सामग्री पर जाएँ

तिरुनेल्वेलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिरुनेल्वेलीमण्डलम्

திருநெல்வேலி மாவட்டம்
मण्डलम्
Nickname(s): 
नेल्लै
भारतस्य तमिळ्नाडु राज्ये तिरुनेल्वेलीमण्डलम्
भारतस्य तमिळ्नाडु राज्ये तिरुनेल्वेलीमण्डलम्
देशः  भारतम्
राज्यम् तमिळ्नाडु
मण्डलस्य रचना सेप्टेम्बर् ०१, १७९०
Seat तिरुनेल्वेली
Government
  मण्डलशसकः डा. आर्. सेल्वराज्,IAS
Area
  Total ६,८२३ km
Population
 (२०११)[]
  Total ३०,७२,८८०
  Density ४१०.५/km
भाषाः
  व्यावहारिकाः तमिळ्
Time zone UTC+5:30 (भारतीयकालमानम् - IST)
पत्राचारसङ्केतः-PIN
627001
दूरवाणीसङ्केतः 0462
Vehicle registration TN-72/76
बृहत्नगरम् तिरुनेल्वेलि नगरम्
लिङ्गानुपातः पु-49%/स्त्री-51%
साक्षरताप्रमाणम् 68.44%
वृष्टिः 814.8 मिलीमीटर (32.08 इंच)
आपेक्षिकग्रीष्मकालिन
तापमात्रा
37 °से (99 °फ़ै)
आपेक्षिकशीतकालिन
तापमात्रा
22 °से (72 °फ़ै)
Website www.nellai.tn.nic.in

तिरुनेल्वेलीमण्डलं (Tirunelveli District) (तमिऴ्: திருநெல்வேலிமாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुनेल्वेलीनगरम् । अस्य मण्डलस्य वैशिष्ट्यम् इदं यत् तमिऴसाहित्ये उल्लिखिताः पञ्चविधाः भौगोलोकप्रदेशाः अपि अत्र दृश्यन्ते । कुरिञ्जि (पर्वताः), मुल्लै (वनानि), मरुदम् (व्रीहिक्षेत्राणि), नैदल् (समुद्रतीरं), पालै (मरुभूमिः) च । तिरुनेल्वेलिमण्डलं १७९० तमवर्षस्य सेप्टम्बरमासस्य प्रथमे दिने ब्रिटिश् सर्वकारस्य पक्षतः प्राचीन इण्डिया कम्पेन्या निर्मितम् । तदानीन्तने तिरुनेल्वेलीमण्डले अद्यतने तिरुनेल्वेली, तूत्तुकुडिमण्डले, विरुदुनगरमण्डलस्य, रामनाथपुरमण्डलस्य केचन भागाः च आसन् । राज्यस्य मण्डलेषु विस्तारदृष्ट्या अस्य मण्डलस्य द्वितीयं स्थानम् (विऴुप्पुरमण्डलं प्रथमम्) । तमिऴ् अभिजनाः इदं मण्डलं प्रीत्या ‘नेल्लै’ इति सूचयन्ति ।

इतिहासः

[सम्पादयतु]

तिरुनेल्वेलीमण्डलस्य निर्माणदिनाङ्कः (सेप्टम्बर् १) तिरुनेल्वेलीदिनम् इति आचर्यते । ब्रिटिश् प्राचीन इण्डिया कम्पेन्या अस्य ‘तिन्नेवेल्लिमण्डलम्’ इति नाम कृतम् । अस्य केन्द्रस्थानम् आदौ पाळैयंकोट्टैपत्तने आसीत्, यत्र पाळैयकाराणां विरुद्धं कार्याचरणसमये कम्पेन्याः सेनाकेन्द्रम् आसीत् ।

तिरुनेल्वेलीमण्डलस्य नामकरणे कारणत्रयं दृश्यते । मण्डलस्य बृहत्तमं नगरं तिरुनेल्वेलिः इत्येकम् । नायकानां नवाबानां च प्रशासने अयं प्रदेशः ‘तिरुनेल्वेलीसीमै’ इति ख्यातः इति द्वितीयम् । पाण्ड्यसाम्राज्यस्य दक्षिणराजधानी आसीद् इयम् इति तृतीयम् । मण्डले तिरुनेल्वेली पाळैयंकोट्टैनगरे यमलनगरत्वेन अभिवृद्धौ स्तः ।

