सामग्री पर जाएँ

वैदिकी संस्कृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैदिकसंस्कृत्याः ज्ञानं वैदिकवाङ्गमयस्य परिशीलने सति भवति। वैदिकसंस्कृतेः विषयेषु वैदिकयुगस्य भौगोलिकी स्थितिः, अार्याणां निवासस्थलानि, दस्युपणिप्रभृतीनां विवरणं, सामाजिकमार्थिक-राजनैतिक-धार्मिक-जीवनमित्यादिकाः सर्वेऽपि विषयाः अन्तर्भवन्ति। आदिभारतीयाः भानु-शशि-व्योम-भूमिप्रभृतितत्त्वानां ज्ञानं सम्यक्तया निदधन्ति स्म । ते समुद्रनदी-पर्वत-वनादीनामुपादेयतां सर्वाङ्गीणतया विदन्ति स्म । ते दीर्घदीर्घतरां समुद्रयात्रां कुर्वन्ति स्म । तेषां सविधे महान्ति महान्ति जलयानानि आसन्, तैः ते सामुद्रिको व्यापारञ्चकूः।[]

विश्वस्य प्राचीनतमा संस्कृतिः वैदिकसंस्कृतिः वर्तते । जीवनस्य अन्तरङ्गं स्वरूपं संस्कृतिः एव प्रकाशयति। संस्कृतिशब्देन चिन्तनम्, मननम्, मनोवैज्ञानिक-अन्वेषणम्, दार्शनिकविश्लेषणम्, कर्तव्य-अकर्तव्यविवेचनम्, प्रकृतिपुरुषयो: भेदाभेदनिरूपणम्, जीवनलक्ष्यम्, लोकव्यवस्थितेः साधनानि, इत्यादीनि संगृह्यन्ते। वसिष्ठ-पराशर-अत्रि-भरद्वाज-रामकृष्णादिगोत्रोद्भूतानां भारतभूसम्भवानां मनुष्याणां संस्कृतिः वैदिकीसंस्कृतिः इति नाम्नाद्य सर्वत्र विश्रुता।

वैदिकी संस्कृतिः पुण्या, पुरुषार्थचतुष्टयम्।
शिष्ट्वा लोकान् पुनात्येषा, सत्याचारगुणप्रदा॥ (कपिलस्य) ।
या वेदस्मृतिशास्त्रविन्मुनिवरैर्जुष्टा सुखैकास्पदा,
देवीसम्पदलङकृता भगवता श्रीशेन संरक्षिता।
या वर्णाश्रमधर्मसारहृदया कामार्थमोक्षप्रदा,
नित्या विश्वहितैषिणी विजयते सा वैदिकी संस्कृतिः॥ (कपिलस्य) ।

अस्मदीयाः पूर्वजाः सूर्य-चन्द्र-व्योम-भूमिप्रभृतीनां । तत्त्वानां ज्ञानं सम्यक्तया निदधति स्म। संस्कृतिः तु मानव-सत्व-विकासस्य सा प्रक्रिया भवति, यया कश्चिज्जनः स्वकीयं जीवनोद्देश्यम् । अधिगच्छति।

भौगोलिकी स्थितिः

[सम्पादयतु]

वैदिके काले का नदी केन नाम्ना, को देशो जनपदो वा केन नाम्ना, पर्वतो वा केन नामधेयेन व्यवहृतोऽभवद् इति वैदिकेभ्यो ग्रन्थेभ्यो यथायथं ज्ञातं भवति।

नदीनां वर्णनं वेदेषु बहुधा कृतमवलोकितं भवति। ऋग्वेदस्य दशममण्डले सम्पूर्णसूक्तमेव नदीनां स्तुत्यां प्रयुक्तमस्ति । नदीसूक्तनाम्ना[] ख्यातेऽस्मिन् सूक्ते कतिपयानां नदीनां नामोल्लिखितमस्ति—

'इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्णया॥

असिक्न्या मरुद्वृधे वितस्तयाऽर्जीकीये श्रुष्णुह्या सुषोमया॥'

गंगा-यमुना-सरस्वती-शुतुद्री-परुष्णी-असिक्नी-मरुद्वृधा-वितस्ता-आर्जीकीया-सुषोमाप्रभृतिनद्यः प्रवहन्ति स्म । एतदतिरिक्तानां कतिपयानां सिन्धोः सहायकपश्चिमीयनदीनामपि नामोल्लेखो नदीसूक्तस्य षष्ठमे मन्त्रे लभते —

