सामग्री पर जाएँ

भगवद्गीता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गीता इत्यस्मात् पुनर्निर्दिष्टम्)

गीतोपदेशः भगवता गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्णः अत्र उपदेशकः श्रोता अर्जुनः। वैदिकसनातनवर्णाश्रमधर्मावलम्विनां हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्याः मोक्षशास्त्रम् ,ब्रह्मविद्या गीतोपनिषत्, इत्यादिनि नामानि अपि सन्ति। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः।

वैदिकवाङ्मये श्रीमदभगवद्गीतायाः स्थानम्

[सम्पादयतु]

श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम्। वेदवत् त्रिकाण्डात्मकत्वात्,समस्तवेदार्थ सारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च। प्रसिद्धिश्चैतादृश्येव –

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता॥
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता गीतामृतदुहे नमः॥

वासुदेव-पार्थयोः संवादरूपायाः गीताया अवसाने अर्जुन उवाच— "नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव"। अनेन मोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन प्राप्तं सर्वशास्त्रार्थज्ञान फलमेतदिति निश्चितं दर्शितं भवति। यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति। तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयद्रन्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः। एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्-

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ।
एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत॥
अष्टादशशतमानस्य चित्रणं कृष्णार्जुनयोः

अत्र शंकरभगवत्पादाः – इत्येतद् गुह्यतमं गोप्यतममत्यन्तरहस्यमित्येतत्। किं तच्छास्त्रम्।

तच्छास्त्रम्। यद्यपि गीताख्यं समस्तं शास्त्रमुच्यते तथाप्यमेवाध्याय इह शास्त्रमित्युच्यते स्तुत्यर्थं प्रकरणात्। सर्वो हि गीताशास्रार्थोयऽस्मिन्नाध्याये समासेनोक्तो न केवलं सर्वश्च वेदार्थ इह परिसमाप्तो यस्तं वेद स वेदवित् वेदैश्च सर्वैरहमेव वेद्यः इति चोक्तम्। इदमुक्तं मया हेऽनघापाप। एतच्छास्रं यथादर्शितार्थं बुदध्वा बुद्धिमान् स्यात् भवेन्नान्यथा। कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन स कृतकृत्यो विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्वविदिते कृतं भवेदित्यर्थः। न चान्यथा कर्त्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते। इति चोक्तम्।

एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा॥

इति च मानवं वचनम्। यत् एतत्प्रमार्थतत्त्वं मत्तः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति”। भाष्यस्योपोद्धाते तदिदं गीतशास्त्रं समस्तवेदार्थ-सारस्ंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणायानेकै विवृतपदार्थवाक्यार्थ-न्यायमत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थ निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि। आचार्याः अस्याः शास्त्रत्वे न विप्रतिपद्यन्ते। आचार्यान्तराणामत्र सम्मतिरेव-

नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितोज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार। ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद्वेदार्थज्ञानाच्च् संसारे क्लिश्यमानानां वेदानधिकारिणं स्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपबृंहितां तदनुक्त केवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्मानवागाह्यरुपां केवलभगवत्स्वरुपपरां परोक्षार्थां महाभारतसंहितामचीक्लृपत।

तच्चोक्तं-

श्रीमद्भगवद्गीतायाः एकोनविंशतितमशतमानस्य मातृकायाः पृष्ठानि
लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्।
वेदार्थसमधीकारार्जितं च स्रियादिकम् ॥१॥
अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्।
ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ॥२॥
अन्यावताररुपैश्च वेदनुक्तार्थभूषितम्।
केवलेनात्मबोधेन दृष्टं वेदार्थ संयुक्तम् ॥३॥
वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्।
भारतं पञ्चरात्रं च मूलरामायणं तथा ॥४॥

पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः- इति नारायणाष्टाक्षरकल्पे॥

ब्रह्माऽपि तन्न जानाति ईषत्सर्वोऽपि जानति।
बह्वर्थमृषयस्तत्तु भारतं प्रवदन्ति हि इत्युपनारदीये ॥५॥

ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह।

यस्मिन् दशर्थाः सर्वत्र न ज्ञेयाः सर्व जंतुभिः ॥६॥

- इति नारदीये
भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम्।
दशावतारार्थं सर्वत्र केवलं विष्णुबोधकम् ॥७॥

परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं च यत् –इति स्कान्दे। तत्र च वासुदेवार्जुन संवादरुपां सर्वभारतार्थसंग्रहां भारतपारिजातमधुभूतां गीतामुपनिवबंध।

तच्चोक्तं-

भारतं सर्वशास्रेषु भारते गीतिका वरा॥

विष्णो सहस्त्रनामापि ज्ञेयं पाठयं च् तद्वयम् “ इति महाकौर्म्ये ”॥

सारथ्यमर्जुनस्यादौ कुर्वन्गीतामृतं ददौ।
लोकत्रयोपकाराय तस्मै कृष्णात्मने नमः ॥४॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने।

सकृद्गीताम्भसि स्नानं संसारमलनाशनम्॥

अकृत्यमपि कुर्वाणो भुञ्जानोऽपि यथा तथा।

कदाचिन्नारकं दुःखं गीताध्यायी न पश्यति।

वेदोदघिप्रमथितं वासुदेव समुदधृतम्।

सन्तः पिवन्ति सततं गीतामृतरसायनम् ॥

एकं शास्रं देवकीपुत्रगीतमेकोदेवो देवकीपुत्र एव।

एको मन्त्रो तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा॥

गीतैव तत्त्वहितायोर्यथावच्छासनात् शास्त्रम्। उपनिषत्समाधिना सिद्धव्यवहारनिरुढेः स्रीलिङ्गनिर्देशः। एतेन शास्त्रान्तरादस्य शास्त्रस्याधिक्यं व्यञ्जितम्। स्वयं च महाभारते महर्षिणोक्तम् –“अत्रोपनिषदं पुण्यं कृष्णद्वैपायनोऽब्रवीत्” (म० भा०, आ० प०, १४. २७९) इति उक्तं चाभियुक्तैः –“ यस्मिन् प्रसादसुमुखे कवयोऽपि ये ते शास्राण्यशासुरिहतन्महिमाश्रयाणि। कृष्णेन तेन यदिह स्वयमेवगीतं शास्त्रस्य तस्य सदृशं किमिवास्ति शास्त्रम्।"

