सामग्री पर जाएँ

तञ्जावूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तञ्जावूरुमण्डलम्

தஞ்சாவூர் மாவட்டம்

—  मण्डलम्  —
तञ्जावूरुदेवालयम्
तञ्जावूरुदेवालयम्


Location of तञ्जावूरुमण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

१०°४७′८.१६″ उत्तरदिक् ७९°८′२४.३६″ पूर्वदिक् / 10.7856000°उत्तरदिक् 79.1401000°पूर्वदिक् / १०.७८५६०००; ७९.१४०१०००

देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् कुम्भकोणम्, ओरतनाडुः, पापनाशम्, पट्टुकोट्टै, पेरवुरनिः, तञ्जावूरुः,तिरुवैयारुः, तिरुविडैमरुदूरुः
केन्द्रप्रदेशः तञ्जावूरु
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: १०°४७′ उत्तरदिक् ७९°८′ पूर्वदिक् / 10.783°उत्तरदिक् 79.133°पूर्वदिक् / १०.७८३; ७९.१३३
जालस्थानम् Official website of Thanjavur District


तञ्जावूरुमण्डलं (Thanjavur District) (तमिऴ्:தஞ்சாவூர்மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तञ्जावूरुपत्तनम् ।

भौगोलिकम्

[सम्पादयतु]

तञ्जावूरुमण्डलं तमिऴ्नाडुराज्यस्य मध्यभागे वर्तते । अस्य विस्तारः ३४७७ चतुरश्रकिलोमीटर् । अस्य ईशान्यदिशि नागपट्टिणमण्डलं, पूर्वस्यां दिशि तिरुवारूरुमण्डलं, दक्षिणे बङ्गालसमुद्रस्य पाक् जलसङ्क्रमः, पश्चिमे पुदुक्कोट्टैमण्डलम्, उत्तरे कोल्लिडं नदी च अस्ति । नद्याः अपरस्मिन् पार्श्वे तिरुच्चिराप्पळ्ळिमण्डलम्, पेरम्बलूरुमण्डले स्तः ।

जनसंख्या

[सम्पादयतु]

२०११ तमे वर्षे जनगणनानुगुणं तञ्जावूरुमण्डलस्य जनसंख्या २,४०२,७८१ अस्ति। जनसंख्यादृष्ट्या भारतस्य ६४० मण्डलेषु अस्य मण्डलस्य १८५ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६९१ (१,७९० प्रतिचतुरस्शमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ८.४२% आसीत् । तञ्जावूरुमण्डाले पुं, स्त्री अनुपातः १०००:१०३१, साक्षरताप्रमाणं च ८२.७२% अस्ति।

उपमण्डलानि

[सम्पादयतु]

तञ्जावूरुमण्डले अष्ट उपमण्डलानि सन्ति । तानि -

१. कुम्भकोणम्
२. ओरतनाडुः
३. पापनाशम्
४. पट्टुकोट्टै
५. पेरवुरनिः
६. तञ्जावूरुः
७. तिरुवैयारुः
८. तिरुविडैमरुदूरुः

कृषिः वाणिज्यं च

[सम्पादयतु]

इदं मण्डलं कावेरीनद्याः तीरप्रदेशे वर्तते । अतः अस्मिन् राज्ये फलवत्तमः प्रदेशः अयम् । अत्र तण्डुलः अत्यधिकप्रमाणे उत्पाद्यते । अतः इदं मण्डलं राज्यस्य तण्डुलपात्रम् इत्येव विख्यातम् । कावेरी नदी, तस्याः उपनद्यः च कृष्यर्थं जलं प्रयच्छन्ति । तण्डुलम् अतिरिच्य नारिकेलः, इक्षुखण्डश्च अत्र अधिकप्रमाणे रुह्यते । तमिऴ्नाडु राज्ये नारिकेलस्य अधिकतमम् उत्पादनं तञ्जावूरुमण्डले एव भवति ।

वीक्षणीयस्थलानि

[सम्पादयतु]
बृहदीश्वरदेवालयः

बृहदीश्वरदेवालयः

[सम्पादयतु]