'तुष्टा मया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्याया।

त्वं सिन्धो कुमता गोमतीं क्रमुं मे हन्त्वा सरथं याभिरीयते।'[]

'मावो रसानितभा कुभा क्रमुर्मां वः सन्धुर्निरीरमत्।

मावः परिष्ठात् सरयूः परोषिण्यस्मै इतसुम्नमस्तु।।'

एतदतिरिक्ता विपाश्,[] अपया,[] दृषद्वती,[] दृषद्वतीप्रभव्या,[] सदानीरा,[] अनितभा[] प्रभृतयो नद्यस्तदा प्रवहन्ति स्म । सिन्धुसरितो वर्णनं नितान्तमेव रुचिरायां भाषायां विहितम् अवाप्यते -

'अभित्वा सिन्धो शिशुमिव मातरो या सा वर्षन्ति पयसेव धेनवः॥'

इत्यादिमन्त्रेषु अभिरामोपमामाश्रित्य सिन्धोर्वर्णनं कुर्वन्ति वैदिकऋषयः । सरस्वत्याः माहात्म्यमृग्वेदे भृशं वीक्षितं जायते । अार्यनिवासस्येयमप्येका भूरिप्रशंसिता नद्यस्ति । सरस्वत्याः प्रशंसायामनेका मन्त्रा उपलब्धा भवन्ति । अस्या एव तटे वैदिकाः ऋषयः सामगायनं कुर्वन्तो दत्तचित्ता बभूवु -

'युवं वेदवे पुरुवारमश्विनास्पृधां श्वेतं तरूतारं दुवस्यथः॥'[१०]

एवम् -

'सुमित्रिया न आप ओषधयः सन्तु ।'

十 -- 十

'एकाश्च मे तिस्रश्च मे ।'

十 -- 十

'अन्वितमे नदीतमे देवितमे सरस्वति।

अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि॥'

इत्यादिकाः सन्ति बहवो मन्त्राः प्राप्यन्ते। गोमत्याः पार्श्वर्त्तिनः पार्वत्यप्रदेशेषु आर्यनिवासस्थलमासीत् । अस्या एव नद्यास्तटे पार्वत्यप्रदेशेषु राजा रथवीतिदाभ्यः राज्यमकरोत्।

'एष श्रेति रथवीतिर्मघवा गोमतीरनुपर्वतेप्पश्रितः॥'[११]

अत्रिवंशीयः अर्चनाना-ऋषिः अस्य नृपस्य सोमयागे प्रधानहोतुः कार्यमकरोत्। अस्यैव ऋषेः पुत्रस्य नाम श्यावाश्व इति अासीत् । मरुताऽनुग्रहेणायं ऋषिः ऋषित्वं लब्ध्वा रथवीतिनृपतेः कन्यया सह विवाहमकरोत्। रथवीतेः राज्यादीषदारात्तरन्तनृपस्य राज्यमासीत् । अस्य दानशीलामहिष्या नाम 'शशीयसी' अासीत्।[१२] अस्माद्राज्यादारात् पुरुमीडराज्यमकरोत् । अस्य पितुर्नाम विददश्व आसीत् । तेनायं 'वैददश्वि'-नाम्ना प्रख्यातः आसीत्। अस्यार्यनिवासस्य चतुःसीमायारूल्लेखः ऋग्वेदीयमन्त्रेषु प्रतिपादितः। ऋग्वेदस्य दशममण्डलस्य १३६ तमसूक्तस्य पञ्चमे मन्त्रे पूर्वसमुद्रस्यापरसमुद्रस्य च निर्देशो लभते।

'वातस्याश्वो वायोः सखाथो देवेषितो मुनिः।

उभा समुद्रा वाक्षेति यश्च पूर्वं उतापरः॥'[१३]

ऋग्वेदीययुगे एकस्य विपुलसागरस्य अस्तित्वं ज्ञातं भवति, यस्मिन् सागरे दृषद्वत्या सह सरस्वती-विपाश्-शुतुद्रीप्रभृतय नद्यः न्यपतन् ।

'एका चेतत् सरस्वतीनां शुचिर्यती गिरिभ्यः अासमुद्रात्॥'[१४]

'इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्र रथ्येव याथः।'[१५]