यद्यपि गीताशास्रे शास्त्रपदं श्रुत्यर्थे प्रयुक्तम् –तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ तथापि शास्त्रत्वन्त्वस्याः स्मृतित्वेऽपि न विरुध्यते। प्राय आचार्या स्मृतिनाम्ना गीताश्लोकानुद्धरन्तो दृश्यन्ते वेदार्थसंग्राहकत्त्वान्नास्या श्रुतित्वम। वेदा एव श्रुति पदाभिलाप्या इति गीतायाः स्मृतित्वं शास्त्रत्वं च भगवदुक्तत्वादागमशास्त्रवत्। वर्णाश्रमधर्मप्रतिपादकत्वाच्च मन्वादिवत्। गीताशास्त्रेऽपि वेदवत् प्रवृत्तिनिवृत्तिलक्षणं धर्मद्वयमपि प्रतिपादितम्। तत्रापि भक्ति-ज्ञान-कर्मयोगानामेकत्र समन्वयेनाखिललोककलयाणपरत्व सुलभत्वञ्चाधिगम्यते।

अनुबन्धचतुष्टयवत् शास्त्रमेतदिति विज्ञापितं भवति, सर्वेषामधिकारित्वबोधनात्। शास्त्रस्यास्य सम्बन्धाभिधेयप्रयोजनानि-मोक्ष इति निः श्रेयसप्रयोजनवत्। किं च पुरुषार्थान्तराणामविरोधेन परमप्रयोदनस्यैव मुख्य्त्वात्। स च मोक्षः परमार्थ स्वरुपबोधात् गीताशास्त्रप्रतिपादितात्। परमार्थः परमात्मा, तत्परमात्मस्वरुपावबोधस्यास्य च शास्त्रस्य साध्यसाधनलक्षणः सम्बन्धः इति अधिकारि-प्रयोजनसम्बन्धाभिधेयविशिष्टं गीताशास्त्रम। अत्र शंकरभवगत्पादाः –

इमं द्विप्रकारं धर्म निः श्रेयसम्प्रयोजनं परमार्थतत्त्वञ्च वासुदेवाख्यं परब्रह्मभिधेयं विशेषतः अभिव्यञ्जयत् विशिष्टप्रयोजनसंबन्धाभिधेयवत् गीताशास्त्रम्। यतः तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः।

एवं सकलपुरुषार्थसिद्धये सर्वेषां श्रेयोऽर्थिनां गीताशास्त्रस्य पठनं श्रवणं पाठनं तात्पर्यबोधं विनाऽपि कल्पते इति गीतोक्तं प्रमाणम्। ननु ज्ञानकाण्डात्मिका उपनिषदः यासां सारसंग्रहभूता गीता-

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥

इति कथं समस्तवेदार्थसारसंग्रहात्मिकेति। किञ्च त्रिगुणात्मकत्वात् त्रैगुण्यविषया वेदा निस्त्रैगुण्योभवार्जुन इति चेन्न, काण्डत्रयात्मिकायाः गीतायाः भगवदुक्तत्वादभक्तियोगे कर्मज्ञानयोः समन्वितत्वाच्च। :

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके।

तावानर्थो वेदेषु ब्राह्मणस्य विजानतः॥

इति सार्थक्यं द्विविधधर्मोपदेशस्येति सर्वशास्त्रो पजीव्यत्वेन गीताया सर्वातिशायि महात्म्यम्। उपनिषदस्तावद्रहस्यविद्यात्वेन प्रसिद्धाः गीताशास्त्रं तु गुह्यतममिति तत्रैवावधृतत्वात्। अतः कृतकृत्यता चरितार्थता समग्रस्य जीवनस्य तदा यदा हि गीताशास्त्रमनुसृत्य यथोक्त कर्मयोगमाश्रित्य ज्ञानयोगेन सह भगवद्भक्तियोगेन जीवनस्य परमपुरुषार्थः साधितो भवेत्।

ऐतिहासिकं सैद्धान्तिकं सामाजकञ्च महत्त्वम्

[सम्पादयतु]

पूर्वोक्तदिशा विचार्यमाणे श्रीमदभगवद्गीतायाः शास्त्रत्वं महत्त्वञ्चोपनिषद्दभ्योऽप्यधिकतरं विद्यते इति वक्तुं शक्यते। गुह्यात्गुह्यतरं ततोऽपि गुह्यतमं शास्त्रमिति प्रमाणितं भवति समेषामाचार्याणां वचनैः। यथा गूढार्थदीपिकायामेव-

अतिगम्भीरस्य गीताशास्त्रस्याशेषतः पर्यालोचनक्लेशनिर्वृत्तये कृपया स्वयमेव तस्य सारं संक्षिप्य कथयति – सर्वगुह्यतममिति । पूर्वं हि गुह्यात् – कर्मयोगाद् गुह्यतरं ज्ञानमाख्यातम्, अधुना तु कर्मयोगात्त-फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमम् सर्वतः प्रकृष्टं मे मम वचः – वाक्यं भूय-तत्र तत्रोक्तमपि त्वदनुग्रहार्थ पुनर्वक्ष्यमाणं श्रृणु। अपि च स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः

कृष्णार्जुनयोः कांस्यस्य एका पुत्तली
सर्वकर्माण्यपि सदा कुर्वाणो मदव्यपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥

अत्र मधुसूदनाचार्यः-

यः पूर्वौक्तैः कर्मभिः शुद्धान्तः करणः, सोऽवश्यं भगवदेकशरणो, भगवदेकशरणतापर्यन्तत्वादन्तः करणशुद्धेः। एतादृशश्चेद ब्राह्मणः संन्यासप्रतिबन्धरहितः सर्वकर्माणि संन्यस्यतु नाम, संसारविमोक्षस्तु तस्य भगवदेकशरणस्य भगवत्प्रसादादेव। एतादृशश्चेत्क्षत्रियादिः, संन्यासाधिकारी, स करोतु नाम कर्माणि, किंतु मदव्यपाश्रयः अहं भगवान् वासुदेव एव व्यपाश्रयः शरणं यस्य, स मदेकशरणो मय्यर्पितसर्वात्मभावः संन्यासाधिकारात् सर्वकर्माणिसर्वाणि कर्माणि वर्णाश्रमधर्मरुपाणि लौकिकानि, प्रतिषिद्धानि वा सदा कुर्वाणो मत्प्रसादात् परमेश्वरस्यानुग्रहादवाप्नोति हिरण्यगर्भवन्मद्विज्ञानोत्पत्या शाश्वतं नित्यं पदं वैष्णवमव्ययम्-परिणामित्यर्थः। एतादृशो भगवदेकशरणः करोत्येव न प्रतिषिद्धानि कर्माणि, यदि कुर्यात् तथाऽपिमत्प्रसादात्प्रत्यवायानुत्पत्या मद्विज्ञानेन मोक्षभागभवतीति भगवदेकशरणतास्तुत्यर्थं‘सर्वकर्माणि सर्वदा कुर्वाणोऽपी’ त्यनूद्यते

