सामग्री पर जाएँ

द्वारकाद्वीपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
द्वारकाद्वीपः

બેટ દ્વારકા

Bet Dwarka
शङ्खोद्धारमन्दिरद्वारम्
Skyline of द्वारकाद्वीपः
राष्ट्रम् भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् जामनगरमण्डलम्
Founded by भगवान् श्रीकृष्णचन्द्रः

द्वारकाद्वीपः ( /ˈdvɑːrəkɑːdvɪpəh/) (गुजराती: બેટ દ્વારકા, आङ्ग्ल: Bet Dwarka) गुजरातराज्यस्य जामनगरमण्डले द्वारकातः ३५ कि.मी. दूरे अस्ति । एषः द्वीपः भगवतः श्रीकृष्णचन्द्रस्य निवासस्थानमस्ति । 'बेट' इति गुजरातीशब्दस्य द्वीप इत्यर्थः । एषः लघुद्वीपः गोमती-द्वारकातः ईशान्यदिशि कच्छ्समुद्रकुक्षौ अस्ति । अत्र भगवान् श्रीकृष्णचन्द्रः शङ्खासुरस्य वधं कृतवान् आसीत् । अतः अस्य स्थलस्य शङ्खोद्धारतीर्थम् इति नामान्तरम् अस्ति । अत्र द्वारकाद्वीपे द्वारकाधीशः शङ्खनारायणरूपेण पूज्यते ।

इतिहासः

[सम्पादयतु]

भक्तैः १६१६-१७ वर्षे द्वारकाधीशस्य विग्रहः द्वारकामन्दिरात् द्वारकाद्वीपं प्रति आनीतः । तत्र प्रासादः निर्मितः, पूजाकार्यञ्चारब्धम् आसीत् । द्वारकाद्वीपे द्वारकाधीशस्य मन्दिरस्य पुरतः सत्यभामा-लक्ष्म्योः एकमेव मन्दिरम् आसीत् । १७८० तमे वर्षे अस्य मन्दिरस्य जीर्णोद्धारः कृतः, तत्स्थाने द्वयोः नवमन्दिरयोः निर्माणम् अभूत् । जाम्बवत्याः मन्दिरम् अत्र नासीत् । १८५० तमे वर्षे मुख्यमन्दिरस्य समीपे तस्याः मन्दिरस्य निर्माणमपि अभवत् ।

१८५९ तमे वर्षे ब्रिटेनदेशस्य सैनिकैः द्वारकाद्वीपः आक्रान्तः आसीत् । तदा तैः ११ दिनपर्यन्तं मन्दिरस्य कोटिशः धनम् अपहृतम् । ततः वैष्णवैः तद्धनस्य पुनः प्राप्त्यर्थं बहुप्रयासः कृतः । परन्तु ६८,९०२ रूप्यकाणि एव प्राप्तानि । १८६० तमे वर्षे द्वारकाद्वीपे द्वारकाधीशमन्दिरस्य पुनर्निर्माणकार्यं प्रारभत । तस्मिन् श्रमिक-वणिक्-लेपक-शिल्पिन्-स्वर्णकार-भारवाहकादयः सर्वे स्वकला-धन-समयादीनां योगदानं कृतवन्तः । तेषां महत्परिश्रमेणैव पुनर्निर्माणकार्यं शीघ्रमेव पूर्णमभवत् । अधुना यन्मन्दिरमस्ति तत् तैरेव निर्मितम् ।

पुरातत्वविभागानुसारं द्वारकाद्वीपः

[सम्पादयतु]
'हरप्पा'संस्कृतेः मृद्भाण्डानि
समुद्रमग्ना श्रीकृष्णचन्द्रस्य द्वारकानगरी