विंशशतकस्य आदौ तिरुनेल्वेलीमण्डलस्य भागान् पृथक्कृत्य रामनाथपुरमण्डलं, विरुदुनगरमण्डलं च निर्मितम् । १९८६ तमे वर्षे पुनः इदं मण्डलं प्रशासनसौकर्यार्थं द्वेधा विभक्तम् । चिदम्बरनार् (अद्यतनः तूत्तुकुडिः) मण्डलम् एकम्, नेल्लै, कट्टबोम्मन् इत्यपरम् । ततः अस्य ‘तिरुनेल्वेली, कट्टबोम्मन-मण्डलम्’ इति , ततः पुनः ‘तिरुनेल्वेलीमण्डलम्’ इति नाम अभवत् ।

भौगोलिकम्

[सम्पादयतु]

तिरुनेल्वेलीमण्डलं तमिऴ्नाडुराज्यस्य दक्षिणभागे अस्ति । अस्य उत्तरभागे विरुदुनगरमण्डलं, पश्चिमभागे पश्चिमघट्टपर्वताः, दक्षिणभागे कन्याकुमारीमण्डलं, पूर्वभागे तूत्तुक्कुडिमण्डलं च अस्ति । मण्डलस्य विस्तारः ६,८२३ चतुरश्रकिलोमीटर् ।

मण्डले पश्चिमघट्टस्य पर्वतप्रदेशाः सन्ति । ताम्रपर्णीनदी, अन्याः काश्चन लघ्व्यः नद्यः अत्र प्रवहन्ति । मण्डले बहवः रमणीयाः जलधाराः सन्ति । सर्वेषु ऋतुषु अस्मिन् मण्डले वृष्टिः भवति । वृष्टेः प्रमाणं ९५३.१ मिल्लीमीटर् आसीत्। २००५-२००६ वर्षे ईशान्यप्रावृषः, नैर्ऋत्यप्रावृषः च प्रभावेण अत्र वृष्टिः भवति । पश्चिमघट्टेभ्यः प्रवहन्तीनां पच्चैयार् प्रभृतीनां बहूनां नदीनां जलं कृषिकार्योपयोगि भवति । पच्चैयारनदी ताम्रपर्ण्याः उपनदी । ताम्रपर्णी, मणिमुत्तारुनद्योः बहवः जलबन्धाः सति, यत्र सङ्गृहीतं जलं कृषिकार्ये, विद्युदुत्पादने च उपयुज्यते । चित्तारनदी अपि अस्मिन् मण्डले प्रवहति । कोर्टल्लं जलधारा, मणिमुत्तारजलधारा च मण्डलस्य जलधारासु प्रमुखे ।

जनसंख्या

[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणं मण्डलस्य जनसंख्या ३,०७२,८८० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११६ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरसश्किलोमीटर् ४५८ (११९० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १३.६६% आसीत् । मण्डले पुं, स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८२.९२% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

तिरुनेल्वेलीमण्डले द्वादश उपमण्डलानि सन्ति । तानि -
१) तिरुनेल्वेलिः २) पाळैयंकोट्टै ३) शङ्करन्कोयिलः ४) अम्बासमुद्रम् ५) नङ्गुनेरिः ६) कडैयनल्लूरुः ७) राधापुरम् ८) तेङ्कासिः ९) शेङ्कोट्टै १०) अलङ्गुळम् ११) वीरकेरलम्बुदूरुः १२) शिवगिरिः

कृषिः वाणिज्यं च

[सम्पादयतु]

इदं कृषिप्रधानमण्डलम् । प्रमुखतया तण्डुलानि, नारिकेलाः, कदल्यः, सम्बारपदार्थाः च अत्र रुह्यन्ते । समुद्रतीरे स्थितत्वात् मत्स्यग्रहणोद्यमः अपि अत्र प्रामुख्यं भजते । मण्डले ४०७ खनयः सन्ति । लैम्स्टोन्, ग्रानैट्, गार्नेट् साण्ड् इत्येते खनिजाः अत्र उत्पाद्यन्ते । वस्त्रोद्यमः, आहारपदार्थोद्यमः, अरण्यपदार्थोद्यमः च अत्र अभिवृद्धः अस्ति । नङ्गुनेरिप्रदेशे विशिष्ट आर्थिकवलयः २००१ तमे वर्षे आरब्धः ।