यस्मान्मदेकशरणतामात्रं मोक्षसाधनम्, न कर्मानुष्ठानम्, कर्मसंन्यासो वा। तस्मात् क्षत्रियस्त्वम्- चेतसा विवेकबुद्धया सर्वकर्माणि-दृष्टादृष्टार्थानि मयीश्वरे संन्यस्य-“यत्करोषियदश्नासी” त्युक्तन्यायेन समर्प्यमत्परः अहं भगवान् वासुदेव एव परः प्रियतमो यस्य स मत्परः सन् बिद्धि योगम्-पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणो मोक्ष-हेतुत्वं सम्पादकमुपाश्रित्य- अनन्यशरणतया स्वीकृत्य मच्चित्तः मयि भगवति वासुदेव एव चित्तं यस्य,न राजनि, कामिन्यादौ वा, स मच्चित्तः सततं भव।

तदेवं प्रमाणितं वेदितव्यं यद् भगवद्गीता कर्मैव पूजा इत्युपदिशति। सर्वेषां मानवानां स्वभानानुकूलं कर्म एव भगवदाराधनरुपेण ग्राह्यमिति हि सिद्धान्तः। जीवननिर्वाहायावश्यकं कर्म सहजं स्वभावनियतं च – नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर॥

ततः कर्मजन्यशुद्धयभावे बहिर्मुखः – इति यस्मात् क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति, अपितु लौकिकवैदिक कर्मानुष्ठानव्यग्र एव तिष्ठति। तस्माद शुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः कस्मात् पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति। हि यस्मात् सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्रएव सन् प्रकृतितो जातैरभिव्यक्तै कार्याकारेण सत्त्वरजस्तमोभिःस्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लैकिकं वैदिकं वा कार्यते। अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः। यतः स्वभाविका गुणाश्चालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः॥ यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ् न भवति। यतः- यो हि विमूढात्मा रागद्वेषादि दूषितान्तः करण औत्सुक्यमात्रेण कर्मेन्द्रयाणि वाक्पाण्यादीनि संयम्य निगृह्य, बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत्। मनसा रागादि प्रेरितेन्द्रियार्थाञ्छब्दादीन नत्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्याभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्चते "त्वं पदार्थविवेकाय संन्यासः सर्वकर्मणाम्। श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत्। इत्यादि धर्म शास्त्रेणा। अत उपपन्नं न च संन्यसनादेवांशुद्धान्तः करणः सिद्धिं समधिगच्छतीति। औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रंकुर्यात्। यस्मात् तु शब्दोऽशुद्धान्तः करण संन्यासिव्यतिरेकार्थः। इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतु शब्दादिविषयासक्तेर्निवर्त्य, मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभि कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन यो विवेकी स इतरस्मानमिथ्याचाराद्विशिष्यते। परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति। हे अर्जुन, आश्चर्यमिदं पश्य यदेकं कर्मेन्द्रियाणि निगृयज्ञानेन्द्रियाणि व्यापारयन् परमपुरुषार्थ् भगभवतीति यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियै-त्वं प्रागननुतिष्ठत शुद्धिहेतुकर्मा नियतं विध्युददेशे फलसम्बन्धशुन्यतया नियतनिमित्तेन कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम्। कस्मादशुद्धान्तः करणेन कर्मैव कर्त्तव्यम् हि यस्मात् अकर्मणोऽकरणात्कर्मैअ ज्यायः प्रशस्यतरम्। न केवलं कर्माभावे तवानतः करणशुद्धिरेव नद्धयेत किन्तु अकर्मणो युद्धादिकर्मर्हितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्व लक्षणेन सिध्येत्। तथा च प्रागुक्तम्। अपि चेत्यन्तः करण शुद्धि समुच्चयार्थः “ कर्मणा बध्यते जन्तुः” इति स्मृतेः। सर्वं कर्मबान्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-यज्ञः परमेश्वरः "यज्ञो वै विष्णुः” इति श्रुतेः। तदाराधनार्थं यत्कर्म क्रियते तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकःअ कर्माधिकारी कर्मबन्धनः कर्मणाबध्यते नत्वीश्वराराधनार्थेन। अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय, त्वं कर्मण्यधिकृतो मुक्तसंगः सन्समाचर सम्यक् श्रद्धादिपुरः सरमाचर॥

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

मानवसमाजस्य श्रेयस्कामेन भगवता वासुदेवेन सनातन वैदिकधर्मद्वयमुपदिशता नानाप्रपञ्चपूर्णे जीवने सार्वजनीनाः समस्याः शास्त्रीयरीत्या समाहिताः। न केवलमर्जुनायापितु सर्वेभ्यः, नकेवलं युद्धविषयेऽपि तु सम्पूर्णजीवनस्य येऽपि कार्याकार्ये तदव्यवस्थार्थं शास्त्रमेव प्रमाणीकृतम्। सरलया भाषया, नादमधुरया, रसात्मिकया पदावल्या, सत्तर्कप्रतिष्ठितया, प्रतिपत्तिबन्ध्यादि दोष रहितया, छ्न्दोमय्या पदसंहत्या सहजौजस्विन्या शैल्या भ्रान्तिशून्यया रुचिपूर्णया भारत्या शिष्टसंस्कृत भाषया सुबोधिन्या सकलार्थबोधनसमर्थया स्वाभाविक्या छन्दोनिबद्धप्रणाल्या कठिनतरं विषयजातं गम्भीरदार्शनिकैविवादास्पदं सतप्रतिपाद्यविषयमपि सुबोधगम्यं सुलभं करोति विराजते चास्याः गीतायाः सर्वविध माहात्म्यं प्रासंगिकता चाद्यत्वेऽपि यथापूर्वम्।

प्राचीनाव्याख्यातारः, आधुनिकव्याख्यातारश्च

[सम्पादयतु]

भगवदगीता सर्वैरेव स्वकीयगुणविशेषैः सम्यकतया प्रतिष्ठिता वैदिकपरम्परायाः सम्प्रदायकृत्सु प्रमुखाचार्येषु भाष्यकारेषु टिकाकारेषु तत्तच्छास्त्रकारेषु च। सा हि वेदान्तप्रस्थानत्रयीनध्ये परिगणिता व्याख्यातृभीश्च व्याख्याता स्वस्वसम्प्रदायसिद्धान्तानुसारेण। तथापि न कृतोपसंहाराऽस्याअर्थगभीरा प्रभूतप्रभावा वाग्धारा। न केवलं भारतेऽपि तु विश्वस्मिन् जगतीतले भाषान्तरेष्वपि विद्वद्वर्यैव्याख्याताऽनूदिता प्रचारिता प्रसारिताऽधिताऽध्यापिता च। नाविदितं कस्यापि प्रबुद्धजनस्यैतस्याः सर्वोत्त्कृष्टं महत्त्वमुपयोगित्वं च। प्राचीनैराचार्यैराधुनिकैश्च विद्वदभिः समानभेव सम्मानिताऽभिनन्दिता परः शतैः प्राचीनैः साम्प्रदायिकैराचार्यैर्यथा स्वपक्षेनीता, व्याख्याता, सादरं परिशीलिता, तथैवं ततोऽप्यधिकतरमद्यतनी मानवता भगवद्गीतोपदेशसापेक्षेति प्रवृत्तिः प्रसृताऽवलोक्यते। अतः विदुषाम्-संख्येयत्वात्, अल्पज्ञत्वाच्चास्माभिरत्र केषाञ्चिदेवाचार्यप्रवराणां नामोल्लेखः संक्षिप्तश्च परिचयोऽत्र दिग्दर्शनत्वेन क्रियते।

