्यस्य मतमपि खण्डितम् । एभिः विचार्यमाणैः कर्काचार्यस्य समयो द्वादशशतकस्य मध्यभाग इति मन्यते। कर्काचार्यः ‘सिंही'-नामकस्य औषधिविशेषस्य पर्यायः ‘रिङ्गणिके'ति प्रदत्तवान् । रिङ्गणिका-शब्दस्य भोजपुरीभाषायां 'रेंगनी' इति मूलरूपमस्ति । अस्य व्याख्यायाः नाम गृह्यसूत्रभाष्यमस्ति ।

जयरामः[सम्पादयतु]

जयरामो हि 'मेवाड'-निवासी समृद्धकुलसम्भवश्च आसीत् । भारद्वाजगोत्रीयः अाचार्यापरनामकस्य दामोदरस्यायं पौत्रस्तथा अस्य पितुर्नाम बलभद्र आसीत् । अस्य भाष्यस्य नाम 'सज्जनवल्लभः' अस्ति । मन्त्राणां व्याख्या एवास्य भाष्यस्य विशेषताऽस्ति । अस्य पाठस्य संशोधने कृतश्रमोऽस्ति । तत्तद्वेदानां पाठाः वैदिकानां मुखादेव श्रुत्वैवायं मन्त्राणां पाठनिर्धारणं कृतवान्। अन्यटीकाकारास्तु पद्धतौ तथा अर्थोपरि अाग्रहं प्रदर्शितवन्तः, किञ्चायं जयरामः गृह्यसूत्रे उद्धृतमन्त्राणां व्याख्यामतीव प्रामाणिकरूपेण कृतवान् । इदमेवास्य वैशिष्ट्यमस्ति ।

हरिहरः[सम्पादयतु]

हरिहरेण स्वटीकायां विज्ञानेश्वरस्य मतं स्मर्यते। अतोऽस्य समयो द्वादशशतकात् पश्चाद्वर्ती मन्यते। षोडशशतके स्थितस्य श्रीदत्तस्य 'आचार्यदर्शे' तथा १२५० ई० स्थितस्य हेमाद्रेः श्राद्धप्रकरणे हरिहरमतनिर्दिष्टेण अस्य द्वादशशतकस्य अन्तिमे चरणे स्थितिरनुमीयते । अयं हि उक्तरीयभारतस्य विशेषतः कान्यकुब्जस्य निवासी प्रतीयते। हरिहरस्तु स्वभाष्ये गृह्यकर्मकाण्डस्य वर्णनं सविस्तरेण कृतवान् । पारस्करगृह्मसूत्रस्य सर्वापेक्षया लोकप्रिया व्याख्य इयमेवास्ति । अयं हि प्राचीनधर्मशास्त्रीयग्रन्थकारेषु मनु-वृद्धशातातप-याज्ञवल्क्य-यम-अङ्गिरा-हारीत-सुमन्तु-लौगाक्षि-यम-अङ्गिराप्रभृतीनां मतं विशेषरूपेण सस्मार। द्वीकायाः आरम्भे कस्यापि वासुदेवनामकस्य आचार्यस्य समादरेणोल्लेखो वर्त्तते । अस्यैव मतानुसारेणेयं पद्धतिलिखिताऽस्ति । ग्रन्थकारोऽयमग्निहोत्री आसीत् ।

गदाधरः[सम्पादयतु]

गदाधरेण स्वव्याख्यायां प्राचीनाचार्याणां मतं विस्तरेण स्मर्यते । एवंविधेषु आचार्येषु भर्तृयज्ञ-वासुदेव-गङ्गाधर-रेणुदीक्षित-हरिहरादयो मुख्याः सन्ति। हरिहरस्य व्याख्यायाः खण्डनमपि यत्र तत्र परिदृश्यते।[१] दृढपुरुषः[२] इत्यस्य अर्थस्य व्याख्यायाम् अनेकेषाम् आचार्याणां मतं प्रदत्तमस्ति । दृढपुरुषस्यार्थी भवति -कोऽपि बलशालिपुरुषः (हरिहरः), जितेन्द्रियः (भर्तृयज्ञः), जमाता (रेणुकस्तथा गङ्गाधरः) । एतेषु गङ्गाधरेण अन्तिमार्थं स्वीकृतम् । गदाधरस्य अभिरुचिः ज्योतिषसम्बन्धिनं प्रति वर्त्तते । अनेन कर्क-जयराम-भक्तुंयज्ञादीनां मतस्य निर्देशः कृत्वा हरिहरस्य मतं स्वीकृतम्। अस्मिन् भाष्ये मनुयाज्ञवल्क्य-हारीत-आपस्तम्ब-व्यास-मिताक्षरा-पराशर-मदनरत्न-वृद्धशातातपस्मृत्यर्थसार-मदनपारिजात-वसिष्ठ-प्रयोगपारिजातादीनामुल्लेखो वर्तते। गदाधरस्य पितुर्नाम वामनदीक्षितः आसीत् । वामनोऽयं ‘त्रिरग्निचित्सम्राट् स्थपति महायाज्ञिक' इत्युपाधिना विभूषित अासीत् । हेमाद्रेः उद्धरणेनास्य समयः ख्रीष्टस्य चतुर्दशशतकवर्त्ती इति मन्यते ।