ऋग्वेदस्यानुशीलनेन आर्यनिवासस्योत्तरस्यां दिशि तरङ्गायितस्य कस्यचित् अन्यसागरस्याऽपि ज्ञानं भवति। ऋग्वेदे चतुःसमुद्रस्य सुस्पष्टः निर्देशो लभते। सप्तगुः ऋषिः इन्द्रं प्रार्थयति -

'स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम्॥

चर्कृत्यं शंस्यं भूरिवारं अस्मम्यं चित्रं वृषणं रयिं दाः ॥'[१६]

त्रितोऽपि ऋषिः सोमं प्रार्थयति -

'रायः समुद्रांश्चतुरोऽस्मभ्यं सोमविश्वतः अा पवस्व सहस्रिणः॥'[१७]

तस्मिन् युगे भारते कुरु-पाञ्चाल-कीकट-मद्र-महावृष-काशी-कोशल-विदेह-मगध-अङ्ग-काश्व-काम्पिल-त्रिप्लक्ष-नैमिषवन-नामकाः बहवो जनपदाः आसन्। ब्राह्मणग्रन्थेषु कुरु-पाञ्चालानां प्रकृष्टा प्रशंसा दृष्टा भवति । सारस्वतक्षेत्रम् इदमेवाऽऽर्याणामादिभूमिरस्ति । अत्रैव ब्राह्मणयुगे अार्यसंस्कृतेः सभ्यतायाश्च प्रसारोऽभवत् । ऋग्वेदीयमन्त्रेषु एवंविधानां भौगोलिकतथ्यानां वर्णनं लभते, ये उत्तरीये ध्रुवप्रदेशे एव यथार्थतः समुपलब्धा भवन्ति । लोकमान्यतिलकमहोदयः उत्तरीयध्रुवमेव आर्याणां मूलस्थानममन्यत । 

वैदिकदर्शनम्

[सम्पादयतु]

वेदाः अनादिकालीनाः अपौरुषेयाः सन्ति। तत्र दार्शनिक तत्त्वं । प्रचुरम् उपलभ्यते। वेदेषु देवस्वरूपस्य, ईश्वरस्य, ब्रह्मणः, जीवस्य, प्रकृतेः, सृष्ट्युत्पत्तेः, पापस्य, पुण्यस्य, लोकस्य, परलोकस्य, मोक्षस्य, पुनर्जन्मादीनां वर्णनम् अवलोक्यते। । संस्कृतेः सांस्कृतिक५्भ्परायाः वा प्रवर्तनं मानवस्य अनुभवानाम् आधारे एव भवति। वेदेषु प्राकृतिकतत्त्वानां भानु-शशि-वायु-मेघ-विद्युत्-प्रभृतीनाम् इन्द्र-वरुण-रुद्र-मरुत्प्रभृतिनामभिः वर्णनं प्राप्यते। इयं वैदिकीसंस्कृतिः एव आध्यात्मिकी संस्कृतिर्वा भारतीया । संस्कृतिः इत्यभिधीयते। तस्या वेद-ज्ञानप्रकाशनकारिणां भारतौकसां महर्षीणां विचारैः । जीव्यमानत्वात्। एषा संस्कृतिः विश्वसंस्कृतिः इत्यपि कथ्यते तस्यास्त्रिकालवर्तिसकल- | देशस्थप्राणिमात्रोपकारकयज्ञाख्यकर्मनिष्ठत्वात्। धर्मार्थकामादीनां सेवनेन सह परमं पदं । प्रापयति वैदिकीसंस्कृति। देवानां सामान्यवैशिष्ट्यमाश्रित्य एकेश्वरवादः समर्थ्यते। तेषां | विभेदकगुणानाश्रित्य बहुदेवतावादोऽपि प्राप्यते। यथा वेदेषु–

  • इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्।
एक सद् विप्रा बहुधा वदन्त्यग्नि यमं मातरिश्वानमाहुः॥ (ऋग्वेद1/164/46)
  • संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्। । (ऋग्वेद-10/191/2) ।
  • त्वमग्ने वरुणो जायसे यत् त्वं मित्रो भवसि यत्समिद्धः।
त्वं विश्वे सहसस्पुत्र देवास्त्वमिद्रो दाशुषे मर्त्याय।' (ऋग्वेद- 5/3/1)

