आण्डाळ्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


आण्डाळ्
जन्मतिथिः 7-8th Century A.D
जन्मस्थानम् Srivilliputhur
पूर्वाश्रमनाम कोधै
तत्त्वचिन्तनम् Srivaishnava Bhakti
सम्मानाः Alvar saint
साहित्यिककृतयः Tiruppaavai, Naachiyaar Thirumozhi

तमिळ्नाडुराज्ये सप्तमशतकादारभ्य नवमशतकपर्यन्तं वैष्णवसम्प्रदायस्य विकासकालः आसीत् । तदा बहवः विष्णुदासाः उत्पन्नाः । तेषु १२ जनाः प्रसिद्धाः । ते “ आळ्वार्गळ् “ नाम्ना आहूयन्ते स्म । तेषु आण्डाळ् नामिका विष्णुभक्ता अष्टमे शतके आसीत् । प्रसिद्धेषु १२ विष्णुदासेषु (आळ्वार्गळ् मध्ये ) अन्यतमा अस्ति । १२ आळ्वार्गळ् मध्ये एषा एका एव महिला अस्ति । आण्डाळ् “ तिरुप्पावै “, “ नाच्चियार् तिरुमोळि “ इति ग्रन्थद्वयं रचितवती । वैष्णवसम्प्रदायग्रन्थे एतस्याः चरितं भगवतः उपरि विद्यमानम् एतस्याः प्रेम विवृणोति ।

जननं , जीवनचरितञ्च[सम्पादयतु]

विष्णुचित्तः ( पेरियाळ्वार् ) मधुरैनगरात् समीपस्थे श्रीविल्लिपुत्तूर् इत्यस्मिन् नगरे वासं कुर्वन्नासीत् । स: मन्दिराय पुष्पाणि अवचित्य अर्पयति स्म । कदाचित् सः पुष्पचयनार्थं गतवान् । तदा तुलसीसस्यस्य अधः एकं शिशुं दृष्टवान् । स्वस्य कुटुम्बे यद्यपि कोऽपि नासीत् तथापि तां बालिकाम् सः एव वर्धितवान् । तस्याः “ गोदा “ इति नामकरणं कृतवान् । बाल्यकाले एव विष्णुचित्तः गोदायै तमिळ्भाषाम्, उत्तमसंस्कारान् च बोधितवान् । अतः तस्याः बाल्ये एव कृष्णस्य विषये भक्तिः, तमिळ्भाषायां पाण्डित्यं च आसीत् । कृष्णस्य उपरि विद्यमानात् अपरिमितप्रेमकारणात् सा तेन सहैव विवाहः करणीयः इति निश्चितवती । सा स्वयं कृष्णस्य वधूरूपेण आत्मानम् भावयन्ती प्रवृद्धा प्राप्तवती । विष्णुचित्तः प्रतिदिनं कृष्णाय मालां रचयित्वा अन्यकार्याणि समाप्य तां मालां अर्पयितुं मन्दिरं प्रति गच्छति स्म । तदभ्यन्तरे गोदा तां मालां स्वीकृत्य कृष्णस्य वधूः इव स्वयं धृत्वा दर्पणे पश्यति स्म । पितुः आगमनात् पूर्वं मालां यथा स्थानं स्थापयति स्म। विष्णुचित्तः अपि एतं विषयम् अज्ञात्वा पुत्र्या धृतां मालामेव कृष्णाय धारयति । कदाचित् सः पुत्र्याः कार्यं ज्ञात्वा अपराधः कृतः इति कृष्णस्य समीपं क्षमां याचयित्वा पुत्र्या धृतां मालां त्यक्त्वा नूतनां मालां रचयित्वा कृष्णाय धारितवान् । तस्मिन् दिने रात्रौ कृष्णः विष्णुचित्तस्य स्वप्ने आगत्य गोदया धृता माला एव मह्यं रोचते, अतः तया धृताः मालाः एव धारयतु इति प्रार्थितवान् । तेन कारणेन तस्याः “ सूडिक्कोडुत्त सुडर्कोडी “ इति नाम आगतम् । भगवन्तमेव स्वस्याधीने आनीतवती इत्यर्थे “ आण्डाळ् “ इति नाम आगतम् । गोदा यदा प्राप्तवयस्का अभवत् तदा पित्रा तस्याः विवाहं कारयितुं बहुवारं प्रयत्नः कृतः । किन्तू सा तु श्रीरङ्गस्थेन देवेन सहैव विवाहः इति अन्यान् सर्वान् निराकृतवती । विष्णुचित्तः किङ्कर्तव्यमूढतया भगवन्तमेव प्रार्थितवान् । भगवान् विष्णुः तस्य स्वप्ने आगत्य गोदायाः सर्वालङ्कारं कारयित्वा श्रीरङ्गं प्रति आनयतु इति आदिष्टवान् । निश्चिते दिने गोदाम् अलङ्कृत्य श्रीरङ्गं प्रति नीतवान् विष्णुचित्तः । श्रीरङ्गस्थं देवम् दृष्ट्वा तस्मिन् एव लयं प्राप्तवती गोदा ।

