सामग्री पर जाएँ

कन्याकुमारीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कन्याकुमारी मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
कन्याकुमारीमण्डलम्
"The Lands End"
सूर्योदयसमये कन्याकुमारीनगरे विवेकानन्दशिलास्मारकं
  मण्डलम्  
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् कन्याकुमारीमण्डलम्
उपमण्डलम् तोवळै, अगस्तीश्वरम्, कल्गुळम्, विळवङ्गोडु
' 1956,1 नवेम्बर्
राजधानी नागरकोयिल्नगरम्
केन्द्रप्रदेशः नागरकोयिल्नगरम्
Collector & District Magistrate एस्। नागरजन्
[[तमिऴ्‌नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) Elected (6)
विधानसभा 6
जनसङ्ख्या

• सान्द्रता

१८,६३,१७४[] (2011)

995.7 /किमी2 (2,579 /वर्ग मील)

लिङ्गानुपातः पु-1000/स्त्री-1014 /
साक्षरता 95.6% 
व्यावहारिकभाषा(ः) तमिळ्,
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

1,684 वर्ग किलोमीटर (650 वर्ग मील)

72 किलोमीटर (45 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     1,465 मिमी (57.7 इंच)

     27 °से (81 °फ़ै)
     16 °से (61 °फ़ै)

Central location: ८°०३′ उत्तरदिक् ७७°१५′ पूर्वदिक् / 8.050°उत्तरदिक् 77.250°पूर्वदिक् / ८.०५०; ७७.२५०
जालस्थानम् official website

कन्याकुमारीमण्डलम् (Kanyakumari district) (तमिऴ् – கன்னியாகுமரி மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अयं भूभागः भारतदेशस्य दक्षिणसीमायाम् अस्ति । चेन्नै नगरम् अतिरिच्य तमिऴ्नाडुराज्यस्य अत्यन्तं नगरीकृतं मण्डलं कन्याकुमारी । राज्यस्य लघुमण्डलेषु अस्य द्वितीयं स्थानम् । कन्याकुमारीमण्डले कन्याकुमारी इति पत्तनम् अपि अस्ति, यत् भारतभूप्रदेशस्य दक्षिणाग्रम् अस्ति । किन्तु अस्य मण्डलस्य केन्द्रस्थानं नागरकोयिल् पत्तनम् । इदं मण्डलं सरसां मण्डलम् इति, भूमेः अन्तः इति च प्रसिद्धम् अस्ति ।

इतिहासः

[सम्पादयतु]

स्वातन्त्र्यात् प्राक् कन्याकुमारीमण्डलं तिरुविताङ्कूरु (ट्रावङ्कूर्) राज्यस्य भागः आसीत् । ततः केरलराज्यस्य निर्माणात् पूर्वं तिरुविताङ्कूरु कोच्चिन् राज्ये आसीत् । तदनन्तरकाले केरलस्य तिरुवनन्तपुरमण्डलस्य अष्ट उपमण्डलानि पृथक्कृत्य कन्याकुमारीमण्डलं रचितम् । १९५६ तमवर्षस्य राज्यपुनर्विभागसमितेः सूचनानुगुणम् इदं मण्डलं मद्रास् राज्यस्य भागः अभवत् । मद्रास् राज्यस्य एव तदनन्तरकाले तमिऴ्नाडु इति नामकरणम् अभवत् ।

भौगोलिकम्

[सम्पादयतु]

कन्याकुमारीमण्डलस्य तिसृषु दिशासु समुद्रम् अस्ति । उत्तरसीमायां [[पश्चिमघट्टपर्वतश्रेणिः अस्ति । पश्चिमसीमायां केरलराज्यस्य तिरुवनन्तपुरमण्डलम्, उत्तरे पूर्वत्र च तमिऴ्नाडुराज्यस्य तिरुनेल्वेलीमण्डलम् अस्ति । आग्नेयदिशि बङ्गालसमुद्रस्य मन्नार् समुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्) अस्ति । दक्षिणसीमायां हिन्दूमहासमुद्रं, नैर्ऋत्यदिशायां अरब्बीसमुद्रं च अस्ति ।

