सामग्री पर जाएँ

कावेरीनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटकस्य श्रीरङ्गपत्तणसमीपे कावेरीनदी

कावेरीनदी दक्षिणभारतस्य एका प्रमुखा नदी । एषा भारतस्य सप्तपुण्यतमनदिषु अन्यतमा अस्ति ।

गङ्गेयमुने चैव गोदावरि सरस्वति
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु॥

कावेरी कर्णाटकस्य जीवनदी अस्ति । कोडगुमण्डले पश्चिमघट्टप्रदेशे तलकावेरी इति स्थाने उद्भवति । एषा नदी मैसूरुमण्डलतः तमिळ्नाडुराज्यं प्रति प्रवहति । ततः गङ्गासागरं प्रविशति । दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुरस्रकिलोमीटर्पर्यन्तं व्याप्तः । कावेर्याः उपनद्यः सन्ति शिंशा, हेमावती, अर्कावती, कपिला, कबिनी, लक्ष्मणतीर्थं, लोकपावनी च । कावेरीं "दक्षिणगङ्गा” इति नाम्ना अपि आह्वयन्ति । कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।

पौराणिककथे

[सम्पादयतु]

प्रथमा कथा

[सम्पादयतु]

ब्रह्मणः पुत्री लोपामुद्रा भूलोके लोकोद्धारार्थं वसति स्म । कवेरः इति मुनिः ब्रह्माणम् उद्दिश्य तपः आचरितवान् । वररूपेण सन्ततिं प्रार्थितवान् , तदा लोपामुद्रां पुत्रीत्वेन प्राप्तवान् च । एकस्मिन् दिने तत्र अगस्त्यः तपः तप्तुं आगतः ।अगस्त्यः वदति-“ अहं लोपामुद्रां वृणोमि” इति । लोपामुद्रा उक्तवती "यदि भवान् अन्यत्र गच्छति तर्हि अहं भवतः निरीक्षायां बहुसमयं यापयितुं न इच्छामि । अतः यदि भवान् अन्यत्र गच्छति तर्हि अहं स्वतन्त्रा भूत्वा इतः गच्छामि" इति। एतम् विषयं अङ्गीकरोति अगस्त्यः मुनिः । तदा तयोः विवाहः सम्पन्नः । कदाचित् अगस्त्यमुनिः शिष्येभ्यः अध्यापयन् आसीत्, अध्यापने लीनः सः समयं विस्मृतवान् । तदा लोपामुद्रा ततः तलकावेरीम् आगत्य अन्तर्जले पतित्वा जलीभूय प्रावहत् । दक्षिणभूभागः तदा ऊषरभूमियुतः आसीत् । सा कवेरमुनेः पुत्री अतः कावेरी इति एव प्रसिद्धा अभवत् ।

द्वितीयाकथा

[सम्पादयतु]

अन्यकथानुसारं सः प्रदेशः जलविहीनः आसीत् । जलक्षामस्य दूरीकरणार्थं अगस्त्यमुनिः ब्रह्मणः आशिषा, शिवेन पवित्रजलं कमण्डलौ स्वीकृत्य तत्र आगतवान् । तदा नद्याः निर्माणार्थम् उचितस्थानस्य अन्वेषणे रतः सः दक्षिणभागं प्रति प्रवासं कुर्वन् कोडगुप्रदेशस्य गिरिभागम् आगतवान् । मार्गे गमनसमये कञ्चन बालकं दृष्टवान् । सः वस्तुतः वेषान्तरितः गणेशः आसीत् । देहबाधापीडितः अगस्त्यः शौचार्थं स्थानं पश्यन् आसीत् । अतः सः तं बालकम् अवदत्, कमण्डलुं बालकस्य हस्ते दत्त्वा तस्य रक्षणं कर्तुम् उक्त्वा शौचार्थं गतवान् । गणेशः ’ मुनिः नद्याः उद्गमार्थं स्थानस्य अन्वेषणे रतः इति ज्ञातवान् आसीत् । गणेशः चिन्तितवान् एष एव प्रदेशः उचितः इति अतः सः कमडुलं भूमौ स्थापितवान् । तत्र एव उड्डयन् कश्चन काकः कमण्डलुं स्पृष्ट्वा उपाविशत् । तदा तत्र आगतः अगस्यमुनिः काकं दृष्ट्वा शीघ्रं तं धावयितुं प्रयत्तवान् । परन्तु कमण्डलुजलं निरस्यत् । लघुप्रमाणकं जलं धारारूपेण नदी भूत्वा प्रावहत् । तलकावेरी पवित्रं स्थानमस्ति । तत्र प्रतिदिनं पूजादिकं प्रचलति । महाभारतस्य आदिपर्वणि अर्जुनः तीर्थयात्राप्रसङ्गे अत्र आगत्य स्नातवान् इति उल्लिखितम् अस्ति । राजसूययागसमये नकुलः अत्र आगत्य जलं स्वीकृत्य गतवान् इति सभापर्वणि निरूपितम् अस्ति ।

नदीपात्रम्

[सम्पादयतु]

कोडगुप्रदेशस्य पर्वतात् प्रवहन्ती एषा कावेरी अनन्तरं दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति प्रवहति । एषा यत्र प्रवहति तत्र त्रयः द्वीपाः सन्ति । शिवनसमुद्रे एषा ३२० पादपरिमितात् उन्नतप्रदेशात् पतित्वा गगनचुक्कीजलपातः, भरचुक्कीजलपातः इति जलपातद्वयं स्ऱु। भारतस्य प्रथमः जलविद्युदागारः अत्र १९०२ तमे वर्षे निर्मितवन्तः। तदा बेङ्गळूरुनगरम् इत एव विद्युच्छक्तिं प्राप्नोति स्म । होगेनकल् जलपातात् अनन्तरं एषा तमिलुनाडुराज्यं प्रविशति । तञ्जावूरुमण्डले प्रवह्य्य अन्ते द्विधा भूत्वा गङ्गासागरं प्रविशति ।

कर्णाटके कावेरी

[सम्पादयतु]

कर्णाटके एतस्याः द्वादशजलाशयाः निर्मिताः सन्ति । सर्वेषां जलाशयानां मुख्यः उद्देशः जलमातृकम् । मडदकट्टेप्रदेशस्य समीपे वर्तमानात् जलबन्धात् या कुल्या अस्ति सा २७ मैल्-दीर्घा अस्ति । १०,००० प्रहलप्रदेशान् जलमातृकत्वेन परिवर्तिता अनेन कुल्याजलेन । मैसूरुनगरं प्रति पेयजलस्य सौलभ्यं भागशः प्रददाति । श्रीरङ्गपट्टणस्य समीपे स्थितः जलबन्धः बङ्गारदोड्डीकुल्या मैसूरु-ओडेयरराजवंशीयेन रणधीरकण्ठीरवेन निर्मिता । कर्णाटके कावेरीनद्याः प्रसिद्धः जलबन्धः निर्मितः अस्ति तस्य नाम कृष्णराजसागरः

"https://sa.wikipedia.org/w/index.php?title=कावेरीनदी&oldid=438916" इत्यस्माद् प्रतिप्राप्तम्