तिरुवळ्ळूरुमण्डलम्
तिरुवळ्ळूरुमण्डलम् திருவள்ளூர் மாவட்டம் | |
---|---|
मण्डलम् | |
तिरुवळ्ळूरुदेवालयम् | |
तमिळ्नाडुराज्ये तिरुवळ्ळूरुमण्डलम् | |
राष्ट्रम् | India |
State | तमिळ्नाडु |
Boroughs | तिरुवळ्ळूरुः, पून्नमल्ली, पोन्नेरिः, गुम्मिडिपूण्डिः, ऊत्तुकोट्टै, तिरुत्तणिः, पळ्ळिप्पाट्टुः, अम्बत्तूरुः, मादावरम् |
Government | |
• Collector | आशिश् चाटेर्जी, IAS |
Area | |
• Total | ३,४२२ km२ |
Population (2011) | |
• Total | ३७,२५,६९७ |
• Rank | 4 |
• Density | १,०४९/km२ |
भाषाः | |
दूरवाणि सङ्केतः | 044 |
Sex ratio | 983 ♂/♀ |
साक्षरताप्रतिशतम् | 83.33% |
Central location: | १३°८′ उत्तरदिक् ७९°५४′ पूर्वदिक् / 13.133°उत्तरदिक् 79.900°पूर्वदिक् |
Avg. summer temperature | 37.9 °से (100.2 °फ़ै) |
Avg. winter temperature | 18.5 °से (65.3 °फ़ै) |
Website | www.tiruvallur.tn.nic.in |
तिरुवळ्ळूरुमण्डलं (Tiruvallur District) (तमिऴ्: திருவள்ளூர்மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुवळ्ळूरुपत्तनम् । अस्मिन् मण्डले नगर, ग्रामीणप्रदेशयोः साङ्कर्यं दृश्यते । मण्डलस्य पूर्वभागे नगरप्रदेशाः अधिकाः । दक्षिणभागे उत्तरभागे च आन्ध्रसंस्कृतेः प्रभावः दृश्यते । अस्मिन् मण्डले तमिऴ्, तेलुगु, उर्दू, मलयाळभाषाः भाष्यन्ते । हिन्दूसमुदायस्य जनाः अत्र अधिकसंख्याकाः ।
व्युत्पत्तिः
[सम्पादयतु]‘तिरुवळ्ळूरु’ इति पदम् ‘तिरु’, ‘एव्वुळ्ळ्’ इति तमिऴ्भाषापदाभ्यां व्युत्पन्नम् । ‘तिरु’ इत्यस्य ‘देवः’ इत्यर्थः । ‘एव्वुळ्ळ्’ इत्यस्य ‘कुत्र स्वपिमि?’ इत्यर्थः । अत्रत्यः देवः वीरराघवः कञ्चन सन्तं रात्रौ स्वपितुं स्थलं याचितवान् इति स्थलपुराणेन सम्बद्धं भवति ।
इतिहासः
[सम्पादयतु]क्रिस्तीयसप्तमशतके पल्लवानां प्रशासनाद् आरभ्य एकोनविंशतिशतके ब्रिटिशानां प्रशासनपर्यन्तम् अस्मिन् प्रदेशे बहूनां राजवंशानां प्रशासनं दृष्टम् । कर्णाटकसमरस्य रणाङ्गणम् आसीत् अयं प्रदेशः । अद्यतनं तिरुवळ्ळूरुमण्डलं चेङ्गलपाट्टुमण्डलस्य विभजनेन निर्मितम् ।
भौगोलिकम्
[सम्पादयतु]तिरुवळ्ळूरुमण्डलस्य विस्तारः ३४२४ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे आन्ध्रप्रदेशः, पूर्वत्र बङ्गालसमुद्रः, आग्नेयदिशि चेन्नैमण्डलं, दक्षिणे काञ्चिपुरमण्डलं, पश्चिमे वेलूरुमण्डलं च अस्ति । मण्डलस्य तीरप्रदेशः समभूमिः । इतरभागेषु निम्नोन्नतप्रदेशाः, गिरिप्रदेशाः च दृश्यन्ते ।
जनसंख्या
[सम्पादयतु]२०११ तमवर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ३,७२५,६९७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ७० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् १,०४९ (२,७२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ३५.२५% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९८३ अस्ति, साक्षरताप्रमाणं च ८३.८२% ।
उपमण्डलानि
[सम्पादयतु]तिरुवळ्ळूरुमण्डले नव उपमण्डलानि सन्ति । तानि -
- १) तिरुवळ्ळूरुः
- २) पून्नमल्ली
- ३) पोन्नेरिः
- ४) गुम्मिडिपूण्डिः
- ५) ऊत्तुकोट्टै
- ६) तिरुत्तणिः
- ७) पळ्ळिप्पाट्टुः
- ८) अम्बत्तूरुः
- ९) मादावरम्
आर्थिकता