जनसंख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं कन्याकुमारीमण्डले १,८६३,१७४ जनाः सन्ति । इदं मण्डलं ८२.४७% नगरीकृतम् अस्ति । चेन्नैमण्डलम् अतिरिच्य तमिऴ्नाडुराज्ये कन्याकुमारीमण्डले एव जनसान्द्रता अत्यधिका ११०६ प्रतिचतुरश्रकिलोमीटर् । अत्रत्यं साक्षरताप्रमाणं ९०.२५% अस्ति । इदम् अस्मिन् राज्ये अत्यधिकम् । अत्र स्त्रीलिङ्गानुपातः अपि अधिकः अस्ति । पुं, स्त्री अनुपातः १०००:१०१० अस्ति ।

उपमण्डलानि

[सम्पादयतु]

कन्याकुमारीमण्डले चत्वारि उपमण्डलानि सन्ति ।

  • तोवळै
  • अगस्तीश्वरम्
  • कल्गुळम्
  • विळवङ्गोडु

वीक्षणीयस्थलानि

[सम्पादयतु]

कन्याकुमारी

[सम्पादयतु]

अत्रत्यं प्रमुखं वीक्षणीयस्थानं समुद्रतीरे स्थितं कुमारी अम्मन् (कन्याकुमारी)) मन्दिरम् । अयं देव्याः पार्वत्याः शक्तिपीठेषु अन्यतमः । अत्र पार्वती परमेश्वरं प्राप्तुं तपः कृतवती इति श्रूयते । कन्याकुमारीमन्दिरस्य आग्नेयदिशि समुद्रमध्ये १९७० तमे वर्षे निर्मितं विवेकानन्दशिलास्मारकम् अस्ति । अस्यां शिलायां स्वामी विवेकानन्दः दिनत्रयं यावत् ध्यानं कृतवान् । अत्र ध्यानमण्डपः अपि अस्ति, यत्र ध्यानार्थं शान्तं स्थानं लभ्यते । अत्रैव तमिऴ्सन्तकवेः तिरुवळ्ळुवरस्य १३३ पादोन्नता मूर्तिः अस्ति । इयं मूर्तिः २००० तमे वर्षे शिल्पिना गणपति स्थपतिना निर्मिता एषियादेशस्य अत्युन्नतासु मूर्तिषु अन्यतमा । महात्मनः गान्धेः अस्थिभस्म सागरे निमज्जनात् पूर्वं कन्याकुमार्याम् एव स्थापितम् आसीत् । तस्मिन् स्थले अद्य गान्धीस्मारकं तिष्ठति । अस्य स्मारकस्य निर्माणवैशिष्ट्यं यत् तस्य जन्मदिने अक्टोबर् मासस्य द्वितीये दिनाङ्के प्रथमे सूर्यकिरणाः अस्तिभस्मस्थापनस्थले एव पतन्ति ।

हिन्दूमहासमुद्रे सुनामी

[सम्पादयतु]

२००४ तम वर्षस्य डिसेम्बर् मासे २६ दिनाङ्के दक्षिण आग्नेयएषियादिशोः बहवः देशाः सुनामीनामकेन समुद्रचण्डमारुतेन आक्रान्ताः । भारते सुनामीकारणेन पीडितेषु मण्डलेषु कन्याकुमारी अपि अन्यतमम् । अत्र नवशतेभ्यः अधिकाः जनाः मृताः, सहस्रशः जनाः तिरोभूताः, व्रणिताः वा । तदारभ्य सर्वकारीयाः तदितराः च समाजसेवासङ्घाः पीडितानां जनानां पुनर्वसतिं कल्पयितुं प्रयतमानाः सन्ति ।

पद्मनाभपुरराजभवनम्

[सम्पादयतु]

इदं राजभवनं ग्रानैट्‌शिलानिर्मिते पद्मनाभपुरदुर्गे अस्ति । पश्चिमघट्टश्रेण्याः वेलिगिरेः पादभूमौ अयं दुर्गः अस्ति । समीपे एव वल्लीनदी प्रवहति ।

वट्टक्कोट्टै दुर्गः

[सम्पादयतु]