कुरुक्षेत्रस्य एकं तालपत्रम्

सर्वप्रथमं श्रीशंकरभगवत्पादाचार्यप्रणीतं भाष्यं ज्येष्ठं पुरोजन्मतया गुणैश्च इति प्रसिद्धम्। एतदभाष्यावलोकनेन विज्ञायते यत् भाष्यान्तरं वृत्त्यन्तरञ्चासीत् पुरा। शांकरभाष्यं तु आनन्दगिरिव्याख्यायुतम्। ततस्तु शांकरसम्प्रदायस्याद्वैतमतानुगामिभिः बहुभिराचार्यैः टीकोपटीकाः विरचिताः। तत्रैव मधुसूदनसरस्वतीयतिवरोऽपि प्रवेशनार्हतीति।

अद्वैतमतेनैता व्याख्याः सर्वा एव् भगवद्गीताया आनुगुण्यं तथा नैव वहन्ति यथाऽन्ये वैष्णवसम्प्रदायाचार्या इति विदुषां विनिर्णयः। मधुसूदनाचार्यास्तु अद्वैतानुसारि व्याख्यानं कुर्वाणाऽपि भगवतधर्मानुसारिणीं व्याख्यां प्रस्तुवन्ति। अद्वैतव्याख्याखण्डनपरा व्याख्याः प्रमुख वैष्णवाचार्यादरीदृश्यन्ते। तत्र प्रमुखाः रामानुजाचार्याः, विशिष्टाद्वैतवेदान्तसम्प्रदाअयप्रतिष्ठापकाः स्वसिद्धान्तानुसारं भागवतधर्ममेव गीतोक्तं याथातथ्येन व्याख्याव्याजेन स्थापयाम्बभूवुः। ततः ताप्तर्यचन्द्रिका श्रीवेङ्कटनाथप्रणीताऽपि वैष्णवधर्मोदबोधिनी।

द्वैतवेदान्तनुसारिणी व्याख्या मध्वाचार्यैः आनन्दतीर्थापराभिधैरर्थगभीरा दुरवगम्या च। तस्या दुरुहार्थावद्योतिनि “प्रमेयदीपिका” जयतिर्थविरचिता विराजते।

वेङ्कटनाथकृता व्याख्या “ब्रह्मानन्दगिर्याख्यान" नामिका माध्व मतं रामानुजमतं मधुसूदनमतञ्च निराकर्तुमुत्सहते।

बल्लभसम्प्रदानुसारिव्याख्या तु "तत्त्वदीपिका” बल्लभलाल्लोल्लासिता, “अमृततरङिगणी” पुरुषोत्तमजीप्रणीतेति टीकाद्वयं विराजते।

सम्पूर्णमहाभारतटीकाकर्तुः नीलकण्ठस्य भावदीपाख्यटीकाऽपि महदुपकारिणी। सापि अद्वैतमतानुसारिणीति।

यामुनमुनिप्रणीतो गीतार्थसंग्रहः सर्वथा भागवतमतं निर्वहति।

पैशाचभाष्यमपि केनापि शापवशात् गीताश्रवणापराधकुपितस्य भगवतः अवाप्तपिशाच भावेन हनूमताऽन्येनार्वाचीनेन हनूमन्नाम्ना वा विदुषा कृतम्।

एतदतिरिक्ता अपि सामञ्जस्येन दर्शनशास्त्रीयविषयप्रतिपादनपराः व्याख्या उपलभ्यन्ते। तथाहि श्रीधरीयसुबोधिनी” प्रायोऽद्वैतमतं प्रतिपादयति। यत्र कुत्रापि शंकरमताद्भिद्यते च। अपरा टीका “भाष्योत्कर्षदीपिका खलु सर्वतोभावेन शांकरभाष्यार्थमेवाविष्करोति, स्वतन्त्रव्याख्यां च प्रस्तौति निराकरोति च सामान्यतः नीलकण्ठीयव्याख्यां, श्रीधरीव्याख्यां अभिनवगुप्तव्याख्यां च, विशेषतस्तु मधुसूदनसरस्वतीस्वमिकृतां गूढार्थदीपिकां निरस्य “भाष्यविरुद्धमेतदि” ति स्वस्वानादरं प्रकटयति। श्रीमदभिनवगुप्तपादाचार्याणामन्या लधुकायाऽपि निर्भिन्नार्थिका शैवमतोपस्थापिका चेति प्रतीयते।

एतदुक्तं भवति समस्तटीकानां सम्यगेवेक्षणेनेति यत् सर्वा अपि यास्सन्तीति टिकात्वेन भाष्यत्वेन प्रसिद्धास्ता सर्वा अपि नैकैकशः स्वातन्त्रयेण सम्भूय वा भागवादाशयं गीतावचननिगूढं प्रकाशयितुं पर्याप्ता इति। यतो हि पराचीनानां नवीनानां व्याख्यानानामावश्यकता मनुभवन्त आचार्या आधुनिका विद्वांसोऽपि स्वमतोपन्यासे स्वतन्त्राः सन्तोऽपि गीतोक्तिमनुरुन्धन्तोऽपि स्वपक्षस्थापने प्राचुर्येण प्रमाणमुपनस्यान्तोऽपि वैदिक परम्परा पद्धतिं न जहति। महच्चित्रमिदं यत्सर्वेषां मतोद्वलकानि वचनानि समुपलभ्यन्ते। स्वस्वमतोपस्थाने परमतप्रत्याख्यानं वा समाना प्रवृत्तिः सर्वेषाम्। वस्तुगत्या भगवदाशय प्रकाशनपरा निष्पक्ष वेदोदित सिद्धान्त प्रतिपादनपरा व्याख्यातारः विरला एव। भगवद्गीताया उपदेशबलेन भगवान् वासुदेवः रहस्यजातं सुबोधभाषया समन्वयपद्धत्या प्रकाशितवन्तः यतः सम्प्रदायानां पृथक् पृथकपरम्पराः राशीकृत्यैकत्र सम्प्रदाये वैदिकसम्प्रदाये शाश्वतात्मवादे सामञ्जस्येन संकलय्य न केवलमेकनिष्ठता मानीता भगवताऽपितु सर्वोपादेयतां सर्वजीवनोपयोगयोग्यतां प्रयोगार्हतां च प्रापिताः। तत्र प्राचीनाः प्रस्थानभेदाः वेद- सांख्ययोगपाञ्चरात्रपाशुपतप्रभृतयः वैदिकापरम्परायामेकीभवन्ति पूर्णतां प्राप्नुवन्ति एतां समन्वययात्मिकां दृष्टिं भगवतोऽनालोच्यानाश्रित्य को नाम व्याख्याता भगवदाशयं प्रकाशयितुं प्रभवेत्। सर्वथा भागवतमतमात्रप्रतिपादनपरायण एव तथा कर्तुं क्षमा याननुगृहणाति भगवान।