[सम्पादयतु]औद्यमिकप्रगतेः दृष्ट्या तमिऴ्नाडुराज्ये अत्यन्तं वेगेन वर्धमानेषु मण्डलेषु तिरुवळ्ळूरु अपि अन्यतमम् । मद्रास् रिफ़ैनरीस्, मद्रास् फ़र्टिलैज़र्स्, मनालि पेट्रोकेमिकल्स्, एम्. आर्. एफ़्, अशोक् लीलाण्ड्, टिऐ सैकल्स्, ब्रिटानिया इण्डिया, पारी इण्डिया, हिन्दूस्तान् मोटर्स् प्रभृतयः अनेके उद्यमाः अस्मिन् मण्डले दृश्यन्ते । एण्णूरु उष्णविद्युत्स्थावरः, आवडि ट्याङ्क् उत्पादनकेन्द्रं च अस्मिन् मण्डले एव स्तः । अस्मिन् मण्डले १६ औद्यमिकभूमयः सन्ति, सर्वाः अपि कार्यरताः । आसु ११ सर्वकारेण निर्मिताः, ५ वैयक्तिकतया । अस्मिन् मण्डले १६,९४० लघूद्यमाः सन्ति । येषु प्रमुखतया आहारकाष्ठकार्यवस्त्रनिर्माण-रासायनिक आभियन्त्रिक अलोहचर्मकार्यागाराः दृश्यन्ते ।
वीक्षणीयस्थलानि
[सम्पादयतु]तिरुवळ्ळूरु वीरराघवस्वामिदेवालयः
[सम्पादयतु]तिरुवळ्ळूरुक्षेत्रं प्राक्काले भिक्ष्वरण्यम् इति ख्यातम् आसीत् । अत्रत्यः आराध्यदेवः वीरराघवः, देवी च कनकवल्ली । अस्य देवालयस्य तडागः ‘हृत्तापनाशनः’ इति ख्यातः । तत्सम्बद्धः श्लोकः कश्चन श्रूयते –
- दर्शनात् स्पर्शनात् स्नानात् सद्यो हृत्तापनाशनः ।
- अतो सर्वेषु लोकेषु नाम्ना हृत्तापनाशनः ॥
तडागस्य मध्ये मण्डपः अस्ति, यत्र देवालयस्य उत्सवाः आचर्यन्ते । देवालयस्य गोपुरेषु द्राविडशैल्याः शिल्पाः सन्ति, यैः पौराणिककथाः चित्रिताः सन्ति ।
तिरुत्तणिः
[सम्पादयतु]अत्र समुद्रस्तरात् ७०० पादानाम् औन्नत्ये एकशिलायाः उपरि मुरुगस्य देवालयः अस्ति । इदं क्षेत्रं अरक्कोणतः १३ किलोमीटर् दूरे अस्ति । आरुपडैवीडुक्षेत्रेषु इदम् अन्यतमम् । असुरेभ्यः क्रुद्धस्य कार्त्तिकेयस्य क्रोधः अत्र शान्तः । अतः इदं क्षेत्रं ‘शान्तिपुरी’ इति प्रसिद्धम् । मुरुगः अत्र ‘तनिकेशः’ इति नाम्ना पूज्यते, गिरेः च नाम तनिकाचलः इति ।
तिरुवेर्काडुः
[सम्पादयतु]इदं क्षेत्रं चेन्नैनगरात् १८ किलोमीटर् दूरे अस्ति । अत्र देवीकरुमारियम्मन् देवालयः अस्ति । भानुवासरेषु भक्ताः अधिकसंख्यायाम् अत्र आगत्य देवीं पूजयन्ति ।
पेरियपाळैयम्
[सम्पादयतु]चेन्नैनगरात् ४५ किलोमीटर् दूरे स्थिते अस्मिन् क्षेत्रे भवानीदेव्याः मन्दिरम् अस्ति । सौरकालमानस्य कर्काटक, सिंहमासयोः (तमिऴ् सम्प्रदाये आडि, आवणिमासयोः) सहस्रशः भक्ताः अत्र आगच्छन्ति ।
तिरुवोट्ट्रियूरुः
[सम्पादयतु]अत्र वडिवुडैयम्मन् त्यागराजस्वामिदेवालयः अस्ति । ज्ञानशक्तेः स्वरूपं वडिवुडैयम्मन् देवी । तस्याः पतिः परशिवः अत्र त्यागराजरूपेण तिष्ठति । आदिपुरीश्वरः इत्यपि ख्यातः एषः देवः ।
विश्वरूपपञ्चमुख आञ्जनेयस्वामिदेवालयः
[सम्पादयतु]चेन्नैनगरतः ४५ किलोमीटर् दूरे पेरियकुप्पग्रामे अयं देवालयः अस्ति । आञ्जनेयः, नरसिंहः, गरुडः, लक्ष्मीवराहः, हयग्रीवाणां मुखैः सहितः आञ्जनेयः अत्र शोभते । अस्याः मूर्त्याः औन्नत्यं ३२ पादाः ।
पूण्डिजलाशयः
[सम्पादयतु]पूण्डिग्रामः चेन्नैनगरात् ६० किलोमीटर् दूरे अस्ति । अत्र सत्यमूर्तिसागराख्यः जलाशयः अस्ति । जलाशयस्य विस्तारः १२१.५ चतुरश्रमैल् । अस्मात् जलाशयाद् एव चेन्नैमहानगरं प्रति पेयजलं सम्प्रेष्यते ।
पुलिकाट्टुः
[सम्पादयतु]इदं पत्तनं चेन्नैनगरात् ६० किलोमीटर् दूरे अस्ति । अत्र पुलिकाट्टुतडागः अस्ति । तडागस्य तीरे विविधप्रभेदानां पक्षिणः दृश्यन्ते । १६०९ तमे वर्षे डच्जनैः निर्मितः दुर्गः अपि अत्र अस्ति । भारतस्य व्योमसंशोधनाकेन्द्रं (श्रीहरिकोटा) अत्रैव अस्ति ।
अम्बत्तूरुः
[सम्पादयतु]अयं पुरातनः ग्रामः चेन्नैनगरात् पश्चिमदिशे १६ किलोमीटर् दूरे अस्ति । दक्षिणएषियाखण्डे एव बृहत्तमा औद्यमिकभूमिः अत्र अस्ति । अत्र विन्नरायपेरुमाळ् देवालयः, परमेश्वरस्य देवालयः च अस्ति । भुवनेश्वरीदेवालयेन सहितः मौनस्वामिमठः अपि अत्र अस्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Tiruvallur District Archived २०११-०७-१६ at the Wayback Machine