तञ्जावूरुपत्तने विद्यमानः परमेश्वरस्य अयं देवालयः चोळराजेन प्रथमराजराजेन निर्मितः । अयं देवालयः चोळानां शिल्पकलाशैल्याः अत्युत्तमम् उदाहरणम् । युनेस्कोद्वारा अयं देवालयः विश्वपरम्परास्मारकत्वेन अभिज्ञातः । अस्य देवालयस्य गोपुरं ६४.८ मीटर् उन्नतम् अस्ति । गर्भगृहे ४ मीटर् उन्नतं महालिङ्गम् अस्ति । ५.९४ मीटर् दीर्घा नन्दिनः एकशिलामूर्तिः अपि अत्र विराजते । इयं मूर्तिः भारतस्य बृहत्तमेषु नन्दिविग्रहेषु द्वितीया । देवालयस्य अन्तर्भित्तिषु चोळकालस्य चित्राणि चित्रितानि सन्ति ।

तञ्जावूरुराजभवनम्

[सम्पादयतु]

इदं राजभवनं बृहदीश्वरदेवालयात् एककिलोमीटर्‌ दूरे अस्ति । भवनं परितः बृहत्यः दुर्गभित्तयः सन्ति । इदं भवनं चतुर्दशशतके नायकैः मराठैः च निर्मितम् । मराठराजपरिवारः अत्र वसति । राजपरिवारस्य आराध्यदेवस्य चन्द्रमौलीश्वरस्य देवालयः भवनस्य अन्तः अस्ति ।

कलासङ्ग्रहालयः

[सम्पादयतु]

तञ्जावूरुनगरे विद्यमाने अस्मिन् कलासङ्ग्रहालये विशिष्टाः कांस्यमूर्तयः, शिलाशिल्पानि, कलाकृतयः च सन्ति । हिन्दूदेवताभिः पुराणैः च सम्बद्धाः बहवः कलाकृतयः अत्र द्रष्टुं शक्याः । ऐतिहासिकदृष्ट्या अयं सङ्ग्रहः अमूल्यः ।

सरस्वतीमहलग्रन्थालयः

[सम्पादयतु]

तञ्जावूरुमहाराजस्य सरफोजेः अयं ग्रन्थालयः मध्यकालिकग्रन्थानां सङ्ग्रहवत्सु ग्रन्थालयेषु प्रमुखः, विश्वप्रसिद्धः च । नायकानां मराठानां च वंशस्थैः अयं ग्रन्थालयः संरक्षितः । अत्र कलासंस्कृतिसाहित्यसम्बद्धाः ताडग्रन्थाः, पुस्तकानि, भूपटानि, चित्राणि च सन्ति । अयं ग्रन्थालयः १९१८ तमे वर्षे सार्वजनिकः कृतः ।

राजराजमणिमण्डपः

[सम्पादयतु]

अयं तञ्जावूरुनगरस्य दक्षिणभागे अस्ति । १९९५ तमे वर्षे अष्टमस्य तमिऴ् सम्मेलनस्य सन्दर्भे अयं निर्मितः । अस्मिन् मणिमण्डपे वस्तुसङ्ग्रहालयः अपि अस्ति ।

शिवगङ्गातडागः

[सम्पादयतु]

अयं तडागः बृहदीश्वरदेवालयस्य वायव्यभित्तेः बहिः अस्ति । एतं तडागं परितः बृहत्यः भित्तयः सन्ति । अस्य जलं बहु मधुरम् इति विख्यातम् ।

तिरुक्करुगावूरुः

[सम्पादयतु]

तञ्जावूरुनगरात् २० किलोमीटर् दूरे ईशान्यदिशि कावेर्याः उपनद्याः वेट्टारुनद्याः तीरे इदं क्षेत्रम् अस्ति । अत्र अरुळमिगुमुल्लैवननाथस्य गर्भरक्षाम्बिकायाः च मन्दिरे स्तः । शिवभक्ताभ्यां तिरुज्ञानसम्बन्धर् तिरुनावुक्करसर्भ्याम् एते देवते उद्दिश्य अनेके उल्लेखाः कृताः ।

पट्टीश्वरम्

[सम्पादयतु]

अयं ग्रामः कुम्भकोणस्य समीपे अस्ति । अत्र दुर्गादेव्याः देवालयः अस्ति । इयं दुर्गा चोळानां आराध्यदेवी आसीत् । अस्याः अनुग्रहेण एव चोळाः १००० शिवलिङ्गानि स्थापयितुं समर्थाः इति प्रतीतिः ।