१९५० तमवर्षादारभ्य द्वारकाद्वीपे, तस्य समीपे च बहुसंशोधनकार्यं जातमस्ति । द्वारकाद्वीपे द्वारकाधीश-धीङ्गेश्वरमहादेव-नीलकण्ठमहादेवादिमन्दिराणि १८ शताब्द्यां निर्मितानि इति शोधनिष्कर्शः । १९७९ तमे वर्षे तत्र 'हरप्पा'संस्कृतेः मृद्भाण्डानि प्राप्तानि आसन् । तत्र महाभारतकालीनं निर्माणं न प्राप्तं तैः । परन्तु प्राप्तमृद्भाण्डैः बहूनां सम्भावनानाम् उत्पत्तिर्जाता, केषाञ्चन नूतनप्रश्नानाञ्च उद्भवः जातः । यदा १९८२ तमे वर्षे सूक्ष्मतया संशोधनं जातं, तदा तत्र प्रस्तरैः निर्मिता विशालभित्तिः प्राप्ता । एतस्याः भित्तेः प्रायः ५०० मीटरयावत् औन्नत्यम् स्यात् । इतः लोहमृद्भिः निर्मितानि भाण्डान्यपि प्राप्तानि सन्ति ।

सम्प्रति समुद्राभ्यन्तरे संशोधनकार्यं चलदस्ति । नवीने संशोधने समुद्रमग्ना एका नगरी प्राप्तास्ति । भारतीयानां विश्वासोऽस्ति यत् एषा एव श्रीकृष्णचन्द्रस्य द्वारकानगरी अस्तीति ।

भूकम्पपश्चाद् पुनर्निर्माणम्

[सम्पादयतु]

यदा २००१ तमे वर्षे भूकम्पः जातः, तदा मन्दिरस्य, परिसरस्य च महती हानिः अभूत् । यत्र रणछोडरायस्य प्रासादः आसीत्, तत्र न कापि हानिर्जाता । परन्तु समीपस्थानि राज्ञीनां मन्दिराणि ध्वस्तानि अभवन् । मन्दिरसमित्या १.५ कोटिमन्दिरसम्पत्तेः हानिर्जाता इति सूचितम् आसीत् । अतः साहाय्यधननिधिरूपेण राज्यसर्वकारपक्षतः २ कोटिरूप्यकाणि, पुनश्च केन्द्रीयसर्वकारपक्षतः २ कोटिरूप्यकाणि लब्धानि । ततः पुनर्निर्माणकार्यम् आरब्धम् ।

मार्गाः

[सम्पादयतु]

विमानमार्गः

[सम्पादयतु]

अत्र समीपस्थं विमानस्थानं १३७ कि.मी. दूरे जामनगरे अस्ति ।

धूमशकटमार्गः

[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः द्वारकारेलस्थानं सरलतया प्राप्तुं शक्यते ।

भूमार्गः

[सम्पादयतु]

द्वारकाद्वीपः अहमदाबाद्तः ४७१ कि.मी., जामनगरतः १३७ कि.मी., राजकोटतः २१७ कि.मी. दूरे अस्ति । एतेभ्यः नगरेभ्यः द्वारकां प्राप्तुं यानानि मिलन्ति । द्वारकातः ओखा-नौकाश्रयः ३२ कि.मी. दूरे अस्ति, तत्र प्राप्तव्यम् । ततः ५ कि.मी. समुद्रमार्गेण द्वारकाद्वीपं प्राप्तुं शक्यते ।

सम्बद्धाः लेखाः

[सम्पादयतु]

श्रीकृष्णः

द्वारका

सौराष्ट्रम्

हरप्पासंस्कृतिः

बाह्यानुबन्धः

[सम्पादयतु]

http://www.mapsofindia.com/maps/gujarat/dwarka-city.html

http://www.hotelcitypalacedwarka.com/history-of-dwarka.htm Archived २०१४-०१-३० at the Wayback Machine

http://www.journeymart.com/de/india/gujarat/dwarka/bet-dwarka.aspx

http://www.gujarattourism.com/showpage.aspx?contentid=228&webpartid=887 Archived २०११-१२-०१ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=द्वारकाद्वीपः&oldid=481617" इत्यस्माद् प्रतिप्राप्तम्