तिरुप्पूरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
तिरुप्पुरमण्डलम्
—  district  —
तिरुप्पुरमण्डलम्
Location of तिरुप्पुरमण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

११°११′उत्तरदिक् ७७°१५′पूर्वदिक् / 11.18°उत्तरदिक् 77.25°पूर्वदिक् / ११.१८; ७७.२५

देशः भारतम्
राज्यम् तमिळ्नाडु
केन्द्रप्रदेशः Tirupur
District collector Mr.M.मतिवानन्, IAS
जनसङ्ख्या २४,७१,२२२
समयवलयः IST (UTC+05:30)


तिरुप्पूरमण्डलं (Tirupur District) (तमिऴ्: திருப்பூர்மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं २००८ तमे वर्षे अक्टोबर् मासे निर्मितम् । तमिऴ्नाडुराज्ये सम्यक् अभिवृद्धेषु मण्डलेषु तिरुप्पूरम् अन्यतमम् । अस्य मण्डलस्य केन्द्रस्थानं तिरुप्पूरपत्तनम् ।

इतिहासः[सम्पादयतु]

तिरुप्पूरपत्तनं, परितः विद्यमानानि स्थालानि च संयोज्य तिरुप्पूरमण्डलं तमिऴ्नाडुराज्यस्य ३२ तमं मण्डलं अस्ति । कोयम्बत्तूरु मण्डलात्, ईरोडुमण्डलात् च कानिचन उपमण्डलानि योजयित्वा इदं मण्डलं २००८ तमवर्षस्य अक्टोबर् मासे निर्मितम् । कोयम्बत्तूरुमण्डलतः अविनाशि, तिरुप्पूर, पल्लड-उडुमलपेटमण्डलानि, ईरोडुमण्डलतः धारापुर, गाङ्गेयमण्डले तिरुपूरमण्डले योजितानि । मण्डलस्य निर्माणानन्तरं नूतनतया मडत्तुकुळमण्डलं निर्मितम् ।

भौगोलिकम्[सम्पादयतु]

तिरुप्पूरमण्डलं तमिऴ्नाडुराज्यस्य पश्चिमभागे पश्चिमघट्टप्रदेशानां सीमायां वर्तते । अतः अत्रत्यः वायुगुणः अनुष्णाशीतः । अस्य मण्डलस्य विस्तारः ५१६.१२ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पश्चिमे कोयम्बत्तूरुमण्डलम्, उत्तरे ईरोडुमण्डलं, पूर्वभागे करूरुमण्डलम्, आग्नेयदिशे दिण्डुक्कलमण्डलं च अस्ति । मण्डलस्य दक्षिणभागे केरलराज्यं वर्तते । पश्चिमघट्टानां प्रभावेण तिरुप्पूरमण्डलस्य दक्षिणनैर्ऋत्यप्रान्तेषु उत्तमावृष्टिः भवति । मण्डलस्य अन्ये भागाः पश्चिमघट्टानां वृष्टिच्छायायां सन्ति इति कारणेन अधिकावृष्टिः न भवति । किन्तु आह्लादकरः वायुगुणः आवर्षम् अनुभूयते । मण्डले प्रवहन्तीषु नदीषु नोय्यल्, अमरावती च प्रमुखे । कृषिकार्यस्य मुख्यं जलमूलम् अमरावतीनदी एव । अमरावती तिरुमूर्ति जलबन्धाभ्यां कृषिकार्यार्थं जलं वितीर्यते ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं तिरुप्पूरमण्डलस्य जनसंख्या २,४७१,२२२ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य १७६ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४७६ (१,२३० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः २९.६९% आसीत् । तिरुप्पूरमण्डले पुं, स्त्री अनुपातः १०००:९८८, साक्षरताप्रमाणं च ७९.१% अस्ति ।

उपमण्डलानि[सम्पादयतु]

