नागपट्टिणमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
नागपट्टणमण्डलम्
—  मण्डलम्  —


Location of नागपट्टणमण्डलम्
in तमिळुनाडु
निर्देशाङ्काः

१०°४६′१.२″ उत्तरदिक् ७९°४९′५८.८″ पूर्वदिक् / 10.767000°उत्तरदिक् 79.833000°पूर्वदिक् / १०.७६७०००; ७९.८३३०००

देशः भारतम्
राज्यम् तमिळुनाडु
उपमण्डलम् Kilvelur, Kutthalam, Mayiladuthurai, Nagapattinam, Sirkali, Tharangambadi, Thirukkuvalai, Vedaranyam.
केन्द्रप्रदेशः नागपट्टिणम्
Collector T.Munusamy, IAS
सांसदक्षेत्रम् 2
विधानसभा 5
Municipal Corporations Nagapattinam
Municipalities
Town Panchayats
व्यावहारिकभाषा(ः) Tamil
समयवलयः IST (UTC+05:30)
Central location: १०°४६′ उत्तरदिक् ७९°४९′ पूर्वदिक् / 10.767°उत्तरदिक् 79.817°पूर्वदिक् / १०.७६७; ७९.८१७
जालस्थानम् [http://[१] Official website of nagapattinam District]

नागपट्टिनमण्डलं (Nagapattinam district)(तमिऴ्: நாகபட்டினம் மாவட்டம்) नागपट्टिनं भारतस्य तमिऴ्नाडुराज्यस्य समुद्रतीरस्थमण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं नागपट्टिनपत्तनम् । तमिऴ्नाडुराज्यस्य भूतपूर्वः मुख्यमन्त्री करुणानिधिः, चलच्चित्रनिदेशकः टि.राजेन्द्रः च अस्य मण्डलस्य विख्यातव्यक्तिषु अन्यतमौ ।

इतिहासः[सम्पादयतु]

पुरा नागपट्टिनमण्डलं तञ्जावूरुमण्डलस्य भागः आसीत् । १९९१ तमवर्षस्य अक्टोबर्‌मासस्य अष्टादशे तञ्जावूरुमण्डलतः नागपट्टिनं पृथक्कृतम् । इदं मण्डलं ‘पूर्वतञ्जावूरु’ इति, ‘दक्षिणभारतस्य तण्डुलागारः’ इति च ख्यातः अस्ति । अत्र प्राचीनकाले चोळानां पाण्ड्यानां च प्रशासनम् आसीत् । करिकाळचोळः प्रसिद्धं पूम्पुहार नौकास्थानकं निर्मितवान् । कोसगचोळः बहून् शैवदेवालयान् निर्मितवान् । १६२० तमे वर्षे अत्र डानिश् जनाः स्वनिवासं निर्मितवन्तः ।

भौगोलिकम्[सम्पादयतु]

नागपट्टिनमण्डलं बङ्गालसमुद्रस्य तीरे वर्तते । अस्य मण्डलस्य विस्तारः २७१५ चतुरश्रकिलोमीटर् । अस्य केन्द्रस्थानं नागपट्टिनं राजधान्याः चेन्नैनगरात् ३५० किलोमीटर् दक्षिणे अस्ति । अस्य मण्डलस्य उत्तरदिशि कडलूरुमण्डलं, पश्मिमे अरियलूरु, तञ्जावूरु, तिरुवारूरुमण्डलानि च सन्ति । पूर्वत्र बङ्गालसमुद्रः अस्ति । दक्षिणे पाक् सरणिः (पाक् स्त्रैट्) अस्ति । तमिऴ्नाडुराज्ये इदम् एकमेव मण्डलं यस्मिन् द्वौ विलग्नौ भागौ स्तः । तरङ्गम्बाडि तथा नागपट्टिनयोः उपमण्डलयोः मध्ये समुद्रतीरे पुदुच्चेरीकेन्द्रप्रशासितप्रदेशस्य कारैकल् मण्डलम् अस्ति ।

जनसंख्या[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणं नागपट्टिनमण्डले १,६१४,०६९ जनाः सन्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३१० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६६८ (१७३० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः ८.४१% आसीत् । अस्य मण्डलस्य पुं, स्त्री अनुपातः १०००:१०२५, साक्षरताप्रमाणं च ८४.०९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

नागपट्टिनमण्डले अष्ट उपमण्डलानि सन्ति।

  • नागपट्टिनम्
  • कीऴ्वेलूरु
  • कुत्तलम्
  • मयिलाडुतुरै
  • सीर्काऴि
  • तरङ्गम्बाडि
  • तिरुक्कुवलै
  • वेदारण्यम्
  • आर्थिकता

२००६ तमे वर्षे केन्द्रसर्वकारस्य पञ्चायती राज् सचिवालयेन निर्दिष्टेषु देशस्य २५० अतिदीनमण्डलेषु नागपट्टिनम् अपि परिगणितम् । सम्प्रति, तमिऴ्‌नाडुराज्यस्य षट् मण्डलानि सर्वकारस्य दीनप्रदेशसहायधनयोजनया (Backward Regions Grant Fund Programme) साहाय्यं लभमानाः सन्ति। तेषु नागपट्टिनम् अन्यतमम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

वैलङ्कन्नि[सम्पादयतु]

मण्डलस्य पूर्वसमुद्रतीरे नागपट्टिनात् १२ किलोमीटर् दक्षिणे इदं पत्तनम् अस्ति । अत्र विख्यातः रोमन् क्याथोलिक् क्रैस्तदेवालयः अस्ति । क्रिस्तीयषोडशशतकस्य मध्यभागे अयं देवालयः निर्मितः । चण्डमारुतेन आक्रान्तानां केषाञ्चन पोर्चुगीसनाविकानां संरक्षणस्य स्मारकत्वेन अयं देवालयः निर्मितः ।