राजा सर्फ़ोजिः १८१४ तमे वर्षे नेपोलियनस्य विरुद्धं ब्रिटिशानां विजयस्य स्मरणार्थम् इदम् अष्टस्तरीयं नगरं निर्मितवान् । इदं तञ्जावूरुमण्डलस्य पट्टुकोट्टैपत्तनात् २० किलोमीटर् दूरे बङ्गालसमुद्रस्य तीरे शरभेन्द्रराजपत्तनाख्ये ग्रामे अस्ति ।

पापनाशम्

[सम्पादयतु]

तञ्जावूरुपत्तनात् ३० किलोमीटर् दूरे विद्यमाने अस्मिन् पत्तने पल्लवनाथस्वामिनः देवालयः अस्ति । १०८ शिवालयाः अपि अत्र सन्ति । १६००-१६३४ मध्ये नायकैः निर्मितः बृहत् तण्डुलागारः अत्र अस्ति । अस्य औन्नत्यं ३६ पादाः ।

स्वामिमलै

[सम्पादयतु]

अयं सुब्रह्मण्यस्य ‘आरुपडैवीडु’ क्षेत्रेषु अन्यतमः, तञ्जावूरुतः ३२ किलोमीटर् दूरे अस्ति । अत्र कार्त्तिकेयः स्वपित्रे परमेश्वराय प्रणवस्य रहस्यं बोधितवान् इति स्थलपुराणम् । अतः अत्र कार्त्तिकेयः गुरुरूपेण, परमेश्वरः तच्छिष्यत्वेन च राजगोपुरे द्रष्टुं शक्यः ।

कुम्भकोणम्

[सम्पादयतु]

तञ्जावूरुतः ४० किलोमीटर् दूरे इदं पत्तनम् अस्ति । देवालयानां पत्तनम् इत्येव इदं ख्यातम् । सारङ्गपाणिदेवालयः, कुम्भेश्वरदेवालयः, नागेश्वरदेवालयः, रामस्वामिदेवालयः च अत्रत्येषु देवालयेषु प्रमुखाः । अत्र प्रतिद्वादशवर्षम् एकवारं महाकुम्भाभिषेकः प्रचलति ।

उप्पिलियप्पन् देवालयः

[सम्पादयतु]

अयं देवालयः कुम्भकोणतः ६ किलोमीटर् दूरे, तञ्जावूरुपत्तनात् ४६ किलोमीटर् दूरे च अस्ति । अत्रत्यः आराध्यदेवः वेङ्कटेश्वरः ।

तिरुविडैमरुदूरुः

[सम्पादयतु]

अयं कुम्भकोणतः ८ किलोमीटर् दूरे अस्ति । कावेरीनदी अस्मिन् ग्रामे प्रवहति । अयं ग्रामः ‘मध्यार्जुनम्’ इत्यपि ख्यातः । अत्रत्य आराध्यदेवः महालिङ्गेश्वरः, देवी च पेरुनमुलै अम्माळ् अस्ति।

नवग्रहक्षेत्राणि

[सम्पादयतु]

कुम्भकोणस्य समीपे नवसु ग्रामेषु नवग्रहसम्बद्धाः देवालयाः सन्ति । तानि -

तिरुनागेश्वरम् – राहुः
तिरुनल्लारुः – शनिः
कीऴ्पेरुम्पल्लम् – केतुः
वैदीश्वरन् कोयिल् – अङ्गारकः
सूर्यनार् कोयिल् – सूर्यः
आलङ्गुडिः – गुरुः
तिङ्गळूरुः – चन्द्रः
काञ्चनूरुः – शुक्रः
तिरुवेङ्गाडुः – बुधः

पूण्डिमाता बेसिलिका

[सम्पादयतु]

पूण्डिग्रामः तञ्जावूरुतः ३५ किलोमीटर् दूरे अस्ति । इदं रोमन् काथोलिकानां पवित्रं क्षेत्रम् ।

ष्वार्ट्ज़् क्रिस्तदेवालयः

[सम्पादयतु]

तञ्जावूरुपत्तने विद्यमानः अयं क्रैस्तदेवालयः अष्टादशशतके निर्मितः । अयं शिवगङ्गातडागस्य पूर्वभागे अस्ति ।

  1. www.tn.gov.in

बाह्यसम्पर्कतंतुः

[सम्पादयतु]

फलकम्:Tamil Nadu फलकम्:Thanjavur district

"https://sa.wikipedia.org/w/index.php?title=तञ्जावूरुमण्डलम्&oldid=487694" इत्यस्माद् प्रतिप्राप्तम्