माधवः (सामसंहिताभाष्यकारः)
माधवः सामसंहितायाः प्रथमभाष्यकारः प्रतीतो भवति ।
परिवारः, कालश्च
[सम्पादयतु]माधवस्य पितुर्नाम ‘नारायण' इत्यासीत् । कतिपये विद्वांसः स्कन्दस्वामिनः ऋग्भाष्यस्य पूरकः सहायकश्च नारायणादभिन्नत्वमेनं मन्यन्ते। किञ्च तयोरभिन्नताप्रदर्शकस्य प्रबलप्रमाणस्य अभाव एवास्ति, तथारि अस्याविर्भावकालो निश्चितरूपेण वक्तुं शक्यते । द्वादशशतकस्य देवराजयज्वा स्वीयनिघण्टुभाष्यस्य अवतरणिकायां कस्याऽपि माधवस्य निर्देशं कृतवान् । सम्भवतः माधवोऽयं सामभाष्य-रचयिता माधव एवाऽस्ति । न तावदैतावता अपितु बाणभट्टस्य माधवस्य कादम्बर्याः श्लोकोऽयम् -
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः॥
माधवस्य 'सामविवरणे' मङ्गलाचरणरूपेण समुपलब्धो भवति । अस्य श्लोकस्य ‘त्रयीमयाय'-शब्देन ज्ञातो भवति यदयं श्लोकः कस्यापि वैदिकग्रन्थस्यैव मङ्गलाचरणमासीत् इति। अतोऽनुमीयते - सर्वप्रथमं सामभाष्यस्य मङ्गलार्थं माधवेन श्लोकोऽयं प्रणीतः इथि। भाष्यकारमाधवः बाणभट्टस्य कोऽपि पूज्याचार्यो भवितुं शक्यते । बाणभट्टस्य पूर्वपुरुषा अपि वेदपारङ्गता विद्वांसः आसन् । हर्षचरितेन प्रमाणितो भवति यद् बाणभट्टस्य गुरुरपि कोऽपि वेदवेदाङ्गपारज्ञतो विद्वानेवासीत् । घटनेयं पूर्वानुमानस्य पुष्टिं करोति । अतः बाणभट्टस्य पूर्ववर्त्तिनो माधवस्य समयः विक्रमस्य सप्तमशतकपरवर्त्तित्वं स्वीकर्तुं न शक्यते । अतो यदि बाणभट्टः ख्रीष्टस्य सप्तमशतकस्य प्रारम्भकालिकस्तदायं माधवः षष्ठशतकवर्त्तीति वक्तव्यम् ।
भाष्यम्
[सम्पादयतु]सामवेदस्योभयोः खण्डयोः — छन्दार्चिक-उत्तरार्चिकयोः उपरि भाष्यं निरमात् । छन्दार्चिकभाष्यस्य नाम ‘छन्दसिकाविवरणम्' तथा उत्तरार्चिकभाष्यस्य नाम 'उत्तरविवरणम्' अस्ति । अद्यावधि भाष्यमिदममुद्रितावस्थायामेवास्ति । किञ्चास्य भाष्यस्य अन्वेष्टा सत्यव्रतसामश्रयीमहोदयः सर्वप्रथमस्वकीयसायणभाष्यसंस्करणे अस्यापि भाष्यस्य किमप्यंशस्य 'टिप्पणी'-रूपेण सन्निवेशः कृतवान्।