विरुदुनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विरुदुनगरमण्डलम्

விருதுநகர் மாவட்டம்

—  मण्डलम्  —
श्रीवल्लिपुत्तूरु आण्डाल्मन्दिरम्
श्रीवल्लिपुत्तूरु आण्डाल्मन्दिरम्


Location of विरुदुनगरमण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

९°३५′३.१२″ उत्तरदिक् ७७°५७′२९.५२″ पूर्वदिक् / 9.5842000°उत्तरदिक् 77.9582000°पूर्वदिक् / ९.५८४२०००; ७७.९५८२०००

देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् अरुप्पुकोट्टै, करियपट्टिः, राजपाळैयम्, सातूरुः, शिवकाशी, श्रीविल्लिपुत्तूरुः, तिरुच्चूलिः, विरुदुनगरम्
केन्द्रप्रदेशः विरुदुनगरम्
Collector एम् बालाजि, IAS
Taluks 8
Panchayat Unions (Blocks) 11
Municipalities 7
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
जालस्थानम् विरुदुनगरमण्डलस्य व्यावहारिकजालपुटम्


विरुदुनगरमण्डलं (तमिऴ्: விருதுநகர்மாவட்டம், आङ्ग्लम्: Virudhunagar District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं विरुदुनगरपत्तनम्। एतन्मण्डलं प्राक् कर्मवीरकामराजमण्डलम् इति ज्ञातम् आसीत् । इदं मण्डलं तिरुनेल्वेली, ।मधुरैमण्डलाभ्यां भागान् स्वीकृत्य निर्मितम्।

भौगोलिकम्[सम्पादयतु]

विरुदुनगरमण्डलस्य विस्तारः ३४४५.७३ चतुरश्रकिलोमीटर् अस्ति । अस्य मण्डलस्य उत्तरभागे शिवगङ्गामधुरैमण्डलेस्तः, आग्नेयदिशि तिरुनेल्वेलीमण्डलम् अस्ति, पश्चिमे केरलराज्यम्, वायव्ये तेनीमण्डलं च अस्ति।

जनसंख्या[सम्पादयतु]

२०११ वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,९४३,३०९ । भारतस्य ६४० मण्डलेषु जनसंख्या दृष्ट्या अस्य मण्डलस्य २४२ तमं स्थानम् । अस्मिन् मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४५४ (११८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्या वृद्धेः प्रमाणं १०.९६% आसीत्। विरुदुनगरे पुं, स्त्री अनुपातः १०००:१००९ अस्ति, साक्षरताप्रमाणं च ८०.७५% ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि -

१. अरुप्पुकोट्टै
२. करियपट्टिः
३. राजपाळैयम्
४. सातूरुः
५. शिवकाशी
६. श्रीविल्लिपुत्तूरुः
७. तिरुच्चूलिः
८. विरुदुनगरम्

कृषिः वाणिज्यं च[सम्पादयतु]

जनसंख्यायाः बहुभागः कृषिकार्ये उद्यमेषु च रताः । विरुदुनगरे तैलोद्यमः कार्पासोद्यमः च अभिवृद्धः अस्ति । विरुदुनगरात् २० किलोमीटर् दूरे विद्यमानं शिवकाशीपत्तनं स्फोटकनिर्माणेन, मुद्रणालयैः च प्रसिद्धम् । अरुप्पुकोट्टै तन्तुवायैः प्रसिद्धम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

श्रीविल्लिपुत्तूरुः[सम्पादयतु]

इदं पत्तनं मधुरैतः ७४ किलोमीटर् दूरे अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अपि अन्यतमम् । इदं श्रीवैष्णवसम्प्रदायस्य प्रसिद्धसतोः द्वयोः जन्मस्थानम् – पेरियाऴ्वार्, आण्डाळ् अत्र जातौ । अस्य पत्तनस्य प्रमुखः देवालयः आण्डाळ् देवालयः । आराध्यदेवः वटपत्रशायी । अस्य देवालयस्य ११ स्तरीयं गोपुरं १९२ पादोन्नतम् अस्ति । तमिऴ्नाडु सर्वकारस्य अधिकृत मुद्रायाम् इदम् एव गोपुरं चिह्नितम् अस्ति ।

शेन्बागतोप्पु चिक्रोडसंरक्षणकेन्द्रम्[सम्पादयतु]

श्रीविल्लिपुत्तूरुतः ८ किलोमीटर् दूरे विद्यमानम् इदम् अरण्यम् । इदं पश्चिमघट्टानां भागः । अत्र ‘ग्रिज़ल्ड् स्क्विरल्’ (Grizzled Squirrel) इत्याख्यस्य चिक्रोडप्रभेदस्य संरक्षणकेन्द्रम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. www.tn.gov.in
"https://sa.wikipedia.org/w/index.php?title=विरुदुनगरमण्डलम्&oldid=480963" इत्यस्माद् प्रतिप्राप्तम्