वीक्षणीयस्थलानि

[सम्पादयतु]

नल्लैयप्परदेवालयः

[सम्पादयतु]

अयं देवालयः तिरुनेल्वेलीपत्तने अस्ति । अयं देवालयः क्रिस्तीये ७०० वर्षे शिवभक्तस्य तिरुज्ञानसम्बन्धस्य कृतौ उल्लिखितः अस्ति । आदौ शिवस्य शक्त्याः च अत्र भिन्नौ देवालयौ पाण्ड्यैः निर्मितौ आस्ताम् । १७ शतके अनयोः देवालयोः सन्धिरूपः ‘सेङ्गलिमण्डपः’ निर्मितः । देवालयस्य गोपुराणि अपि सप्तदशशतकस्य प्रारम्भे निर्मितानि । दक्षिणभारतस्य बृहत्तमेषु देवालयेषु अयम् अन्यतमः ।

वल्लियूरुः

[सम्पादयतु]

राधापुरौपमण्डले कार्त्तिकेयस्य पत्न्याः श्रीवल्ल्याः नाम्ना ज्ञातम् इदं पत्तनम् अस्ति । अत्र मुरुगस्य देवालयः अस्ति । वल्लियूरुकुऴम् इति ज्ञातः तडागः अपि अस्ति ।

नङ्गुनेरिः

[सम्पादयतु]

तिरुनेल्वेलीपत्तनात् ३१ किलोमीटर् दक्षिणे विद्यमाने अस्मिन् पत्तने विष्णोः देवालयः अस्ति । महाविष्णुः अत्र तोटाद्रिनाथरूपेण आराध्यते । अयं देवालयः वनमामलैमठेन निरुह्यते । वैष्णवसम्प्रदायस्य दिव्यदेशेषु इदम् अन्यतमम् ।

मरुत्तूरुः

[सम्पादयतु]

पाळैयं कोट्टैतः १२ किलोमीटर् दूरे अयं ग्रामः अस्ति । अत्र ताम्रपर्णीनद्यां निर्मितः २.५ किलोमीटर् दीर्घः जलबन्धः अस्ति ।

वीरवनल्लूरुः

[सम्पादयतु]

अस्मिन् पत्तने विद्यमानः भूमिनाथस्वामिदेवालयः तमिऴ्नाडुराज्यस्य प्राचीनतमेषु देवालयेषु अन्यतमः । अत्र सुन्दरराजपेरुमाळ्देवालयः, कडयम्मन् देवालयः, सन्तानमारियम्मन् देवालयः, रङ्गनाथस्वामिदेवालयः चापि सन्ति ।

कळक्काडुमुण्डन्तुरै व्याघ्रधाम

[सम्पादयतु]

इदं व्याघ्रधाम १९६२ तमे वर्षे निर्मितम् । अस्य विस्तारः ९०० चतुरश्रकिलोमीटर् । तिरुनेल्वेलीतः ४५ किलोमीटर् पश्चिमतः कळक्काडुपत्तनसमीपे इदं व्याघ्रधाम अस्ति । अत्र व्याघ्राः, चित्रव्याघ्राः, वन्यश्वानाः, गजाः, भिन्नप्रभेदानां हरिणाः, वनसूकराः, भल्लूकाः, मर्कटाः, चिक्रोडाः, मकराः च द्रष्टुं शक्याः ।

शङ्करन्कोयिल्

[सम्पादयतु]

हरिहरयोः ऐक्यप्रतिपादके अस्मिन् देवालये शङ्करनारयणनामकः देवः अर्च्यते, यस्य शरीरे अर्धभागः हरेः, अपरार्धः च हरस्य । देवी गोमती अम्बाळ् । अयं देवालयः क्रिस्तीये ९०० तमे वर्षे उक्रमपण्ड्येन निर्मितः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


  1. "2011 Census of India" (Excel). Indian government. 16 April 2011.
"https://sa.wikipedia.org/w/index.php?title=तिरुनेल्वेलीमण्डलम्&oldid=481175" इत्यस्माद् प्रतिप्राप्तम्