अत्र एक एव ईश्वरः इन्द्र-मित्र-वरुणादिनामभिः स्तूयते। पुरुषसूक्ते(ऋग्वेद 10/90) विराट्पुरुषात् सृष्ट्युत्पत्तिः वर्ण्यते। नारदीयसूक्ते(ऋग्वेद10/129)अपि सृष्ट्युत्पत्तिवर्णनम्। हिरण्यगर्भसूक्ते (ऋग्वेद-10121) हिरण्यगर्भप्रजापतेः सृष्टेरुद्भवः। ऋग्वेदे (10/59/6) पुनर्जन्मप्रतिपादनं प्राप्यते। अर्थात् जीवः स्वकर्मानुसारं पुनर्जन्म प्राप्यते।

वैदिकसंस्कृतेः देववादः

[सम्पादयतु]

वैदिकसंस्कृतौ वेदोक्तं आप्तवचनं प्रामाण्यरूपेण स्वीक्रियते। वैदिकदेवानां विषये उल्लेखमस्ति यत् देवेषु तेजः-पावनत्व-दया-दाक्षिण्य-क्षेमावहत्वादिक सामान्येन उपलभ्यते। क्वचिद् देवा मातृपितृरूपेणापि परिकल्प्यते। पितापुत्रसम्बन्धादिवर्णने देवानां काल्पनिकदेहादिवर्णनं प्राप्यते। आयुष्य-अभ्युदय-समृद्धि-प्रदायकाः सर्वे देवाः। देवेषु केवलं रुद्र एव भयमावहति। वरुणो न्यायाधीशः, न जातु पापिनं क्षमते। सर्वत्र आशावादसंचारः। देवानां चरित्रम् उज्ज्वलम् देवयजमानयोः अनुग्राहकानुग्राह्यसम्बन्धः विद्यते।

जीवनम्

[सम्पादयतु]

धार्मिकं जीवनम्

[सम्पादयतु]

वैदिकजीवनं धर्मप्रमुखं वर्तते। यज्ञेषु देवा आहूयन्त, घृतान्नसोमक्षीरादिकमहूयत। देवानां पेयं सोमरसः अभवत्। वैदिककालः धर्मप्रधानो विद्यते। इन्द्र-अग्नि-वरुण-मरुत्-सोम-अश्विनौ उपास्यदेवेषु मुख्याः। चिन्तन-मनन। दर्शनादिकं सर्वं धर्माश्रितम् इव समवलोकितम्। काव्यकृतिः अपि धर्ममूलैव आसीत्। । आचार-विचारादि शुद्धाः संयम-सत्य-आत्मचिन्तनादिषु बलमभीयत।

वैदिकसंस्कृतेः सामाजिकं जीवनम्

[सम्पादयतु]

वेदकालिकः समाजः पितृप्रधानः अासीत् । पिता एव सर्वेषां गृहाणां नेता एवं पुरस्कर्त्ता आसीत् । स्त्री-पुत्र-पुत्री-वध्वादीनां जीवनं तस्यैव छत्रच्छायायां सुखेन व्यतीतं भवति स्म। वैदिकेऽनेहसि सर्वेऽप्याश्रमाः समृद्धाः सुखिनश्चासन् । पुत्राः पुत्र्यश्च उच्चशिक्षां तदा प्राप्तवन्तः । ललितकलानाञ्च तदा प्रसारः अासीत् । विवाहस्तदा सुव्यवस्थितप्रथां वहन् दृग्गोचरो भवति । वैदिकाः आर्याः सङ्ग्रामप्रिया जातयः आासन् । अतो मन्त्रेषु वीरपुत्राणां प्रसूतये देवतानां भव्या प्रार्थना कृताऽस्ति -

'यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा॥'[१८]

विवाहकालस्येयं प्रार्थनाऽस्ति — हे इन्द्रदेव ! इमां स्त्रीं दशपुत्रान् देहि - 'दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि'[१९] ऋग्वेदकाले अभ्रातृकायाः कन्यायाः विवाहो बहुधा नाभवत्, यतस्तस्याः पुत्रः स्वपितुः सम्पदधिकारं विहाय मातामहस्य समृद्धेः अधिकारमवहत् । ऋग्वेदे तस्य पितुः प्रसन्नतायाः वर्णनमस्ति यः स्वदुहितुः वरान्वेषणे सफलोऽभवत् -