गीतोपदेशः

एतामनन्तरोदित दृष्टिमवलम्ब्यालोच्यमाने सर्वा अपि शास्त्रीयाः टीकाः प्रामाण्यं भजन्त एव, किन्तु न पूर्णतया सामस्त्येन् वा। दार्शनिकविषये भवतु नाम भेदो मतमतान्तरं विलसतु नाम, तथापिधर्मसम्मतजीवनं यापयितुं, पुरुषार्थसिद्धयं दर्शनानामुपयोगं कर्तुम, आत्मोन्नतये परमपुरुषार्थावाप्तये, विश्वासं द्रढयितुं, परमार्थसत्तायामसंभावनाविपरीतभावनामपाकर्तुं भगवदाराधनामात्मोपासनां सफलां कर्तुं दार्शनिकमतभेदाः कथमपि साहाय्यं नाचरन्ति। कर्मनिष्ठा-ज्ञाननिष्ठा-भक्तिनिष्ठाः गीतोक्तदिशैव तत्र साधनत्वेनसमर्थाः भवन्ति। एवं विधो भगवतो वासुदेवस्य विष्कृष्टोऽभिप्रायो भवितुमर्हति।

आधुनिकास्तु केचित् कर्मनिष्ठाप्रधानां व्याख्यां कुर्वन्ति, केचित्तु ज्ञाननिष्ठाप्रधानां, केचिच्च पुनः भक्तिनिष्ठाप्रधानामेव। तिलककृत "गीतारहस्यं” सुप्रसिद्धं महदुपकारि च। गांधीविरचिता टीकापि सामाजिकं महत्त्वमावहति। मतमेतदन्येऽप्याधुनिकाः आधुनिकदृष्टया पुष्णन्ति। सन्ति च विद्वांसो बहवोऽरविन्द्रप्रभृतयो येऽखण्डयोगप्रतिपादकाः सन्ति वैदिकात्मब्रह्मैक्यप्रतिपादनपरायणा अपि गीतोक्तिमाश्रित्य यथेष्टं दर्शनान्तरं प्रख्यापयन्ति। स्वतन्त्रदर्शनप्रतिपादनपरत्वात्तेषां तु न काऽप्यनुपपत्तिः।

पूर्वापरसकलटीकासु प्रयुक्तां पद्धतिं तदनुरोधेनार्थाविष्करणाय स्वस्वम्प्रदायविशेषानुरोधेन च सिद्धान्तजातं पर्यालोच्यास्माकं मतेनेदं वक्तुं पार्यते यत् यतिवरो मधुसूदनसरस्वतीमहाभागो प्रशास्यतरो व्याख्याता। यतो हि भगावदगीतायाः या समन्वयात्मिकादृष्टिः स तामेवावलम्बते संगृहणाति च सर्वान् स्वोत्प्रेक्षाबलेन व्याख्याति स्वातन्त्रयेण। अतोऽधिकांशतः श्रद्धेयो व्याख्यातेति निष्पक्षपाततो वक्तुमुचितम्।

यः उपनिषदां आत्मविचारः साङ्ख्यानां ज्ञनविचारः तथा सृष्टिक्रमः, उपासनाविवरणम् भगवद्विचाराः एतत् सर्वमपि बोधयति स एव भगवद्गीता। येभ्यः वेदाध्ययनाधिकारः नास्ति तेभ्यः अपि वेदान्तस्य तथा धर्मस्य सारं पाठयति एषा भगवद्गीता। व्यासरचितं महाभारतमेव गीतायाः स्रोतः। भगवद्गीतयाः प्रस्थानत्रये द्वितीयं स्थानं दत्तं वर्तते। परमज्ञानं, परिशुद्धभक्तिः, निष्कामकर्मणः एतेषां त्रयाणामपि मोक्षसाधकत्वं वर्तते इति भगवद्गीता अभिपैति। गीतायाः उपरि अचार्यत्रयाणां भाष्यं वर्तते। आधुनिकाः अपि बालगङ्गाधरतिलकः, मदनमोहनमालवीयः,महात्मा गान्धिः, अरविन्द घोष इत्यादयः गीतायाः माहात्म्यं मुक्तकण्ठेन श्लाघितवन्तः। गीतायाः उपरि एतेषां व्याख्यानं अपि उपलभ्यते। एतस्याः काव्यशैली, आध्यात्मिकाकर्षणात् जगति सर्वेपि प्रभाविताः अभूवन् इति कारणादेव सर्वासु भाषासु अद्य अनूदिता वर्तते। त्रयाः आचार्याः तेषां सिद्धान्तानुसारं गीतायाः भाष्यं रचितवन्तः।

श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन अर्जुनाय ये उपदेशाः प्रदत्ताः, तेषां दिशा सुस्पष्टाऽस्ति। तत्र आचारमीमांसा विशेषेण प्रतिपादिता लक्ष्यते। श्रीमद्भगवद्गीता योगशास्त्रमप्यस्ति। अत्र योगशब्दः आचारव्यवहारयोरर्थे प्रयुक्तोऽस्ति। प्रत्येकम् अध्यायस्य पुष्पिकायां “ब्रह्मविद्यायां योगशास्त्रे” इत्युल्लेखेन विज्ञायते यद्गीतायाः मुख्यं प्रतिपाद्यं ब्रह्मविद्यायां प्रतिष्ठितस्य व्यवहारस्य प्रतिपादनमस्ति।

अध्यात्मविवेचनमपि श्रीमद्भगवद्गीतायां सरलं स्प्ष्टञ्चास्ति। अध्यात्मक्षेत्रस्य सर्वेषां सिद्धान्तानां समन्वयं कृत्वा एकस्य निश्चितस्य सिद्धान्तस्य स्थापनायाः कार्यं कठिनं भवति, अतो भगवता शङ्करपादेन कथितम् –“तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयम्”। श्रीमद्भगवद्गीतायां यानि दार्शनिकतत्त्वानि विवेचितानि, तान्येवं प्रकारेणोल्लेखनीयानि सन्ति।

