गुहदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गुहदेवो नाम कोऽपि विद्वान् तैत्तिरीयसंहितायाः भाष्यं प्रणीतवान् । अस्य भाष्यस्योद्धरणं प्रतिष्ठितैराचार्यैः कृतमतोऽस्य प्रामाणिकता प्रमातुं शक्यते । सर्वाऽधिकनिश्चितप्रमाणमस्य भाष्यस्य सद्भावे देवराजयज्वनः निघण्टुभाष्ये समुपलब्धो भवति । देवराजयज्वा स्वभाष्यारम्भे एव गुहदेवं भाष्यकारत्वेन स्मृतवान् । तैत्तिरीयारण्यकस्थस्य - ‘रश्मयश्च देवा गरगिरः' इति मन्त्रगत - ‘गरगिरः' इति पदस्य गुहदेवकृतव्याख्यां समुद्धृतमनेन । तद्यथा - 'तथा च 'रश्मयश्च देव गरगिरः' इत्यत्र गुहदेवः ‘गरमुदकं गिरन्ति पिबन्तीति गरगिरः' इति भाष्यं कृतवान् ।'

अयमपि प्राचीनभाष्यकार एवाऽस्ति । अाचार्यरामानुजः 'वेदार्थसङ्ग्रहाख्ये' स्वग्रन्थे गुहदेवं स्मरति। तद्यथा- ‘यथोदितक्रमपरिणतभक्त्ये लभ्य च भगवबोधायन-टङ्क-द्रमिडगुहदेवकर्ण्डिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्याख्यानसुव्यतार्थश्रुतिनिकरनिर्दर्शितोऽयं पन्थाः।' अतोऽस्य समयं विक्रमाष्टकशतकं नवमशतकं वेति अनेके विद्वांसः कल्पयन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुहदेवः&oldid=441039" इत्यस्माद् प्रतिप्राप्तम्