सामग्री पर जाएँ

करूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(करूर् मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
करूरुमण्डलम्

கரூர் மாவட்டம்

—  मण्डलम्  —


Location of करूरुमण्डलम्
in तमिऴ्‌नाडु
निर्देशाङ्काः

१०°५७′२८.८″ उत्तरदिक् ७८°४′४८″ पूर्वदिक् / 10.958000°उत्तरदिक् 78.08000°पूर्वदिक् / १०.९५८०००; ७८.०८०००

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
उपमण्डलम् अरवकुरिच्चिः, करूरु, कडवूरु, कृष्णरायपुरम्, कुळितलै
केन्द्रप्रदेशः करूरुनगरम्
बृहत्तमं नगरम् करूरुनगरम्
बृहत्तमं महानगरम् करूरुनगरम्
Collector वि। शोभना,IAS
सांसदक्षेत्रम् 1 - Karur
विधानसभा 4
नगरसभा (Municipal Corporations) करूर्
Municipality कुळितलै
ग्रामपन्चायत्
जनसङ्ख्या

• सान्द्रता

१०,७६,५८८ (2011)

371 /किमी2 (961 /वर्ग मील)

लिङ्गानुपातः 1015 /
साक्षरता 81.74% 
व्यावहारिकभाषा(ः) तमिऴ्
समयवलयः IST (UTC+05:30)
Central location: १०°५७′ उत्तरदिक् ७८°४′ पूर्वदिक् / 10.950°उत्तरदिक् 78.067°पूर्वदिक् / १०.९५०; ७८.०६७
जालस्थानम् Official website of Karur District

करूरुमण्डलम् (Karur district) (तमिऴ्: கரூர் மாவட்டம) करूरुमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मध्यभागे कावेरी, अमरावतीनद्योः तीरे विद्यमानं मण्डलम् । अस्य मण्डलस्य केन्द्रं करूरुपत्तनम् ।

इतिहासः

[सम्पादयतु]

करूरुपत्तनं तमिऴ्नाडुराज्यस्य प्राचीनतमपत्तनेषु अन्यतमम् । तमिऴ्जनानाम् इतिहासे संस्कृतौ च अस्य पात्रं महद् अस्ति । अस्य पत्तनस्य ३००० वर्षेभ्यः अपि अधिकाः इतिहासः अस्ति । प्राचीनसङ्गमकाले अपि अत्र वाणिज्यं प्रवृद्धम् आसीत् इति ज्ञायते । करूरु प्राचीनतमिऴ्प्रदेशेषु कोङ्गुनाडुनः भागः आसीत् । अत्र चेराणां, गङ्गानां, चोळानां च प्रशासनम् आसीत् । करूरुपत्तनं चेरराजानां राजधानी आसीत् । तिरुज्ञानसम्बन्धेन प्रशस्तः पशुपतीश्वरदेवालयः करूरौ चोळराजैः क्रिस्तीये सप्तमशतके निर्मितः । तदनन्तरकाले करूरुं नायकाः,टिप्पूसुल्तानः च शासितवन्तः । ब्रिटिशाः टिप्पूसुल्तानं १७८३ तमे वर्षे पराजित्य करूरुदुर्गं नाशयित्वा इदं पत्तनं स्वायत्तीकृतवन्तः । आङ्ग्लोमैसूरुसमरेषु प्राणार्पणं कृतवतां योधानां स्मरणार्थं करूरुसमीपे रायनूरौ स्मारकम् अस्ति । ब्रिटिश् प्रशासने करूरुः आदौ कोयम्पुत्तूरुमण्डलं, ततः तिरुचिरापळ्ळिमण्डलस्य भागः आसीत् ।

भौगोलिकम्

[सम्पादयतु]