अस्य नाम्नः ‘वृत्ताकारस्य दुर्गः’ इत्यर्थः । अयं क्रिस्तीये अष्टादशे शतके निर्मितः । समुद्रतीरे कन्याकुमारीपत्तनतः ६ किलोमीटर् दूरे अयं दुर्गः अस्ति ।

शुचीन्द्रम्

[सम्पादयतु]

अत्र स्तनुमलयदेवालयः अस्ति, यत्र विविधराजवंशानां कलाकृतयः लभ्यन्ते । नवमशतमानस्य शिलालेखाः, सङ्गीतस्तम्भाः, हनूमतः ६ मीटर् उन्नता मूर्तिः इत्यादयः अत्र बहु प्रसिद्धाः । अत्रत्यः मुख्यः आराध्यः देवः शिवलिङ्गरूपेण त्रिमूर्तीनां ब्रह्म, विष्णु, शिवानाम् ऐक्यं द्योतयति ।

पञ्चपदीक्षेत्राणि

[सम्पादयतु]

अय्यावऴितत्त्वानुसारिणां पवित्राणि इमानि पञ्च क्षेत्राणि कन्याकुमार्याः पञ्चदशकिलोमीटर् परिधौ सन्ति । स्वामितोप्पुपदी, मुत्तप्पदी, तामरैकुळम्पदी, अम्बालप्पदी, पूप्पदी इति इमानि पञ्च क्षेत्राणि ।

नागरकोयिल्

[सम्पादयतु]

अस्मिन् पत्तने नागराजदेवालयः, शिवविष्ण्वोः देवालयः च अस्ति । कोट्टार्‌प्रदेशे सन्त ज़ेवियरस्य क्रैस्तदेवालयः अपि अस्ति ।

उदयगिरिदुर्गः

[सम्पादयतु]

राज्ञा मार्ताण्डवर्मणा निर्मितः अयं दुर्गः । अत्र कास्टिङ्ग्‌प्रभेदस्य गोलिकास्त्राणां निर्माणकार्यागारः अस्ति । तस्य राज्ञः विश्वासपात्रस्य यूरोप्यसेनानायकस्य डे लेन्नायस्य स्मारकम् अपि अत्र अस्ति । सम्प्रति उदयगिरिदुर्गः जीववैविध्योद्यानम्, अरण्यविभागेन निर्वाह्यमानम् अस्ति ।

मात्तूरु जलसङ्क्रमः

[सम्पादयतु]

कन्याकुमारीमण्डलस्य तिरुवत्तरसमीपे विद्यमानः अयं जलसङ्क्रमः द्वयोः पर्वतयोः मध्ये स्थितः कृषिकार्यार्थं जलं वहति । उन्नतानां स्तम्भानाम् आधारेण निर्मितः अयं जलसङ्क्रमः औन्नत्ये दैर्घ्ये च एषियाखण्डे एव बृहत्तमेषु अन्यतमः । जलसङ्क्रमस्य मध्यात् परितः विद्यमानानां गिरीणाम्, अरण्यप्रदेशानाम्, अधः प्रवहन्त्याः नद्याः च मनोहरः दृश्यः हृदयम् आह्लादयति ।

चितारल् जैनचैत्यानि

[सम्पादयतु]

मार्ताण्डतः ३५ किलोमीटर् दूरे स्थितानि इमानि चैत्यानि । अत्र नवमशतकस्य एकादशशतकस्य च जैनगुहाः मूर्तयः च सन्ति । तिरुनन्दिक्करदेवालयः अयं पल्लवशैल्याः शिलाच्छेदनेन निर्मितः गुहादेवालयः, क्रिस्तीये सप्तमे, अष्टमे वा शतके निर्मितः ।

उल्लगरुविजलपातः

[सम्पादयतु]

नागरकोयिलात् २० किलोमीटर् दूरे अयं जलपातः अस्ति । पश्चिमघट्टप्रदेशे पर्वतमध्ये स्थितः एषः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


  1. "2011 Census of India" (Excel). Indian government. 16 April 2011.
"https://sa.wikipedia.org/w/index.php?title=कन्याकुमारीमण्डलम्&oldid=480085" इत्यस्माद् प्रतिप्राप्तम्