'पितानत्र दुहितुः सेकमृज्जन् संशग्म्येन मनसादधन्वे'[२०] शतपथब्राह्मणे सुकन्यायाः निःसन्दिग्धकथनमस्ति यन्मम पितरौ यस्मै वराय मां समर्पितौ तं जीवनपर्यन्तं न परित्यजामि । 'सा होवाच यस्मै मां पिताऽदान्नैवाहं तं जीवन्तं हास्यामीति'।[२१] ऋग्वेदे विवाहस्य सर्वमान्यं सूक्तमिदमस्ति —

'सोमो वधूयुरभवदश्विना ता उभा वरा।

सूयायत् पत्ये शसन्तीं मनसा सविता ददात्।'[२२]

वैदिकयुगे नारीणां सम्मानमासीत्। मातृ-दुहितृ किंवा जायारूपेण वैदिकयुगे नारी सर्वथा सम्माननीयाऽऽसीत् । 'जायेदस्तम्' अर्थात् गृहिणी गृहमुच्यते इति। तस्मिन् युगे स्त्री सहधर्मिणी आसीत् । अपत्नीको जनो यज्ञाधिकाराद्वञ्चितोऽभवत् । 'अयज्ञो वा ह्येष योऽपत्नीकः'[२३] स्त्रियाः प्रेम पत्ये आदर्श आसीत् । सा समरसतायाः प्रतिमूर्त्तिममन्यत । न केवलं गार्हस्थ्यजीवनस्यैव सा स्वामिन्यासीत् प्रत्युत स्वपत्यौ तस्याः पूर्णप्रभुत्वमासीत् । सा गृहलक्ष्मी आसीत् । कन्याः सुवध्वः सन्तु एतदर्थं तदानीम् उदारशिक्षणस्य व्यवस्थाऽऽसीत् । लोपामुद्रा स्वपत्या मुनिना अगस्त्येन सह सूक्तस्य दर्शनं कृतवती।[२४] अपाला-रोमशयोः संसर्गेण सूर्यपुत्री सूर्या अपि ऋषिका आसीत्।[२५]

ऋग्वेदीयसमाजे सामान्यतः सर्वत्र धर्मस्य समादर अासीत् । अस्मिन् समाजे पुरुषाः सदाचारवन्तः पुरुषार्थप्रियाः शक्तिशालिनो बभूवुः । कृषिकर्मणि पशुपालने च जनता सदा तदा निरता। ग्रामेषु जनता निवासं चक्रे । पुरदुर्गादीनां वर्णनं वैदिके साहित्ये पर्यवलोक्य विदितं जायते यत्, तदानीन्तनाः जनाः सभ्यायां संस्कृतौ च प्रशंसनीयामुन्नतिं गताः अासन् । 'शतभुजिभिस्तम- भिसुतेरधात् पुंभी रक्षता*******भिषक्' प्रभृतिमन्त्राः सन्ति। 'कारुरहं तत्तो भिषग्॥' इत्यादिमन्त्रा बोधयन्ति यत्, तदानीन्तना जनाः जीवनयापनाय अर्थोपार्जनार्थाय च बहूनि उद्यमनानि जगृहुः ।

राजनीतिक जीवनम्

[सम्पादयतु]

वैदिककाले समाज: आचारशास्त्रानुगतविधानानुसारेण न्यायव्यवस्थासञ्चालनाय राज्यस्य तन्मूलत्वाद्दण्डनीतेरर्थशास्त्रस्य च सनिवेशो। विद्यते। वैदिककाले राजनीतिकदृष्ट्या समाजः पञ्चधा व्यभज्यत-

  1. गृहं तस्य स्वामिनः गृहपतिः,
  2. ग्रामः तस्य स्वामिनः ग्रामणीः,
  3. विट्(विश्) तस्य स्वामिनः विशाम्पति' र्विशपतिर्वा,
  4. जनः तस्य स्वामिनः जनपतिः,
  5. राष्ट्रं तस्य स्वामिनः राजा चाभ्यधीयन्त ।

राज्ञः कर्म राष्ट्रसंरक्षणं, शत्रुविनाशनं च आसीत्। राजतन्त्रात्मिका, प्रजातन्त्रात्मिका च द्विविधा शासनप्रणाली प्राचरत्। राजतन्त्रे राजा वशपरम्परागतः, प्रजातन्त्रे च निर्वाचितोऽभूत्। राजसंचालनार्थं सभा समितिः चेति परिषद्द्वयं प्रजापतेः दुहितृरूपेण प्राचलत्। अथर्ववेदेऽपि राज्यप्राप्त्यर्थं शत्रूणां विनाशार्थं च ‘श्येनयागः' श्रूयते। वेदे आदर्शराज्यस्य स्वरूपम्– न मे स्तेनो जनपदे न कदर्यो न मद्यपः। नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतः॥ (वेदे) सेयं वैदिकी संस्कृतिः सर्वोत्तमा प्रथमा संस्कृतिः इति वेदे संस्तूयतेसा प्रथमा संस्कृतिर्विश्ववारा। । (यजुः7/14)