कृष्णस्य विश्वरूपदर्शनम् (कुरुक्षेत्रे)

ब्रह्मनिरुपणम्

[सम्पादयतु]

श्रीमद्भगवद्गीतायां ब्रह्मणः सगुण- निर्गुण-स्वरुपयोरभिन्नतायाः प्रतिपादनं कृतम् । गीताया अधोलिखितश्लोक एतदर्थम् उदाहर्त्तुं शक्यते –

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥

गीतोक्तम्तानुसारेण ब्रह्मैव इन्द्रियवृत्तिभिः लैकिकविषयाणाम् उपलब्धौ समर्थं भवति। अन्तरिन्द्रियाणां बहिरिन्द्रियाणां च व्यापारैः प्रतिभासितम् अपि दृश्यते। अथ च तत् स्वयं सर्वेन्द्रियेभ्यो विहीनं, सर्वविधदेहादिसम्बन्धेभ्यो रहितञ्च वर्तते। तत् अखिलं जगत् आदधाति तत्र निर्गुणमस्ति तथापि गुणानां भोक्ताऽस्ति। सत्त्वादिगुणानां परिणामभूतानां शब्दस्पर्शरुपादिविषयाणाम् उपभोक्ताऽपि भवति। तत् सत् अस्ति असच्चाप्यस्ति। उभयोः परेऽस्ति। तद् भूतानां बहिरन्तश्च विद्यते। तच्चरम् अचरं दूरस्थम् अन्तिकस्थं चास्ति।

ब्रह्मणः सन्दर्भे उक्तप्रतिपादने विरोधो नास्ति, यतोहि देश –काल- निमित्तादिभिः उपाधिभिः रहितं तत् सर्वेषां विरोधानाम् अन्तोऽस्ति। इदमेव विचारशास्त्रस्य गूढसिद्धान्तोऽस्ति। ब्रह्मैव जगतः उत्पत्तिर्लयश्चास्ति। तदेव सर्वेषु प्राणिशरीरेषु तिष्ठति। गीतायां ब्रह्मणि तयोर्भावयोः सत्ता प्रतिपादिताऽस्ति अर्थात् ब्रह्मणो द्वौ भावौ स्तः- अपरभावः परभावश्च। अंशमात्रेण ब्रह्म योगमायया युक्तं भवति। तेनैवांशेन च तद् जगति अभिव्यक्तं भवति। ब्रह्म केवलं जगन्मात्रं नास्ति। तत्तुजगद् अतिक्रम्यापि वर्तते। तथापि जगतः प्रत्येकस्मिन् पदार्थे प्राणिनि च तस्यांश एव भासते।

प्रकृतिनिरुपणम्

[सम्पादयतु]

श्रीमद्भगवद्गीतायाम् ईश्वरस्य प्रकृतिद्वयं वर्णितम् अस्ति। गीतोक्तानुसारेणा जडा प्रकृतिः चेतनः पुरुषश्चेति तत्त्वद्वयं सांख्यशास्त्रे अभिमतम्स्ति किन्तु तयोरतिरिक्तं परमतत्त्वमेव सर्वव्यापकम् अव्यक्तम् अमृतं चास्ति, येन चराचरमिदं जगत् उत्पद्यते। प्रकृतिपुरुषौ तु तस्यैव परमतत्त्वस्य व्यापकस्य ब्रह्मणो वा विभूतिमात्रस्वरुपौ भवतः। परमतत्त्वस्यैव आयत्ता प्रकृतिर्द्विधा वर्तते-अपरा प्रकृतिः, परा प्रकृतिश्चेति। अपरा प्रकृतिरेव क्षेत्रनाम्ना अथवा क्षरपुरुषसंज्ञया व्यवह्रियते। एवमेव परा प्रकृतिरपि क्षेत्रज्ञनाम्ना अथवा अक्षरपुरुष- संज्ञया विज्ञायते।

परा प्रकृतिः जीवरुपा विद्यते, किन्तु अपरा प्रकृतिः जीवेतर-पदार्थरुपा वर्तते। सर्वेषां भौतिकपदार्थानां ग्रहणं क्षरपुरुषरुपेण कृतम्। अपरा –प्रकृतेरष्टौ भेदा गीतायां प्रतिपादिताः पृथ्वी, जलं, तेजः, वायुः आकाशः, मनः बुद्धिः अहङ्कारश्च। क्षेत्रस्य चतुर्विंशतिभेदानां प्रतिपादनमपि गीतायां विहितम् तद्यथा –पञ्चमहाभूतानि, अहङ्कारः, बुद्धिः, अव्यक्तप्रकृतिः, पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनः पञ्च तन्मात्राश्चेति। एषां चतुर्विंशतितत्त्वानामन्तर्भाव एव अपराख्यायां प्रकृतौ भवति। इच्छा –द्वेष- सुख-दुःखसंघात चेतना –धृति –प्रभृतयस्तु क्षेत्रविकारा विद्यन्ते।

जीवतत्त्वनिरुपणम् (आत्मतत्त्वनिरूपणम्)

[सम्पादयतु]

जीवः चैतन्यात्मकोऽस्ति, अतः परमेश्वरस्य पराप्रकृतिरुपाः उत्कृष्टा विभूतिश्च वर्तते। जीव एव क्षेत्रज्ञोऽस्ति कृतकर्मणां फलभोगाय भोगायतनमिदं शरीरं क्षेत्रं भवति। क्षेत्रस्य ज्ञाता क्षेत्रज्ञ आत्माऽस्ति। क्षेत्रज्ञस्य आत्मनो वर्णनं गीतायां विस्तरेण विहितम्। आत्मा षड्विकारेभ्यो रहितोऽस्ति। स न कदापि उत्पद्यते, न म्रियते स सत्तात्मकोऽनुभूयते। तस्य कदाप्यभावो न भवति।

जीवशरीरस्थोऽपि आत्मा अजन्मा, नित्यः, शाश्वतः, पुरातनश्च वर्तते। पुरातनोऽपि स नूतन एवास्ति। विनाशशीले प्राणिशरीरे विद्यमानस्यापि तस्य विनाशो न भवति। आत्मा स्वयं जीवशरीरस्य वरणं करोति, अस्योल्लेखः गीतायां निम्नप्रकारेण कृतम् –

वासांसि जीर्णानि यथा विहाय नवानि गृह्वातिनरोऽपराणि।
तथा शरीराणि विहाय] जीर्णान्यानि संयाति नवानि देही॥

आत्मा स्वयं अविकारी अस्ति किन्तु जीवशरीरं विकाररुपं विद्यते। यदा जीवः प्रारब्धकर्मणां फलभोगं कृत्वा निवर्तते तदा अन्यशरीरस्य प्राप्त्यर्थं आत्मानं प्रेरयति। फलतः आत्मा पूर्वशरीरं परित्यज्य अपरं जीवशरीरं गृह्णाति। एवञ्चेदम् आत्मा सर्वव्यापी, स्थिरः अचलः, सनातनश्चास्ति।

