जम्बूद्वीपः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
जम्बुद्वीपः
Globe centered on Asia, with Asia highlighted. The continent is shaped like a right-angle triangle, with Europe to the west, oceans to the south and east, and Australia visible to the south-east.
विस्तीर्णम् 4,45,79,000 किमी2 (1,72,12,000 वर्ग मील)[१]
जनसङ्ख्या 3,879,000,000 (1st)[२]
जनसङ्ख्यासान्द्रता 87/km2 (225/sq mi)
राष्ट्रीयता Asian
देशाः 48 (देशानाम् आवली)
अवलम्बिताः
अनभिज्ञातप्रदेशाः
भाषाः List of languages
समयवलयानि UTC+2 to UTC+12
अन्तर्जालस्य TLD .asia
बृहत्तमनगराः List of metropolitan areas in Asia by population
एशियाखण्डः

जम्बुद्वीपम् एक: महाद्वीपः अस्ति| जम्बुद्वीपम् विशवस्य महिसतम् महाद्वीपः अस्ति| एषः महाद्वीपम् अनेकाणि देशानि अस्ति| भारतवर्ष: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त। ४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १० तः उत्तरस्य ८० अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५ - १९० रेखांशयोः मध्ये अयं खण्डः विद्यते ।

जम्बुद्वीपस्य देशाः-

आदयः ।

परिसरः[सम्पादयतु]

वृष्टिः[सम्पादयतु]

ग्रीष्मकाले जून्-मासतः सप्टम्बर्-मासाभ्यान्तरं नैऋत्य-प्रावृष-वृष्टिः भारत-बाङ्ग्ला-मयान्मार्-श्रीलङ्का-मलेशिया-इण्डोनेशिया-इण्डिचीना-जपानदेशेषु सम्भवति । विशेषतया बाङ्ग्ला-मयान्मार्-मलेशिया-इण्डोनेशिया-फिलिप्पीन्स्-देशेषु अतिवृष्टिः भवति । अतः एव अत्र नित्यहरिद्वर्णारण्यानि विशेषतया दृश्यन्ते । ईशान्य-प्रावृष-वायुना जपान्-दक्षिणपूर्वचीनाभागः-मलेशिया-मयान्मार्-श्रीलङ्का-बाङ्ग्ल-देशेषु भारतस्य तमिलुनाडुप्रदेशे च वृष्टिः भवति । पश्चिमवायुना टर्कि-इस्रेल् इत्यादिषु वृष्टिः भवति । अवशिष्टेषु भागेषु वृष्टिः अल्पा । विशेषतया सौदि-अरेबिया-इरान्-पाकिस्थानस्य दक्षिणप्रदेशाः-मुङ्गोलिया-सैबीरिया इत्यादिषु वृष्टिः नास्ति इत्येव वक्तुं शक्यते ।

१८९० तमस्य वर्षस्य एशियामानचित्रम्

उष्णता आर्द्रता च[सम्पादयतु]

जुलैमासस्य मध्यभागः अस्य खण्डस्य उष्णाधिक्यसमयः इति वक्तुं शक्यम् । कर्कवृत्तप्रदेशस्य परिसरे तु औष्ण्यं भवति अत्यधिकम् । भारतस्य दक्षिणभागः, श्रीलङ्का, मलेशिया, इण्डोनेशिया, इण्डोचीना, अरेबिया, इरान्, मध्यचीना, पूर्वचीना, कझखिस्थानम्, मङ्गोलिया इत्यादिषु उष्णता भवति २८ - २९डिग्रिसेल्शियस्मितम् । अरेबियादेशस्य पूर्वभागे, अफघानिस्थाने, पाकिस्थाने, उत्तरभारते, चीनादेशस्य पूर्वभागे च औष्णस्य प्रमाणं भवति ३३ - ३४डिग्रिसेल्शियस्मितम् । कदाचित् इदं ४० - ४२डिग्रिसेल्शियस्मितं भवति । सैबीरियादेशे उष्णता भवति - ५ - १०डिग्रिसेल्शियस्मितम् । टिबेट्-देशे उष्णता ०डिग्रिसेल्शियस्मितस्य अपेक्षया न्यूनं भवति ।
जनवरिमासे सूर्यः मकरवृत्तरेखायां चलति इत्यतः तदवधौ अस्मिन् खण्डे शैत्यकालः भवति । तदा सैबीरियादेशे उष्णता भवति ०डिग्रिसेल्शियस्मितस्य अपेक्षया न्यूनम् । पश्चिमे इरान्-देशात् चीनादेशस्य पूर्वभागपर्यन्तं २८ - २९डिग्रिसेल्शियस्मितम् उष्णता भवति । इतः दक्षिणदिशि तन्नाम अरेबिया-अफघानिस्थान-इरान्-पाकिस्थान-भारत-इण्डोचीना-बाङ्ग्लादेश-मयान्मार्-श्रीलङ्का-फिलिपीन्स्देशेषु उष्णता क्रमशः वर्धते ० - १५ कदाचित् १० - २०डिग्रिसेल्शियस्मितं भवति ।