तिरुप्पूरमण्डले सप्त उपमण्डलानि सन्ति। तानि -

१. तिरुप्पूरः
२. अविनाशिः
३. पल्लडम्
४. धारापुरम्
५. गाङ्गेयम्
६. मडत्तुकुळम्
७. उडुमलपेटः

जीविवैविध्यम्[सम्पादयतु]

तिरुप्पूरमण्डले इन्दिरागान्धी वन्यजीविधाम राष्ट्रोद्यानं च अस्ति । इदं नीलगिरि संरक्षितारण्यस्य भागः ।

वीक्षणीयस्थलानि[सम्पादयतु]

ऊत्तुकुळि सुब्रह्मण्यस्वामि देवालयः[सम्पादयतु]

अयं देवालयः तिरुप्पूरात् १५ किलोमीटर् दूरे अस्ति । प्रायः २०० वर्षेभ्यः प्राक् स्थानीयराजैः अत्र मुरुगस्य देवालयः निर्मितः । सम्प्रति, अस्मिन् मण्डले ऊत्तुकुळिदेवालयः जनप्रियं तीर्थक्षेत्रम् । अत्रत्यः देवः वेट्रिवेलायुधस्वामी, देवालयस्य नाम कैदमलैमुरुगदेवालयः । अस्य क्षेत्रस्य अयं विशेषः यत् अत्र रथोत्सवः गिरेः उपत्यकासु भवति ।

काडुहनुमन्तरायस्वामि देवालयः[सम्पादयतु]

तिरुप्पूरतः ४५ किलोमीटर् दूरे धारपुरपत्तने अयं देवालयः अस्ति । श्रीमन्मध्वाचार्यस्य परम्परायाः तृतीयव्यासरायस्वामिनः अयं देवः प्रतिष्ठापितः । माध्वसमुदायस्य भक्तानां परमपवित्रेषु नवक्षेत्रेषु इदम् अन्यतमम् । अत्रत्यः आराध्यः वायुपुत्रः हनूमान् । अतः गर्भगृहस्य उपरि वायुसञ्चारार्थं गवाक्षः निर्मितः अस्ति । मण्डपस्य स्तम्भाः काष्ठेन निर्मिताः सन्ति । स्तम्भेषु उत्तमानि काष्ठशिल्पानि दृश्यन्ते ।

शिवन्मलै देवालयः[सम्पादयतु]

कार्त्तिकेयस्य अयं देवालयः तिरुप्पूरतः २५ किलोमीटर् दूरे अस्ति । शिवन्मलै इत्याख्यस्य गिरेः उपरि देवालयः अस्ति । गिरिम् आरोढुं २०० सोपानानि सन्ति । श्रीवल्लीदेवसेनासमेतः सुब्रह्मण्यस्वामि अत्रत्यः आराध्यदेवः । अरुणगिरिनाथेन तिरुप्पुगऴ्ग्रन्थे अस्य स्थानस्य ‘पट्टियारि’ इति नाम्ना उल्लेखः दृश्यते ।

शुक्रेश्वरदेवालयः[सम्पादयतु]

तिरुप्पूरपत्तने पेरियपाळैयप्रदेशे अयं देवालयः अस्ति । अत्र शिवस्य शक्त्याः च भिन्नं गोपुरद्वयम् अस्ति । शक्त्याः देवालयः शिवालयस्य दक्षिणभागे अस्ति । देवालये द्वौ नन्दिनौ स्तः । नोय्यल्नद्याः उपनद्याः नल्लार्नद्याः तीरे अयं देवालयः अस्ति ।

अविनाशिदेवालयः[सम्पादयतु]