अर्जुनः कृष्णस्य सैन्यं तिरस्कृत्य तमेव तस्य रथस्य सारथ्यार्थं प्रार्थयन् अस्ति

जीव आत्मना सम्पृक्तो भवति, अतः यथा एक एव आत्मा सर्वेषु शरीररेषु विद्यते तथैव जीवोऽपि एक एव सर्वेषु शरीरेषु विद्यमानोऽस्ति। जीवस्य नानात्वं गीतायां सम्मतं नास्ति। तत्र लिखितम्स्ति –यथा एक एव सूर्यः सम्पूर्णं जगत् प्रकाशयति तथैव क्षेत्रज्ञः एकोऽपि सर्वाणि क्षेत्राणि भासयति। जीवः ईस्वरस्य सनातनः अंशो विद्यते। उक्तं च गीतायाम् –ममैवांशो जीवलोके जीवभूतः सनातनः”।

जगत्तत्वनिरुपणम्

[सम्पादयतु]

पुरुषोत्तम्तत्त्वनिरुपणम् (६)ज्ञानयोगः (७) कर्मयोगः (८) ध्यानयोगः (९) भक्तियोगश्च ।

जगतः उत्पत्तिः स्थितिः लयश्चेति त्रयो विकारा ईशरादेव जायन्ते। ईश्वरः सर्वेषां प्राणिनां सनातनम् अविनाशि च बीजमस्ति। यथा बीजाद् वृक्षः उद्भवति, अन्ते च वृक्षो बीजे एव लीनो भवति, तथा इदं जगत् भगवतः उत्पद्यते, अन्ते च भगवत्येव विलीयते। जगतः अवान्तर-आविर्भावस्य कालः ब्रह्मणो दिनमुच्यते, अवान्तर-तिरोभावस्य कालश्च ब्रह्मणो रात्रिः कथ्यते।

गीतोक्तम्तानुसारेण प्रकृतेरध्यक्षः ईश्वरोऽस्ति। ईश्वरस्य अध्यक्षतायां प्रकृतिः जगत् उत्पादयति। उक्तं च –

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥

सर्वेषां चराचराणां प्राणिनां पदार्थानाञ्च उत्पत्तिस्थानं महद ब्रह्मास्ति। स एव जगद्बीजस्य विधाताऽस्ति। प्रकृतिः विश्वस्य मातृस्थानीया वर्तते, ईश्वरः पितृस्थानीयोऽस्ति। एवञ्चेत् प्रकृतेः स्थानं ईश्वरात् न्यूनमस्ति। जगदुत्पत्तिसन्दर्भे गीता सत्कार्यवादस्य समर्थनं करोति –

नासतो विद्यते भावो नाभावो विद्यते सतः

एवं श्रीमद्भगवद्गीतायाः विवेचनानुसारं इदं जगत् मायिकं काल्पनिकं वा नास्ति, अपितु सर्वथा सत्यं वास्तविकञ्च वर्तते।

अध: भगवद्गीतायाः अध्यायसूची प्रदत्ता वर्तते ।

भगवद्गीता साङ्ख्यदर्शनं च ।

[सम्पादयतु]

भगवद्गीतायां नैके साङ्ख्यविचारा: सन्ति। साङ्ख्यदर्शनस्य मुख्यग्रन्थ: साङ्ख्यकारिका। तेन सह भगवद्गीताया: तुलना कृता चेदिमानि साम्यस्थलानि लभ्यन्ते।

भगवद्गीता साङ्ख्यकारिका च

क्र. साङ्ख्यकारिका भगवद्गीता
०१ दृष्टवदानुश्रविक: स ह्यविशुद्धितिक्षयातिशययुक्त: ... । २ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। ९.२१ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण:।
०२ असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्।शक्तस्य शक्यकरणात्कारणभावाच्च सत् कार्यम्। ९ नासतो विद्यते भावो नाभावो विद्यते सत:। २.१६
०३ त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्। ११ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। २.२५
०४ तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृति:॥ ६२ प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥ ३.२७
०५ तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृति:॥ ६२ तत्त्ववित्तु महाबाहो गुणकर्म-विभागयो:।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते। ३.२८
०६ असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्।शक्तस्य शक्यकरणात्कारणभावाच्च सत् कार्यम्। ९ अव्यक्ताद्व्यक्तय: सर्वा: प्रभवन्त्य-हरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवा-व्यक्तसंज्ञके॥ ८.१८
०७ विपरीतस्तथा पुमान्। ११ ६२,एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥ ६४ परस्तस्मात्तु भावोन्योऽव्यक्तोऽव्यक्ता-त्सनातन:। य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ ८.२० अव्यक्तोऽक्षर इत्याहुस्तामाहु: परमां गतिम्। ८.२१
०८ विपरीतस्तथा पुमान्। ११ ६२, न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु॥ ९.९
०९ तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन:॥ ...। २० मयाध्यक्षेण प्रकृति: सूयते सचराचरम्। ९.१०
१० प्रकृतेर्महान्... २२ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा:। १३.५
११ गुणकर्तृत्वे ... २० विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्। १३.१९
१२ कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च। १९ पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते॥ १३.२०
१३ पुरुषोस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च। १७ पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। १३.२१
१४ उभयोरपि संयोगस्तत्कृत: सर्ग:। २१ कारणं गुणसङ्गोऽस्य सदस-द्योनिजन्मसु॥ १३.२१
१५ न केनचित्कार्यते करणम्। ३१ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश:। १३.२९
१६ विपरीतस्तथा पुमान्। ११ ६२,एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥ ६४ य: पश्यति तथात्मानमकर्तारं स पश्यति॥ १३.२९
१७ प्रीत्यप्रीति... १२,१३ सत्वं रजस्तम इति ...संजयत्युत॥ १४.५-९
१८ अन्योन्याभिभव...गुणा:। १३ रजस्तमश्चाभिभूय सत्त्वं भवति भारत।रज: सत्वं तमश्चैव तम: सत्त्वं रजस्तथा।१४.१०।
१९ तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष:। लिङ्गस्याविनिवृत्तेस्तस्माद्दु:खं स्वभावेन॥ ५५ गुणानेतानतीत्य त्रीन देही देहसमुद्भवान्। जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्नुते॥ १४.२०
२० प्रवर्तते त्रिगुणत:। १६ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन:।सत्त्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै:। १८.४०
२१ ऊर्ध्वं सत्वविशलस्तमोविशलश्च मूलत: सर्ग:।मध्ये रजोविशलो ब्रह्मादिस्तम्बपर्यन्त:॥ ५४ ऊर्ध्वं गच्छन्ति...