करूरु तमिऴ्नाडुराज्ये मध्यभागे विद्यमानेषु मण्डलेषु अन्यतमम् । अस्य मण्डलस्य उत्तरसीमायां नामक्कल् मण्डलम्, दक्षिणे दिण्डुक्कल् मण्डलम्, पूर्वस्मिन् तिरुचिरापळ्ळिमण्डलम्, पश्चिमभागे ईरोडुमण्डलं च अस्ति । राज्यस्य राजधान्याः चेन्नैतः इदं प्रायः ३७१ किलोमीटर् दूरे अस्ति । मे, जून् मासयोः अत्यधिकः उष्णांशः (३४० सी) अनुभूयते । वर्षे कानिचन दिनानि ३८० सीतः अधिकः उष्णांशः अपि अनुभूयते । जनवरी मासे शैत्यकाले उष्णांशः प्रायेण २३० सी भवति । १७० सीतः न्यूनः उष्णांशः अतिविरलः एव । वार्षिकवृष्टिः ७७५ मिल्लीमीटर् भवति । प्रायेण सेप्टम्बर् अन्त्यतः नवेम्बर् मध्यपर्यन्तं वृष्टिकालः भवति ।

जनसंख्या

[सम्पादयतु]

२०११ तमे वर्षे जनगणनानुगुणं करूरुमण्डलस्य जनसंख्या १,०७६,५८८ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ४२२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७१ (९६० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिप्रमाणं १५.०६ आसीत् । करूरुमण्डले पुं, स्त्री अनुपातः १०००:१०१५ अस्ति । साक्षरताप्रमाणं ७५.८६% ।

उपमण्डलानि

[सम्पादयतु]

करूरुमण्डले पञ्च उपमण्डलानि सन्ति ।

  1. करूरु
  2. अरवकुरिच्चिः
  3. कडवूरु
  4. कृष्णरायपुरम्
  5. कुळितलै

कृषिः वाणिज्यं च

[सम्पादयतु]

करूरुमण्डले प्रमुखतः कृष्णमृत्तिका दृश्यते । अत्रत्यानि प्रमुखाणि सस्यानि तण्डुलः, कदली, इक्षुखण्डः, नागवल्ली, धानाः, कलायः, तैलबीजानि, शाकाः, मालिकापुष्पाणि, औषधीयसस्यानि च । करूरुमण्डलस्य गृहवस्त्रोत्पादनं ख्यातम् अस्ति । पर्यङ्कवस्त्राणि, पाकगृहवस्त्राणि, शौचालयवस्त्राणि, उत्पीठिकावस्त्राणि, भित्त्यलङ्कारवस्त्राणि इति पञ्चप्रभेदानां वस्त्राणि अत्र प्रमुखतया उत्पाद्यन्ते । साक्षात् तथैव परम्परागतविदेशविक्रयणेन करूरुमण्डलस्य वार्षिकः वैदेशिकविनिमयः ६००० कोटिभ्यः अधिकः । एतत्सम्बद्धेषु सीवनयन्त्रागारेषु, वर्णागारेषु, तन्तुवायेषु च करूरुपरिसरे ४५०००० जनाः उद्योगरताः सन्ति ।

करूरुमण्डलं प्रति केरलतः हस्तसीवनोद्यमः आगतः । अद्य उत्तमगुणवत्तया अत्रत्यानि उत्पादनानि अन्ताराष्ट्रियस्तरे अमूल्यानि सन्ति । तमिऴ्नाडुसर्वकारेण विश्ववित्तकोशस्य साहाय्येन तमिऴ्नाडु न्यूस्प्रिण्ट् अण्ड् पेपर्स् संस्था करूरुमण्डले कागदपुरे संस्थापितं भवति। इयं संस्था अद्य बगासे-आधारितकागदोत्पादने विश्वे एव प्रथमस्थाने अस्ति । एशियाखण्डे कागदोत्पादकेषु अस्याः द्वितीयं स्थानम् । प्रतिवर्षं टि. एन्‌. पि. एल् संस्थया एकदशलक्षटन् बगासेकागदम् उपयुज्य २३०००० टन् परिमितं मुद्रणलेखनकागदम् उत्पाद्यते ।

