आत्मानन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अात्मानन्दः ऋग्वेदस्य ‘अस्यवामीयं' सूक्तं व्याख्यातवान् ।

कालः[सम्पादयतु]

स्वभाष्येऽस्मिन् अात्मानन्दः सर्वप्रथमं स्कन्दस्वामिनः, भास्करस्य च मतमालोचितवान्, तदनन्तरं सायणाचार्येण आत्मानन्दस्य मतमालोचितम् । तदयम् आत्मानन्दः स्कन्दस्वामिनः भास्कराच्च परवर्ती सायणाचार्याच्च पूर्ववर्ती सिद्धो भवति । अनेन उद्धृतलेखकेषु मिताक्षरायाः कर्त्ता विज्ञानेश्वरस्य ( ख्रीष्टस्य १०७० ईशवीतः ११०० ई० पर्यन्तम् ) तथा स्मृतिचन्द्रिकायाः रचयिता देवणभट्टस्य त्रयोदशशतकस्य च नामोल्लेखेन प्रतीयते यदयं चतुर्दशशततमं संवत्सरं जन्मना विदधौ ।

भाष्यम्[सम्पादयतु]

अस्य भाष्यस्य निरीक्षणेन बोधो भवति यद्, अयम् आत्मानन्दः स्वविषयस्य निविष्टज्ञाताऽऽसीत् । अनेन कृतमन्त्रस्यार्थः परमात्मानं प्रति, लक्ष्यं करोति । इयमेवास्य भाष्यस्य विशिष्टता वर्तते । आत्मानन्देन स्वयं भाष्यान्ते भाष्यविषये लिखितम् -

‘अधियज्ञविषयं स्कन्दादिभाष्यम्, निरुक्तमधिदैवतविषयम्, इदन्तु भाष्यमध्यात्मविषयमिति ॥ न च भिन्नविषयाणां विरोधः ॥ अस्य भाष्यमूलं विष्णुधर्मोत्तरम् ॥' इति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आत्मानन्दः&oldid=441036" इत्यस्माद् पुनः प्राप्तिः