भगवद्गीता भागवतं च।

[सम्पादयतु]

गीताविस्तारो भागवतम्’इति उक्ति: प्रसिद्धा। अनया दृष्ट्या उभौ ग्रन्थौ यदा अवलोकितौ, तदा कतिचन साम्यस्थलानि दृष्टानि। तानि दृष्ट्वा उपरितना उक्ति: यथार्था अस्ति इति निश्चय: भवति। एतानि तानि साम्यस्थलानि-

१) मृत्यो: अपरिहार्यत्वम्। भीष्मादिकानां मृत्युविषये शोक: न उचित:’ इति कृष्ण: गीतायां प्रतिपादयति। तदर्थं स: कारणं वदति - जातस्य हि ध्रुवो मृत्यु:। भ.गी. २.२७

एतद् एव तथ्यं भागवते एवं प्रतिपादितम् - मृत्युर्जन्मवतां वीर, देहेन सह जायते। अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव:॥ भाग

२) कृष्ण: परब्रह्मस्वरूप: । गीतायाम् अर्जुन: श्रीकृष्णस्य स्तुतिं करोति -

परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।। १०.१२ ,१३

भागवते तु कृष्णजन्मन: पूर्वम् एव ब्रह्मदेव: सर्वान् देवान् भविष्यद्वृत्तं ज्ञापयति - वसुदेवगृहे साक्षाद् भगवान्पुरुष: पर:। जनिष्यते . . .॥ भाग १०.१.२३

कृष्णजन्मन: समनन्तरं वसुदेव: कृष्णम् उद्दिश्य वदति -

विदितोऽसि भवान्साक्षात्पुरुष: प्रकृते: पर:। भाग १०.१.२३

३) दिव्यं जन्म श्रीकृष्ण: अर्जुनाय गीतायां स्वस्य जन्म दिव्यम् अस्ति इति वदति -जन्म कर्म च मे दिव्यम्। भ.गी.४.९

एतद् दिव्यं जन्म कथं भवति इति वर्णनं भागवते प्राप्यते - देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय:। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कल:। तद्द्भुतं बालकमम्बुजेक्षणम् . . .। भाग १०.३ . ८ ,९ ,११

४) सर्वधर्मपरित्याग:

गीतायां भगवान् अर्जुनाय उपदिशति -सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:।। भ.गी.१८.६६

अत्र सर्वधर्माणां त्याग: विहित:। सर्वधर्मेषु कस्य कस्य अन्तर्भाव: भवति इति भागवतं पठित्वा ज्ञायते।तत्र कृष्ण: उद्धवाय उपदिशति तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च। मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।यदि सर्वात्मभावेन मया स्या: ह्यकुतोभय:। भाग ११.१२.१५

५) भक्ति-प्राधान्यम् गीतायां विश्वरूपदर्शनानन्तरं भगवान् वदति -

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां च यथा। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप॥ भ.गी.११.५३ ,५४

अत्र सर्वेषु साधनेषु भक्ते: प्राधान्यम् उक्तम्। किं बहुना वेदादिकानि अन्यानि साधनानि मम प्राप्त्यर्थम् असमर्थानि, भक्ति: एका समर्था इति भगवत: आशय:। तथापि एतस्माद् वचनात् पूर्वं साधनानां तारतम्यविषये अर्जुनस्य प्रश्न: नास्ति।

भागवते उद्धवमुखेन एष: प्रश्न: साक्षाद् वाचित:। ‘हे कृष्ण, ब्रह्मवादिन: नाना साधनानि वदन्ति। तत्र विकल्प: अस्ति अथवा मुख्यगौणभाव: अस्ति?’ (भाग. ११.१४.१ ) अनन्तरम् एतद् एव उत्तरं भववता दत्तम्-

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव। न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता॥ भक्त्याहमेकया ग्राह्य: श्रद्धयात्मा प्रिय:सताम्। भक्ति:पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्। भाग ११.१४.२१ ,२२

६) कृष्णमनस्कता कृष्णप्राप्ति: च। गीतायाम् अन्तत:भगवान् अर्जुनम् उपदिशति - मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे॥ भ.गी.१८.६५

अत्र मन्मना भव इति साधनम् उपदिष्टम्। तस्य फलं मामेवैष्यसि इति कथितम्।भागवते एतस्य साक्षात् निदर्शनं दृश्यते। यदा कृष्ण: न दृष्ट: तदा गोप्य: ह्ताशा: जाता:। ता: स्वगृहं प्रति निवृत्ता:। तदानीं तासां स्थिति: भागवते वर्णिता-

तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका:। तद्गुणानेव च गायन्त्यो नात्मागाराणि सस्मरु:। भाग १०.३०.४४

स्वगृहं विस्मृतवत्य: गोप्य: पुन: यमुनापुलिनम् आगता:!मन्मना भव तथा मामेवैष्यसि इति एतयो: फल-साधनसम्बन्ध: व्यासेन गोपीवृत्तेन साक्षात् दर्शित:।गीतोक्तसिद्धान्तस्य एतावद् मनोहरम् उदाहरणम् अन्यत्र न स्यात् !

७) भक्तरक्षणव्रतम्

गीतायां भगवान् अर्जुनाय प्रतिशृणोति - कौंतेय प्रतिजानीहि न मे भक्त: प्रणश्यति।भ.गी.९.१६

भागवते एषा प्रतिज्ञा एवम् - तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम्। गोपाये स्वात्मयोगेन इति मे व्रत आहित:। भाग ?

८) भक्तिमार्गे सामग्र्या: गौणत्वम्

गीतायां श्रीकृष्ण: व्याहरति - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं। भक्त्युपहृतमश्नामि प्रयतात्मन:।। भ.गी.९.१६

तत्र भागवते श्रीकृष्ण: एतद् एव वचनं दरिद्राय सुदाम्ने श्रावयति -पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मन:।। भाग १०.८१.४

९) नवद्वारं पुरम्

गीतायां देह्स्य कृते अयं शब्दप्रयोग: कृत:-सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन्न कारयन्। भ.गी.५. १३

एतस्य नवद्वार-पुरस्य विवरण तु गीतायां न लभ्यते। तद् विवरणं भागवते लभ्यते -नवद्वारं पुरम्। अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति। भाग ४. २९. ८

एतेषां नवानां द्वाराणां दिग्विभाग: अपि तत्र एव दत्त:- अक्षिणी नासिके आस्यमिति पञ्च पुर: कृता:। दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत:। पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते। भाग ४. २९. ९

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]
  • (मूलश्लोकाः)
  • भगवद्गीता
"https://sa.wikipedia.org/w/index.php?title=भगवद्गीता&oldid=477553" इत्यस्माद् प्रतिप्राप्तम्