भारतीयानामाचारव्यवहारसमाजराज्यव्यवस्था श्रुतिप्रामाण्यमूला विद्यते। ऐतरेयब्राह्मणे शासनविषयिणी घोषणा वर्तते । यथा-ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं आान्ताद्, आापराधात् पृथिव्यै समुद्रपर्यन्ताया एकराड् इति। ब्राह्मणभागेषु विस्तरेण वैदिकी शासनप्रणाली-1.साम्राज्यम्, 2.भोज्यम्, 3.स्वाराज्यम्, 4.वैराज्यम्, 5.महाराज्यम्, 6.आधिपत्यम्, 7.सामन्तपर्यासा, 8.पारमेष्ठ्यम्, 9.जानराज्यम्, ब्रह्मचर्येण राजा राष्ट्रपुरुषो वा राज्याधिक्रियते। अत एव कौटिल्याचार्योऽपि सुखस्य मूलं धर्मः धर्मस्य मूलमर्थः अर्थस्य मूलं राज्यम् राज्यस्य मूलमिन्द्रियजयः तन्मूलं विनयः । तन्मूलं वृद्धोपसेवेत्यादिकमुजहार । सर्वे जनाः संस्कृतिपरिपालका भवन्तु इति निर्देष्टव्यम् संस्कृतिपालनार्थमेव वस्तुतः कस्यापि देशस्य राष्ट्रस्य वास्तित्वम् उपयुज्यते, यतः कस्यापि देशस्य सर्वोच्चो यो निधिः स संस्कृतिः निधिः। वैदिक-आदर्शीन् गृहीत्वा भारतीयसंस्कृतेः श्रद्धापरायणा अनुयायिनैः पोषकाश्च जायेरन्। अस्मिन् देशे प्रचलतां मतमतान्तराणां सम्प्रदायानाञ्च मूले स्थिरीभूय एषा निषीदति, अत एव सर्वेषामपि सम्प्रदायानां प्रतिपाद्यो विषय: एक: स एव यं भारतीयवैदिकसंस्कृतिः अभिनन्दति। भारतीयवैदिकसंस्कृतौ निष्कामकर्मवीचयः सर्वत्र उच्छलन्त्यः प्रवहन्त्यः च संलक्ष्यन्ते-
तस्मादसक्तः सततं कार्य कर्म सदाचर।

असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ।।

सम्बद्धाः लेखाः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. 'अनारम्भणे तदवीरयेथामनास्थाने अग्रभागे समुद्रे।'
  2. ( १०॥७५ )
  3. (ऋ. १०/७५/०६)
  4. (ऋ० २॥३३॥१॥३; ४॥३०॥३१ )
  5. ( ऋ° ३॥२३॥४ )
  6. ( ऋ० ३॥२३॥४ )
  7. ( वा० श्रौ° सू ° १०॥१९॥९ )
  8. ( शत० ब्रा० १॥४॥१॥१४ )
  9. ( ऋ० ५॥ ५३॥९ )
  10. ( ऋ० वे० २॥४१॥१६ )
  11. (ऋ. ५/६१/१९)
  12. ( ऋ० वे० ५॥६१॥६ )
  13. ( ऋ० १०॥१३६॥५ )
  14. (ऋ० ७॥९५॥|२ )
  15. ( ऋ० ३।३३।||२ )
  16. (ऋ. १०/४७/२)
  17. (ऋ. ७/३३/३)
  18. ( अथर्व. १॥२९॥९ )
  19. ( ऋ० १०॥८५ ॥४५ )
  20. (ऋ० ३।।३१।१ )
  21. ( शत० ४।१।। ५॥९ )
  22. ( ऋ० १०॥८५॥९ )
  23. (तै० ब्रा० २॥२॥२।६ )
  24. (ऋ० १।१७९ )
  25. (१०॥९१)
"https://sa.wikipedia.org/w/index.php?title=वैदिकी_संस्कृतिः&oldid=427799" इत्यस्माद् प्रतिप्राप्तम्