सामग्री पर जाएँ

तिरुवारूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिरुवारूरुमण्डलम्

திருவாரூர் மாவட்டம்

  मण्डलम्  
तिरुवारूरुदेवालयस्य पुष्करिणी
तिरुवारूरुदेवालयस्य पुष्करिणी
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् कूडवासल्, मन्नार्गुडिः, नन्निलम्, नीडमङ्गलम्, तिरुत्तुरैपूण्डिः, तिरुवारूरुः, वलङ्गैमन्
Collector एस्. नटराजन्, IAS
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: १०°४६′ उत्तरदिक् ७९°३८′ पूर्वदिक् / 10.767°उत्तरदिक् 79.633°पूर्वदिक् / १०.७६७; ७९.६३३
जालस्थानम् Official website of Tiruvarur District

तिरुवारूरुमण्डलं (Tiruvarur District) (तमिऴ्: திருவாரூர் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं तिरुवारूरुपत्तनम्।

भौगोलिकम्

[सम्पादयतु]

तिरुवारूरुमण्डलस्य विस्तारः २१६१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पूर्वभागे उत्तरभागे च नागपट्टिनमण्डलं, पश्चिमे तञ्जावूरुमण्डलम्, ईशान्ये पुदुच्चेर्याः कारैकल्मण्डलं च अस्ति । दक्षिणभागे पाक् जलसङ्क्रमः अस्ति ।

इतिहासः

[सम्पादयतु]

१९९१ तः प्राक् तिरुवारूरुमण्डलं नागपट्टिनमण्डलं च तञ्जावूरुमण्डलस्यभागः आस्ताम् । ततः तञ्जावूरुमण्डलं त्रेधाविभक्तम् । ततः भागान् स्वीकृत्य नागपट्टिन, तिरुवारूरुमण्डले निर्मितम् । तिरुवारूरुमण्डलस्य मुख्यानि पत्तनानि तिरुवारूरुः, तिरुत्तुरैपूण्डिः, नच्चिकुळं, मुत्तुपेट्टै, मन्नार्गुडिः च।

जनसंख्या

[सम्पादयतु]

२०११ वर्षस्य जनगणनानुगुणं तिरुवारूरुमण्डलस्य जनसंख्या १,२६८,०९४ अस्ति। भारतस्य ६४० मण्डलेषु जनसंख्या दृष्ट्या अस्यमण्डलस्य ३८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५३३ (१३८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्ह्या वृद्धेः प्रमाणं ८.४३% आसीत्। मण्डले पुं, स्त्री अनुपातः १०००:१०२०, साक्षरताप्रमाणं च ८३.२६% अस्ति।

उपमण्डलानि

[सम्पादयतु]

तिरुवारूरुमण्डले सप्त उपमण्डलानि सन्ति । तानि-

* कूडवासल्
* मन्नार्गुडिः
* नन्निलम्
* नीडमङ्गलम्
* तिरुत्तुरैपूण्डिः
* तिरुवारूरुः
* वलङ्गैमन्

वीक्षणीयस्थलानि

[सम्पादयतु]

तिरुवारूरुः

[सम्पादयतु]

तिरुवारूरुपत्तने श्रीत्यागराजस्वामिनः देवालयः अस्ति । इदं पवित्रं क्षेत्रं कर्णाटकसङ्गीतसम्प्रदायस्य त्रिमूर्तित्वेन ख्यातानां त्यागराज, मुत्तुस्वामिदीक्षित, श्यामशास्त्रिणां जन्मस्थानम् । अस्मिन् पत्तने प्रतिवर्षम् ‘अऴऴितेरु’ इत्याख्यः रथोत्सवः आचर्यते ।

मन्नार्गुडिः

[सम्पादयतु]

इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामि देवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌-मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।

एङ्गन्

[सम्पादयतु]

तिरुवारूरुतः १३ किलोमीटर् दूरे स्थिते अस्मिन् पत्तने मुरुगस्य देवालयः अस्ति ।

तिल्लैविलगम्

[सम्पादयतु]

अयं ग्रामः तिरुत्तुरैपूण्डि उपमण्डले तिरुत्तुरैपूण्डितः २० किलोमीटर् दूरे अस्ति । अत्र श्रीकोदण्डरामस्वामिनः देवालयः अस्ति । श्रीवैष्णवानां पवित्रेषु अभिमानदेशक्षेत्रेषु इदम् अन्यतमम् । श्रीरामस्य देवालयस्य समीपे एव नटराजस्य मन्दिरम् अपि अस्ति।

कूतनूरुः

[सम्पादयतु]

तिरुवारूरुतः २२ किलोमीटर् दूरे स्थिते नन्निल उपमण्डलस्य कूतनूरुक्षेत्रे सरस्वतीदेव्याः मन्दिरम् अस्ति ।

जम्बवनोदै दर्गा

[सम्पादयतु]

तिरुत्तुरैपूण्डि उपमण्डले विद्यमानम् इदं मुस्लिमसमुदायस्य जनानां पवित्रक्षेत्रम् । इदं तिरुवारूरुतः ५३ किलोमीटर् दूरे, तिरुत्तुरैपूण्डितः २५ किलोमीटर् दूरे च अस्ति।

  1. www.tn.gov.in

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=तिरुवारूरुमण्डलम्&oldid=489944" इत्यस्माद् प्रतिप्राप्तम्