नागेशभट्टः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


प्रास्ताविकम्[सम्पादयतु]

महाभाष्ये तत्र तत्र "आचार्यप्रवृत्तिर्ज्ञापयति" इत्यादीनि बहूनि वाक्यानि दृश्यन्ते । सूत्रस्थेन लिङ्गेन यानि वचनानि ज्ञापितानि भवन्ति तानि तत्र सूचितानि वर्तन्ते । एतादृशवचनानि द्विप्रकाराणि भवन्ति, परिभाषारूपाणि परिभाषेतरणि च इति । परिभाषारूपाणि पाणिनीयात् व्याकरणात् प्राचीनेष्वपि व्याकरणेषु वचनरूपेण पठितानि, पाणिनिना च ’अष्टाध्याय्याम्’ अङ्गीकृतानि । यदुक्तं परिभाषेन्दुशेखरे-

"प्राचीनव्याकरणतन्त्रे वाचनिकानि, अत्र पाणिनीयतन्त्रे ज्ञापकन्यायसिद्धानि, भाष्यवार्तिकयोरुपनिबद्धानि यानि परिभाषारूपाणि तानि व्याख्यायन्ते" इति ।

एवं च पूर्वम् सीरदेवः परिभाषावृत्तिनामकं ग्रन्थं निरमात् । परम् "नागेशः" परिभाषेन्दुशेखरं निरचिनोत् । एवमेव नागेशभट्टः (Nageshbhatta) नामा कश्चन वैय्याकरणः ज्ञापकसङ्ग्रहनामानं व्याकरणग्रन्थं रचितवान् । परिभाषेन्दुशेखरस्य कर्ता नागेशनामा अन्यः ।

ज्ञापकसङ्ग्रहः[सम्पादयतु]

१९७२ तमे वर्षे "तिरुपतिकेन्द्रीयसंस्कृतविद्यापीठे" प्रकाशितोऽयं ग्रन्थः । तत्रस्थपूर्वपीठिकया ज्ञायते यत्- पूर्वं आन्ध्रलिप्याम् अयं ग्रन्थः प्रकाशित आसीत् इति । अस्य ग्रन्थस्य केन्द्रीयसंस्कृतविद्यापीठस्य भूतपूर्वैः प्रांशुपालैः श्रीमद्भिः एन्.एस्.रामानुजताताचार्यमहोदयैः कृता "विवृति" नामिका व्याख्यापि समुपलभ्यते । अस्मिन् ग्रन्थे "व्याकरणमहाभाष्यकारेण तत्र तत्र ज्ञापकसिद्धानि वचनानि उपन्यस्य, तेषु कानिचित् नैतदस्ति ज्ञापकम् इत्यादिभीः खण्डितानि सन्ति । तानि परित्यज्य केवलं भाष्यसम्मतान्येव परिगण्यन्ते" । भाष्ये अनादृतानि कानिचिद्वचनानि सिद्धान्तकौमुद्यादिषु ग्रन्थेषु दृश्यन्ते । तादृशानि अत्र परित्यक्तानि । अस्य ग्रन्थस्य "ज्ञापकसङ्ग्रहः" इति नाम कर्तृणा विहितं वा अन्येन वा? इति न ज्ञायते । ज्ञापकानां सूत्राणां सङ्ग्रहः इति नाम्नः अर्थः । अत्र अष्टध्यायीक्रमेणैव सङ्कलनम् दृश्यते । भाष्ये यस्यस्ूत्रस्य यद्वचनं पठितम्, तत्सूत्रं प्रतीकरूपेण ध्रुत्वा ततः ज्ञापकपूर्वकं वचनम् उपन्यस्यत इति इति शैली अत्र ग्रन्थे समादृता ।

कर्तृत्वविषये सिद्धान्तः[सम्पादयतु]

भाष्यवार्तिकयोः अनुक्तानि, अन्येन केनाऽपि ज्ञापकसिद्धत्वेन कल्पितानि वचनानि अनादेयानीति परिभाषेन्दुशेखराचार्यः "नागेशः" स्वग्रन्थे वदति यथा- भाष्यवार्तिकयोरुपनिबद्धानि इति । अस्मिन् ’ज्ञापकसङ्ग्रहे’ऽपि निबद्धानि सर्वाणि वचनानि भाष्ये उक्तान्येव विद्यन्ते । भाष्येऽनुक्तम्, सिद्धान्तकौमुद्यादौ उक्तम् किमपि वचनमत्र न विन्यस्तम् । एतेन ज्ञायते यत्, एषः ’ज्ञापकसङ्ग्रहः’ अपि नागेशविरचित एव स्यादिति । एतदतिरिच्य अस्य ग्रन्थस्य नागेशकर्तृत्वे किमपि प्रमाणं न लभ्यते ।

उदाहरणानि[सम्पादयतु]

अइउण्। १। अकारो विवृत उपदिष्टः प्रक्रियादशायां च इत्यत्र ’अ अ’ (८-४-६८) इति प्रत्यापत्तिवचनम् ज्ञापकम्
(ज्ञा.) ऋलृक्॥२॥ प्रकृतिव्दनुकरणं भवति । ’क्षियः’ (६-४-५९) इत्यादावियङनिर्देशात्

"https://sa.wikipedia.org/w/index.php?title=नागेशभट्टः&oldid=373539" इत्यस्माद् पुनः प्राप्तिः