तिरुवारूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिरुवारूरुमण्डलम्

திருவாரூர் மாவட்டம்

—  मण्डलम्  —
तिरुवारूरुदेवालयस्य पुष्करिणी
तिरुवारूरुदेवालयस्य पुष्करिणी
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् कूडवासल्, मन्नार्गुडिः, नन्निलम्, नीडमङ्गलम्, तिरुत्तुरैपूण्डिः, तिरुवारूरुः, वलङ्गैमन्
Collector एस्. नटराजन्, IAS
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: १०°४६′ उत्तरदिक् ७९°३८′ पूर्वदिक् / 10.767°उत्तरदिक् 79.633°पूर्वदिक् / १०.७६७; ७९.६३३
जालस्थानम् Official website of Tiruvarur District

तिरुवारूरुमण्डलं (Tiruvarur District) (तमिऴ्: திருவாரூர் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं तिरुवारूरुपत्तनम्।

भौगोलिकम्[सम्पादयतु]

तिरुवारूरुमण्डलस्य विस्तारः २१६१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पूर्वभागे उत्तरभागे च नागपट्टिनमण्डलं, पश्चिमे तञ्जावूरुमण्डलम्, ईशान्ये पुदुच्चेर्याः कारैकल्मण्डलं च अस्ति । दक्षिणभागे पाक् जलसङ्क्रमः अस्ति ।

इतिहासः[सम्पादयतु]

१९९१ तः प्राक् तिरुवारूरुमण्डलं नागपट्टिनमण्डलं च तञ्जावूरुमण्डलस्यभागः आस्ताम् । ततः तञ्जावूरुमण्डलं त्रेधाविभक्तम् । ततः भागान् स्वीकृत्य नागपट्टिन, तिरुवारूरुमण्डले निर्मितम् । तिरुवारूरुमण्डलस्य मुख्यानि पत्तनानि तिरुवारूरुः, तिरुत्तुरैपूण्डिः, नच्चिकुळं, मुत्तुपेट्टै, मन्नार्गुडिः च।

जनसंख्या[सम्पादयतु]

२०११ वर्षस्य जनगणनानुगुणं तिरुवारूरुमण्डलस्य जनसंख्या १,२६८,०९४ अस्ति। भारतस्य ६४० मण्डलेषु जनसंख्या दृष्ट्या अस्यमण्डलस्य ३८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५३३ (१३८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्ह्या वृद्धेः प्रमाणं ८.४३% आसीत्। मण्डले पुं, स्त्री अनुपातः १०००:१०२०, साक्षरताप्रमाणं च ८३.२६% अस्ति।

उपमण्डलानि[सम्पादयतु]

तिरुवारूरुमण्डले सप्त उपमण्डलानि सन्ति । तानि-

* कूडवासल्
* मन्नार्गुडिः
* नन्निलम्
* नीडमङ्गलम्
* तिरुत्तुरैपूण्डिः
* तिरुवारूरुः
* वलङ्गैमन्

वीक्षणीयस्थलानि[सम्पादयतु]

तिरुवारूरुः[सम्पादयतु]

तिरुवारूरुपत्तने श्रीत्यागराजस्वामिनः देवालयः अस्ति । इदं पवित्रं क्षेत्रं कर्णाटकसङ्गीतसम्प्रदायस्य त्रिमूर्तित्वेन ख्यातानां त्यागराज, मुत्तुस्वामिदीक्षित, श्यामशास्त्रिणां जन्मस्थानम् । अस्मिन् पत्तने प्रतिवर्षम् ‘अऴऴितेरु’ इत्याख्यः रथोत्सवः आचर्यते ।

मन्नार्गुडिः[सम्पादयतु]

इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामि देवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌-मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।

एङ्गन्[सम्पादयतु]

तिरुवारूरुतः १३ किलोमीटर् दूरे स्थिते अस्मिन् पत्तने मुरुगस्य देवालयः अस्ति ।

तिल्लैविलगम्[सम्पादयतु]

अयं ग्रामः तिरुत्तुरैपूण्डि उपमण्डले तिरुत्तुरैपूण्डितः २० किलोमीटर् दूरे अस्ति । अत्र श्रीकोदण्डरामस्वामिनः देवालयः अस्ति । श्रीवैष्णवानां पवित्रेषु अभिमानदेशक्षेत्रेषु इदम् अन्यतमम् । श्रीरामस्य देवालयस्य समीपे एव नटराजस्य मन्दिरम् अपि अस्ति।

कूतनूरुः[सम्पादयतु]

तिरुवारूरुतः २२ किलोमीटर् दूरे स्थिते नन्निल उपमण्डलस्य कूतनूरुक्षेत्रे सरस्वतीदेव्याः मन्दिरम् अस्ति ।

जम्बवनोदै दर्गा[सम्पादयतु]

तिरुत्तुरैपूण्डि उपमण्डले विद्यमानम् इदं मुस्लिमसमुदायस्य जनानां पवित्रक्षेत्रम् । इदं तिरुवारूरुतः ५३ किलोमीटर् दूरे, तिरुत्तुरैपूण्डितः २५ किलोमीटर् दूरे च अस्ति।

  1. www.tn.gov.in

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिरुवारूरुमण्डलम्&oldid=482874" इत्यस्माद् प्रतिप्राप्तम्