हलायुधः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

हलायुधः शुक्लयजुर्वेदस्य काण्वसंहितायाम् उपरि भाष्यम् अलिखत्। एतस्य भाष्यस्य नाम 'ब्राह्मणसर्वस्वम्' इति। सायणस्य परवर्तिनः अनन्ताचार्य-आनन्दबोधप्रभृतयः बहुशः विद्वांसः काण्वसंहितायामुपरि भाष्यानि चकुः । किञ्च सायणात्पूर्ववर्त्तिषु प्रधानाचार्येषु हलायुध एव शुक्लयजुर्वेदस्य काण्वसंहितायामुपरि स्वभाष्यमस्ति ।

भाष्यम्[सम्पादयतु]

ब्राह्मणसर्वस्वस्य भाष्यस्य आरम्भे एव हलायुधेन स्वविषये किञ्चित् वृत्तं लिखितम् । येन ज्ञातो भवति यत्, बंगप्रदेशस्य अन्तिमहिन्दूनृपतेः लक्ष्मणसेनस्य व्यवहारमण्डपे धर्माधिकारिणः गौरवपूर्णपदेऽयं प्रतिष्ठापित अासीत् । बाल्ये एवायं राजपण्डितोऽभवत् । नवयौवने श्वेतच्छत्रधारणस्य अधिकारः प्राप्तः । वार्द्धक्ये नृपलक्ष्मणसेनस्य धर्माधिकारीपदे च प्रतिष्ठापितः ।

‘बाल्ये ख्यापितराजपण्डितपदं श्वेताचिबिम्बोज्ज्वलच्छत्रोत्सिक्तमहामहस्तमुपदं दत्त्वा नवे यौवने ॥

यस्मै यौवनशेषयोग्यमखिलक्ष्मापालनारायणः श्रीमान् लक्ष्मणसेनदेवनृपतिर्धर्माधिकारं ददौ ॥”

लक्ष्मणसेनस्य समयः वि० स० १२२७-१२३७ (ईशवीयस्तु ११७०-१२०० ) विद्यते, अतः हलायुधोऽपि तत्कालिक एवासीदिति ।

कृतयः[सम्पादयतु]

अयं हलायुधः शैवदर्शनाचार्यः, वेद-मीमांसकः, आगमपारङ्गमश्च । विशेषतः शैव-वैष्णवागमयोः रहस्यज्ञो विद्वान् अासीत् । अस्य कृतिषु- ब्राह्मणसर्वस्वम्, मीमांसासर्वस्वम्, वैष्णवसर्वस्वम्, शैवसर्वस्वम् , पण्डितसर्वस्वञ्चेति ग्रन्थाः प्रसिद्धाः।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हलायुधः&oldid=443987" इत्यस्माद् पुनः प्राप्तिः