विश्वनाथः[सम्पादयतु]

अयं हि नन्दपुरनिवासी काश्यपगोत्रीयो नागरब्राह्मणः आसीत्। विश्वनाथस्य पितुर्नाम नरसिंह अासीत्, माता चास्य गङ्गादेवी । एतयोः स्मरणं टीकारम्भे एवानेन कृतम् । अस्य भाष्यस्य नाम 'गृह्यसूत्रप्रकाशिका' अस्ति । भाष्यमिदमन्ते खण्डितमासीत् । अन्तिमाशस्य पञ्चखण्डानां टीका ग्रन्थकारस्य पितृव्येन अनन्तस्य प्रपौत्रेण लक्ष्मीधरेण १३६५ ख्रीष्टाब्दे कृतेति । स्तम्भतीर्थात् समागत्यायं काश्यां न्यवसत्। अत्रैवायं स्वव्याख्यां सम्पूरितवान्। विश्वनाथस्य समयस्तु षोडशशतकस्योत्तराद्धम् आसीत् । परिमाणे पर्याप्तरूपेण व्याख्या विस्तृताऽस्ति ॥

वैजवापगृह्यसूत्रम्[सम्पादयतु]

अस्य रचयिता वैजवाप अासीत् । चरणव्यूहः शुक्लयजुर्वेदस्य पञ्चदशशाखायां वैजवापमन्यतमं मन्यते । वैजवापस्य कल्पसूत्रस्य प्रथमनिर्देशः कुमारिलभट्टेन स्वतन्त्रवार्तिके कृतः।[३] 'आश्वलायनक सूत्रं वैजवापि कृतम्।' कात्यायनकल्पसूत्रस्य सर्वप्राचीनो व्याख्याकार आचार्यपितृभूतिरपि वैजवापश्रौतसूत्रस्यैकं सूत्रं समुद्धृतवान् - एवं च वैजवापेनाचार्येण सूचितम् - न सावित्रीमाह इति क्तः’।

वैजवापरचितगृह्यसूत्रस्य उद्धरणानि अनेकेषु प्राचीनेषु तथा मध्यकालिकधार्मिकेषु निबन्धेषूपलब्धानि भवन्ति । अपरार्को विनायकपूजायाः पूर्णप्रसङ्गः वैजवापगृह्यसूत्रादेव समुद्धृतः । विनायकेन उपसृष्टः पुरुषो बहुविधान् स्वप्नान् पश्यति - 'विनायकोपसृष्टलक्षणं खलु भवति - स्वप्ने सर्पान् पश्यति । अत्यन्तमपोऽवगाहते। अन्तरिक्षं क्रामति । पांसुकर्दमे चावसीदति। पृष्टतो मां कश्चिद् धावतीति मन्यते। उष्ट्रान् गर्दभान् शुनो दिवाकीर्त्तिमांन्याश्चाप्रयतान् पश्यति।' अस्यापक्रमणस्य दूरीकरणाय उपायमपि वर्णितम् अस्ति।[४]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यपरिसन्धिः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. अत्र हरिहरमिथैरबुद्ध्वैव पाण्डित्यं कृतमस्ति पृ० ८४
  2. ( १॥८॥१० )
  3. (१/३/१०)
  4. Fourth Oriental Conference Proceeding Page 59-67, Indian Press, Allahabad 1928
"https://sa.wikipedia.org/w/index.php?title=पारस्करगृह्यसूत्रम्&oldid=427323" इत्यस्माद् प्रतिप्राप्तम्