आण्डाळ् गीतानि[सम्पादयतु]

आण्डाळ् तस्याः पञ्चदशे वयसी भगवति ऐक्यभवनात् पूर्वं तिरुप्पावै, नाच्चियार्तिरुमळि इति ग्रन्थद्वयं लिखितवती । ग्रन्थद्वयमपि साहित्यकदृष्ट्या, तत्वार्थदृष्ट्या, भक्तेः उत्कृष्ट-उदाहरणम् अस्ति । एतस्याः प्रथमाकृतिः “ तिरुप्पावै “ अस्ति । तस्मिन् ३० गीतानि सन्ति । आण्डाळ् तस्मिन् ग्रन्थे आत्मानं गोपिका इव चित्रयन्ती गीतेषु मधुरभक्तिं प्रकटितवती अस्ति । एतस्याः द्वितीयः ग्रन्थः अस्ति “ नाच्चियार् तिरुमोळि “ । तस्मिन् १४३ गीतानि सन्ति । अस्मिन् ग्रन्थे अपि सा मधुरभक्तिमेव प्रकटयति । ग्रन्थद्वयमपि तमिळ्नाडुराज्यस्य वैष्णवस्थलेषु प्रधानोत्सवेषु गीयते ।

तिरुप्पावै ग्रन्थस्य वैशिष्ट्यानि[सम्पादयतु]

वैष्णवसम्प्रदाये तिरुप्पावै प्रधानः ग्रन्थः अस्ति । श्री कृष्णस्य इष्टतमे मार्गशीर्षमासे उषःकाले सर्वेषु वैष्नवस्थलेषु तिरुप्पावै गीयते इत्येव एतस्य वैशिष्ट्यम् अस्ति । तमिळ्भाषया रचितं चेदपि तमिळ्भाषेतरस्थानेषु अपि गीयते । भारते यत्र यत्र विष्णोः देवालयाः सन्ति तत्र सर्वत्रापि आण्डाळ् वर्यायाः कृते पृथक् सन्निधिः अस्ति । एतादृशं वैशिष्ट्यद्वयमपि अन्यस्य कस्यापि विष्णुदासस्य नास्ति । भाषाभेदं विना वैकुण्ठनाथस्य स्तुतिषु तिरुप्पावै भरतकण्डं पूर्णं व्याप्तम् अस्ति । तिरुप्पावैवैशिष्ट्यं भक्तिः केवलं न, आग्रन्थं गोदायाः कृष्णस्य उपरि विद्यमानं शुद्धप्रेम अपि च तेन कारणेन सर्वेभ्यः भक्तेभ्यः प्राप्तः तमिळ्सुगन्धः अपि अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आण्डाळ्&oldid=270687" इत्यस्माद् पुनः प्राप्तिः