करूरुमण्डलं लोकायानशरीरनिर्माणोद्यमार्थम् अपि प्रसिद्धम् अस्ति । दक्षिणभारतस्य वैयक्तिक लोकयानशरीरेषु ९०% करूरुमण्डले एव निर्मीयन्ते इति उल्लेखार्हम् । अस्मिन् उद्यमे प्रतिवर्षं प्रायः २७५० कोटिरूप्यकाणां व्यवहारः भवति । करूरुपत्तने ४५ तः अधिकाः लोकयानशरीरनिर्माणं भवति । प्रतिवर्षं ३५०० तः अधिकानि लोकायानानि अत्र निर्मीयन्ते । कर्णाटक, तमिऴ्नाडु सर्वकारीय लोकयानानि अपि अत्रैव निर्मीयन्ते । चेट्टिनाडु सिमेण्ट् संस्थायाः, करूरु वैश्य ब्याङ्क्, लक्ष्मीविलास ब्याङ्क् इत्येतयोः वैयक्तिकवित्तकोशयोः मूलस्थानं करूरुमण्डलम् । करूरुप्रदेशे नीलराग-इन्द्रनील-चन्द्रकान्तप्रभृतीनि अमूल्यरत्नानि अपि लभ्यन्ते ।

वीक्षणीयस्थलानि

[सम्पादयतु]
  • श्रीमरकतीश्वरदेवालयः (१२०० वर्षेभ्यः प्राक् निर्मितः), मूलपाळैयम्, मुनूरुग्रामः ।
  • श्रीकल्याणपशुपतीश्वरदेवालयः (तिरु आनिलै), करूरु ।
  • श्रीअभयप्रदरङ्गनाथदेवालयः, करूरु ।
  • श्रीकरुवूरुमारियम्मदेवालयः, करूरु ।
  • तन्तोण्ड्रिमलै श्रीकल्याणवेङ्कटरमणस्वामिदेवालयः ।
  • वेण्णैमलै श्रीबालसुब्रह्मण्यस्वामिदेवालयः ।
  • पुगऴिमलै श्रीबालसुब्रह्मण्यस्वामिदेवालयः (आरु नाटर् मलै), पुगळूरु (२००० वर्षप्राचनम्) ।
  • बालमलै श्रीबालदण्डायुधपाणिदेवालयः ।
  • वेञ्चमङ्गुदलूरु विगिर्तीश्वरदेवालयः ।
  • नोय्यल् श्रीसेलान्दियम्मन् देवालयः ।
  • अत्तूरु शोलियम्मन् देवालयः ।
  • वङ्गाल श्रीवङ्गालम्मन् देवालयः ।
  • नेरूरु श्रीसदाशिवब्रह्मेन्द्रस्वामी देवालयः ।
  • मधुक्करै सेल्लन्दियम्मन् देवालयः ।
  • मन्मङ्गलं श्रीकालियम्मन् देवालयः ।
  • कृष्णरायपुरं तिरुक्कण्मल्लेश्वरदेवालयः ।
  • कडवूरु वसन्तपेरुमाळ् देवालयः ।
  • कुळित्तलै नीलमेघपेरुमाळ् देवालयः ।
  • अय्यर्‌मलै रत्नगिरीश्वरदेवालयः ।
  • शिवायं शिवपुरीश्वरदेवालयः ।
  • लालपेट अय्यप्पदेवालयः (तमिऴ्नाडुराज्ये प्रथमः अय्यप्पदेवालयः) ।
  • ललपेट श्रीजयआञ्जनेयदेवालयः (३०० वर्षप्राक्तनम्) ।
  • तमलै मुरुगदेवालयः ।
  • रङ्गमलै मल्लीश्वरदेवालयः ।
  • पुलियूरु व्याघ्रपुरीश्वरदेवालयः (त्रयोदशशतकस्य) ।
  • पुलियूरु राजकालियम्मन् देवालयः ।

प्रवासस्थलानि

[सम्पादयतु]
  • मायनूरु – कावेरीतीरनियन्त्रकः, नदीतटस्थम् उद्यानम् ।
  • चेट्टिपाळैयम् – अमरावतीतीरनियन्त्रकः, उद्यानम् ।
  • तिरुमुक्कूडल् – कावेरी-अमरावतीनद्योः सङ्गमः ।
  • नोय्यल् – कावेरी-नोय्यल्नद्योः सङ्गमः ।
  • नेरूरु – श्रीमठः, ध्यानमण्डपः, नदीतीरस्थम् उद्यानम् ।
  • कडवूरु – पोन्नियार् जलबन्धः, उद्यानम् ।
  1. www.tn.gov.in

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=करूरुमण्डलम्&oldid=468188" इत्यस्माद् प्रतिप्राप्तम्