तिरुप्पूरपत्तनस्य समीपे विद्यमाने अस्मिन् पत्तने सुन्दरपाण्ड्येन निर्मितः शिवालयः अस्ति । कोङ्गुनाडुनः सप्तसु शिवस्थलेषु इदम् अन्यतमम् । अयं देवालयः ‘करुणैयात्ताळ् देवालयः’ इति ख्यातः । तिरुमलस्य तिरुमन्त्रे, अरुणगिरिनाथस्य तिरुप्पुगऴे, माणिक्कवाचकस्य तिरुवासगे च अस्य देवालयस्य उल्लेखः अस्ति । सप्तसु तेवारस्थलेषु इदं प्रथमम् । प्रसिद्धस्य शिवभक्तस्य सुन्दरमूर्तिनायनारस्य जीवनेन सम्बद्धम् इदं क्षेत्रम् । अस्य देवालयस्य रथः दक्षिणभारतस्य बृहत्तमेषु रथेषु द्वितीयस्थानं प्राप्नोति । चैत्रमासे अस्य देवालयस्य ब्रह्मोत्सवः वैभवेन आचर्यते ।

अमरावतीजलबन्धः[सम्पादयतु]

उडुमलपेटरः २५ किलोमीटर् दक्षिणे इन्दिरागान्धिवन्द्यमृगधाम्नि अमरावतीनगरे अयं जलबन्धः अस्ति । अत्र जलबन्धेन ९.३१ चतुरश्रकिलोमीटर् विस्तृतः, ३३.५३ मीटर् गभीरः जलाशयः निर्मितः अस्ति । अस्य प्रमुखः उपयोगः कृषिकार्ये । अधुना ४ मेगावाट् विद्युदुत्पादकः स्थावरः अपि अत्र निर्मितः अस्ति । जलाशये मग्गर् प्रभेदस्य बहवः मकराः वसन्ति । जलबन्धस्य समीपे उद्यानम् अपि अस्ति ।

अमरावतीमकरोद्यानम्[सम्पादयतु]

अमरावतीजलाशयं प्रति चिन्नार्, तेन्नार्, पाम्बार्, नदीनां जलं प्रवहति । इदं दक्षिणभारतस्य बृहत्तमं नैसर्गिकं मकरसन्तानोत्पत्ति क्षेत्रम् । मार्ष् मकराः इति, पर्षियन् मकराः इति च ख्याताः मग्गर् प्रभेदस्य मकराः अत्र वसन्ति । एषां मकराणां बद्धसन्तानोत्पत्ति केन्द्रम् अपि अत्र आरब्धम् अस्ति ।

तिरुमूर्तिजलबन्धः[सम्पादयतु]

उडुमलपेटस्य समीपे अयं जलबन्धः अस्ति । अत्र नौकायानस्य व्यवस्था अपि अस्ति इति कारणेन इदं स्थलं बहु जनप्रियम् अस्ति ।

पञ्चलिङ्गजलधारा[सम्पादयतु]

तिरुमूर्ति जलबन्धस्य समीपे विद्यमानस्य गिरेः पादे तिरुमूर्ति देवालयः अस्ति । तिरुमूर्ति देवालयात् ३ किलोमीटर् दूरे पञ्चलिङ्गजलधारः अस्ति । अत्र आवर्षं जलधारः भवति ।

इन्दिरागान्धिवन्यमृगधाम[सम्पादयतु]

९५८ चतुरश्रकिलोमीटर् विस्तीर्णम् इदं वन्यमृगधाम पश्चिमघट्टप्रदेशे १४०० पादानाम् औन्नत्ये अस्ति । अस्य राष्ट्रोद्यानस्य ३८७ चतुरश्रकिलोमीटर् विस्तीर्णः भागः तिरुप्पूरमण्डले अस्ति । अमरावती संरक्षितारण्यम्, आनैमलैवन्यजीवि संरक्षितारण्यं च अस्मिन् भागे अस्ति । अत्र विविधप्रभेदानां गजाः, व्याघ्राः, भल्लूकाः, हरिणाः, वन्यश्वानाः, कण्टकमृगाः, चिक्रोडाः, शृगालाः, पक्षिणः च सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिरुप्पूरमण्डलम्&oldid=364381" इत्यस्माद् पुनः प्राप्तिः