नद्यः पर्वताश्च[सम्पादयतु]

भारतस्य उत्तरभागे स्थितात् काश्मीरात् असमप्रदेशं यावत् हिमालयपर्वतश्रेण्यः सन्ति । जगति एव अत्युन्नतं गौरीशङ्करशिखरम् (एवरेस्टशिखरम् - ८८४८मीटरुन्नतम्) अत्र विद्यते । धवलगिरिः, काञ्चनगङ्गा, नन्दादेवी, के २ इत्यादयः उन्नतशिखराणि विद्यन्ते । अफघानिस्थान-पाकिस्थानयोः हिन्दूकुश्-पामिर्-श्रेण्यौ स्तः । टिबेट्देशे विद्यमानः विशालः प्रदेशः जगति एव उन्नतः समतलप्रदेशः विद्यते । तत्र कुन्लुन्-श्रेण्यः सन्ति । ततः उत्तरस्यां दिशि तियेन्शान्-श्रेणी तदग्रे अल्टायिश्रेण्यः सन्ति । रशियादेशस्य पश्चिमभागे उरल्-श्रेण्यः सन्ति ।
अस्मिन् खण्डे अनेकाः महत्यः नद्यः सन्ति । भारते गङ्गानदी (२४२७ कि मी), ब्रह्मपुत्रः (२७०३ कि मी), पाकिस्थाने सिन्धुनदी (२७३५ कि मी), चीनादेशे हुवाङ्ग्-होनदी (४१८ कि मी), चाङ्ग्-जियाङ्ग्-नदी (५१९९ कि मी), रशियादेशे ओब्-नदी (३८६२ कि मी), येन्नेसिनदी, रशियादेशे बैकल्-नदी, उज्बेकिस्थाने अराल्-नदी, कझकिस्थाने बल्काष्-सरोवरः च अस्ति ।

सस्यसम्पत्तिः[सम्पादयतु]

भारते १४% भागः अरण्यप्रदेशः अस्ति । अरेबियादेशः मरुभूमिः अस्ति । मङ्गोलियादेशः यद्यपि मरुभूमिः तथापि तृणक्षेत्राणि विद्यन्ते । मध्य-एशिया-भागे अरण्यानि सन्ति । इण्डोचीनाप्रदेशे ५७% अरण्यं १६% तृणक्षेत्राणि सन्ति । इण्डोचीना, इण्डोनेशिया, मलेशिया, फिलिपीन्सदेशेषु नित्यहरिद्वर्णयुक्तानि, आर्द्रपर्णपातयुक्तानि, शुष्कपर्णपातयुक्तानि च अरण्यानि विद्यन्ते । वेणुः-क्रकचपत्र(teak)-रब्बर्-वृक्षाः च आधिक्येन दृश्यते । भारते गन्धद्रव्याणि, काफी-चायम्-इक्षुदण्डः-व्रीहिः-गोधूमः-दालधान्यादीनि अधिकतया उत्पद्यन्ते । बाङ्ग्लादेशे व्रीहिः महता प्रमाणेन वर्धते । मङ्गोलियादेशे गोधूमः, चीनादेशे बार्लि-चायम्-आलूकम्-व्रीहिः च, तुर्कमेनिस्थाने कझकिस्थाने च (मेक्केजोळ), रशियादेशे गोधूमः, बार्लि, ओट्स्,आलूकानि च अधिकतया वर्धन्ते ।

सिङ्गपुरम्

प्राणिपक्षिणः[सम्पादयतु]