नागूरु[सम्पादयतु]

इदं पत्तनं नागपट्टिनात् ४ किलोमीटर् अस्ति । अत्र नागूरुदर्गा इत्याख्या सुप्रसिद्धा दर्गा अस्ति । मतधर्मान् अविगणय्य अत्र लक्षशः भक्ताः प्रतिवर्षम् आगच्छन्ति । एषा दर्गा पञ्चशतवर्षेभ्यः प्राक् निर्मिता ।

मयिलाडुतुरै[सम्पादयतु]

पूर्वकाले ‘मायावरम्’ इति , ‘मयूरम्’ इति च ख्यातम् इदं पत्तनं नागपट्टिनमण्डले विस्तारदृष्ट्या द्वितीयम् । अत्र पार्वती मयूर्याः रूपं धृत्वा शिवम् आराधितवती इति कथा । इदं पत्तनं २७४ शैवपुण्यक्षेत्रेषु अन्यतमम् । अत्रत्यः मयूरनाथस्वामिदेवालयः चोळानां काले निर्मितः । अत्र १६४ पादोन्नतं गोपुरम् अस्ति । अस्मिन् देवालये विद्यमाना दुर्गादेव्याः मूर्तिः अतिकमनीया अस्ति । कोर्नाडे विद्यमानः पुनुकीश्वरदेवालयः, काशीविश्वनाथदेवालयः च अस्य पत्तनस्य अपरे प्रमुखे देवमन्दिरे ।

पूम्बुहारः[सम्पादयतु]

कावेरीनद्याः अन्त्यदेशे इदं पत्तनम् अस्ति । अत्र शिलप्पदिकारकलाकृतिसङ्ग्रहः निर्मितः अस्ति । तमिऴ्महाकाव्यस्य शिलप्पदिकारस्य प्रसङ्गाः अस्य सङ्ग्रहालयस्य भित्तिषु चित्रिताः सन्ति । मामल्लपुरकलाविद्यालयस्य छात्रैः निर्मिताः एते शिल्पाः तमिऴ्संस्कृतेः प्रतिनिधित्वेन शोभन्ते । अस्मिन् पत्तने मसिलमणिनाथदेवालयः अपि अस्ति । अयं देवालयः १३०५ तमे वर्षे मारवर्मकुलशेखरपाण्ड्येन निर्मितः । यद्यपि अस्य देवालयस्य बहवः भागः समुद्रतरङ्गैः नाशिताः, तथापि अस्य शिल्पकलासौन्दर्यं प्रवासिनः आकर्षति ।

कोडिक्करै अरण्यम्[सम्पादयतु]

नागपट्टिनमण्डलस्य आग्नेयाग्रे विद्यमाने अस्मिन् अरण्ये पायिण्ट् क्यालिमेर् वन्यमृगपक्षिसंरक्षण स्थापितम् अस्ति । अस्य संरक्षितारण्यस्य विस्तारः २१.४७ चतुरश्रकिलोमीटर् । इदं संरक्षितारण्यं १९६७ तमे वर्षे कृष्णमृगस्य संरक्षणार्थं स्थापित । अत्र बहवः जलपक्षिणः अपि दृश्यन्ते, तत्र विशिष्टः ग्रेटर् फ़्लेमिङ्गो इत्याख्यः पक्षिप्रभेदः प्रमुखः । अस्य संरक्षितारण्यस्य अत्युन्नते भागे ‘रामपादः’ इति नाम्ना कश्चन लघुदेवालयः अस्ति । अत्र श्रीरामस्य पादचिह्नानि सन्ति ।

तरङ्गम्बाडिः[सम्पादयतु]

कारैकल्तः १५ किलोमीटर् उत्तरे विद्यमानम् इदं पत्तनं १६२० तः १८४५ पर्यन्तं डानिश् जनैः आक्रान्तः आसीत् । अत्र डानिश् निवासकालस्य ताडपत्राणि, काचवस्तूनि, पुत्थलिकाः, दीपाः, खड्गाः, शिल्पाः, काष्ठवस्तूनि इत्यादीनि वस्तुसङ्ग्रहालये द्रष्टुं शक्यानि । १६२० तमे वर्षे निर्मितः दुर्गः अपि अत्र अस्ति ।

तिरुक्कडैयूरु[सम्पादयतु]

कारैकल्तः १५ किलोमीटर् उत्तरे विद्यमाने इदं प्रसिद्धं शैवक्षेत्रम् । अस्मिन् पत्तने अमृतघटेश्वर-अभिरामीदेवालयः अस्ति । अत्रैव परमेश्वरः बालभक्तं मार्कण्डेयं यमात् रक्षितवान् इति प्रतीतिः । अत्रत्यः मूलदेवालयः ‘तिरुक्कडैयूरु मयनम्’ इति ख्यातः क्रिस्तीये एकादशशतके निर्मितः । सः समुद्रतरङ्गैः नाशितः । पुनः तस्यैव देवालयस्य आकृतौ अपरः देवालयः निर्मितः अस्ति । दीर्घायुष्यं प्रार्थयमानाः भक्ताः अत्र आगत्य देवस्य देव्याः च पूजां विदधति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. www.tn.gov.in
"https://sa.wikipedia.org/w/index.php?title=नागपट्टिणमण्डलम्&oldid=404077" इत्यस्माद् पुनः प्राप्तिः