लक्ष्मणसेनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अबिराज-मदन शंकर परम नरसिंह गौरेश्वर लक्ष्मण सेन
बङ्ग सम्राट

शासनकालम् ११७८–१२०६
पूर्ववर्ती बल्लाल सेन
उत्तराधिकारी विश्वरूप सेन
पति/पत्नी तंद्रा देवी
Issue
माधव सेन
विश्वरूप सेन
केशब सेनमाधव सेन
विश्वरूप सेन
केशब सेन
पिता बल्लाल सेन
माता रामा देवी

लक्ष्मणसेन वङ्गप्रदेशस्य अन्तिमहिन्दूराजत्वेन प्रसिद्धः। नृपबल्लालसेनादनन्तरं तदात्मजः ‘लक्ष्मणसेनः' योग्यतापुरःसरं गौडक्ष्मां ररक्ष । ख्रीष्टस्य सप्तत्यधिकैकादशाब्देऽयं राज्यसिंहासनारूढोऽभवत्। त्रिंशद्वर्षाणि ( ३० ब० ) स राज्यं चकार । लक्ष्मणसंवदब्दप्रतिष्ठापकोऽयं लक्ष्मणसेनः कृत्याकृत्यविवेक्ताऽभूत् । तद्राजमन्दिरे कश्चिदपि मलिनच्छिन्नवस्त्रो वा निर्हेमभूषणो वाल्यपरिच्छदो वा न व्यलोकि। आर्तेभ्यो मुक्तहस्तो दानं ददौ। तदीये शासनकाले प्रजाजनः सन्तोषस्य वृद्धेश्चाभ्युन्नतिम् असाधयत् । असौ त्रिंशद्वर्षाणि शासनं विधाय ख्रीष्टस्य द्वादशशततमे वर्षे परलोकम् अयासीत् । हलायुधः गौडक्षितिपालस्य लक्ष्मणसेनस्य धर्माध्यक्षः आसीत्। लक्ष्मणसेनस्य समयः वि० स० १२२७-१२३७ (ईशवीयस्तु ११७०-१२°° ) विद्यते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लक्ष्मणसेनः&oldid=466105" इत्यस्माद् प्रतिप्राप्तम्