वृक-कृष्णमृग-(मुङ्गुसि) - एते मान्सून्-वृष्टियुक्तेषु अरण्येषु दृश्यन्ते । भारतम्, मलेशीया, इण्डोनेशिया, इण्डोचीना, श्रीलङ्का इत्यादिषु देशेषु विद्यमानेषु अरण्येषु गजः, व्याघ्रः, मकरः, नागसर्पः, विषसर्पाः, विविधाः वानराः च आधिक्येन वसन्ति । टिबेट्-देशे याक्-प्राणिनः, रशियादेशस्य उत्तरभागीयेषु ध्रुवप्रदेशेषु भल्लूकाः, सौदि-अरेबियादेशे उष्ट्रादयः विशिष्टप्राणिनः सन्ति । नेपालदेशे गजः व्याघ्रः भल्लूकश्च विद्यते । भूताने याक्-प्राणी विद्यते । बाङ्ग्लादेशस्थे सुन्दर्बन्स्-अरण्ये श्वेतव्याघ्राः जीवन्ति ।
सैबीरियादेशस्य विलोवार्बलर्-पक्षी अरेबियाद्वारा आफ्रिकदेशं प्रति गच्छति । नार्वेदेशस्य समुद्रात् आर्कटिक्-वृत्तस्य वार्बलर्-पक्षी भारतद्वारा इण्डोचीनां प्रति गच्छति । श्वेतबलाकः युरोपदेशतः भारतं प्रति आगच्छति ।

गङ्गातटम्

खनिजाः[सम्पादयतु]

खनिजः देशाः
इन्धनानिलः तैलञ्च भारतम्, बोर्नियो, सुमात्रा, टर्कि, अमेरिका, इरान्, चीना
खनिजाङ्गारम् भारतम्, चीना, इङ्ग्लेण्ड्, आस्ट्रेलिया
अयः चीना, रशिया, भारतम्, जपान्
टङ्ग्स्टन् चीना
मेङ्गनीस् भारतम्, उत्तरकोरिया, जपान्, चीना
मैका भारतम्, नेपालदेशः
टिन् मलेशिया, चीना, इण्डोनेशिया, रशिया
स्वर्णम्, रजतम् भारतम्, इरान्, मलेशिया, जपान्, फिलिप्पीन्स्, अमेरिका, अरेबिया, कझकिस्थानम्
ताम्रम् रशिया, जपान्, फिलिप्पीन्स्, चीना
अस्बेस्टास् रशिया, चीना, कझकिस्थानम्
फास्टेट् रशिया
झिङ्क् चीना, जपान्, उत्तरकोरिया, रशिया, कझकिस्थानम्
बाक्सैट् रशिया, भारतम्
टङ्ग्स्टन् कझकिस्थानम्
सीसम् (लेड्) जपान्, उत्तरकोरिया, चीना
वज्रखण्डः रशिया

उद्यमाः[सम्पादयतु]

चीनादेशस्य मृन्मयवस्तूनि, भारतस्य रजत-सुवर्णाभरणानि, शिला-लोहनिर्मितमूर्तयः, कौशेयोत्पन्नम् तस्य निर्यातः इत्यादयः बहुप्रकारकाः उद्यमाः अस्मिन् खण्डे विद्यन्ते । मृत्पात्रनिर्माणम्, वयनम्, काष्ठतक्षणकार्याणि च चीनादेशे बहु कालतः प्रवर्तते । टोम्स्क्-ओम्स्क्-इर्कुटुस्क्-एते रशियादेशे विद्यमानाः उद्यमाः । कृषिमेव अवलभितेषु इण्डोचीना,भारतम्, बाङ्ग्ला, पाकिस्थानम् इत्यादिषु देशेषु कृष्यर्थम् आवश्याकानि उपकरणानि, रसगोभराः इत्यादीनां सम्बद्धाः उद्यमाः बहुधा वर्धिताः सन्ति । नेपालदेशे गवादिपालनम्, दारुकर्म-उद्योगश्च विद्यते । बाङ्ग्लादेशः बहोः कालतः ज्यूट्-वर्धनमे, वस्त्रोद्यमे च अग्रे विद्यते । पाकिस्थाने वस्त्रोद्यमः, मयन्मारे तमाखु-रब्बर्-उद्यमाः, जपानदेशे नौका-वाहन-इलेक्ट्रानिक्वस्त्वादीनाम् उद्यमः, इण्डोचीनाप्रदेशे दारुकर्म-इलेक्ट्रानिक्वस्त्वादीनाम् उद्यमः, छायाचित्रसम्बद्धाः उद्यमाः च विशेषतया विद्यन्ते । भारते अहमदाबाद्, मुम्बै, देहली, लाहोर्, चीनादेशे चोङ्ग्किङ्ग्, ह्याङ्ग्झे, शाङ्घै, जपानदेशे टोकियो, रशियादेशे पेट्रोपवलोस्क्, कुज्वास्, इर्कुटुस्क्, मास्को, डान्बास्, उज्बेकिस्तान्, ताष्केण्टनगराणि च केन्द्रभूतानि सन्ति ।

वैशिष्ट्यानि[सम्पादयतु]

जगतः द्वे अति विशाले देशे भारतम्, चीना च अस्मिन् खण्डे विद्यन्ते । नेपाले विद्यमानः जगति एव अत्युन्नतः (८८४८ कि मी) एवरेस्ट्-पर्वतः, जगतः विशालसरोवरेषु तृतीयः (६५,००० चतरस्र कि मी) अराल्-सरोवरः अत्र विद्यते । अस्मिन् खण्डे तिस्रः अति दीर्घाः नद्यः (ओब् - ४३४४ कि मी, चाङ्ग्-जियाङ्ग् ५१९९ कि मी, अमुर् ४०२३ कि मी) अत्र सन्ति । जगति विद्यमाने द्वौ हिन्दुराष्ट्रौ भारतम्, नेपालः अत्र स्तः । व्रीहिः, मृत्पात्राणि, चायम् इत्येतेषां मूलस्थानं विद्यते चीनादेशः । चीनादेशात् एव कौशेयम् अरब्-युरोपदेशं प्रति गतम् । बैद्धमतं भारते जन्म प्राप्य पूर्व-अग्नेय-ईशान्यदिशि प्रसृत्य तत्र स्थिरं जातम् । जम्बूद्वीपः इति कथ्यमाने भारते एशियाखण्डस्य बहवः देशाः अन्तर्भूताः आसन् । भारते जाति-वर्ण-कला-साहित्य-भाषा-देवता-धर्म-आचार-आहारादीषु विषयेषु दृश्यमाना विविधता न कुत्रापि अन्यत्र द्रष्टुं शक्या ।

प्रमुखस्थानानि[सम्पादयतु]

थैलेण्डस्थाः बुद्धभिक्षवः

धार्मिक-ऐतिहासिकस्थानानि[सम्पादयतु]

मक्का, मदीना, जेरुसलेम्, कीव्, इस्तान्बुल्, तेहरान्, बागदाद्, कन्दहार्, पीकिङ्ग्, रङ्गून्, देहली, वाराणसिः, ल्हासा इत्यादीनि

सांस्कृतिक-औद्यमिकस्थानानि[सम्पादयतु]

कराचि, मुम्बै, अबु धाबि, ओसाका, शाङ्घै, जकार्ता, डमास्कस्, पेषावर, अहमदाबाद्, मनिला इत्यादीनि

प्रवासकेन्द्राणि[सम्पादयतु]

मुम्बै, काट्मण्डु, बेङ्काक्, हाङ्ग् काङ्ग्, हरप्पा, टोकियो, मोहेञ्जोदारो च ।

बाह्यानुबन्धः[सम्पादयतु]

  • "Display Maps". The Soil Maps of Asia. European Digital Archive of Soil Maps – EuDASM. Retrieved 26 July 2011. 
  • "Asia Maps". Perry-Castañeda Library Map Collection. University of Texas Libraries. Archived from the original on 18 July 2011. Retrieved 20 July 2011. 
  • "Asia". Norman B. Leventhal Map Center at the Boston Public Library. Retrieved 26 July 2011. 
  • Bowring, Philp (12 February 1987). "What is Asia?". Eastern Economic Review (Columbia University Asia For Educators) 135 (7). http://afe.easia.columbia.edu/geography/geo_whatis.html. 


साधाराः[सम्पादयतु]

  1. National Geographic Family Reference Atlas of the World. Washington, D.C.: National Geographic Society (U.S.). 2006. p. 264. 
  2. "Continents of the World". The List. Worldatlas.com. Retrieved 25 July 2011. 
"https://sa.wikipedia.org/w/index.php?title=जम्बूद्वीपः&oldid=389564" इत्यस्माद् पुनः प्राप्तिः