तेनिमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तेनिमण्डलम्
—  मण्डलम्  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिळ्नाडु
मण्डलम् तेनि
उपमण्डलम् पेरियाकुलम्, तेनि, आण्डिपट्टिः, उत्तमपाळैयम्, बोडिनायकनूरुः
' July 07, 1996
केन्द्रप्रदेशः तेनि
बृहत्तमं नगरम् तेनि
Collector & District Magistrate डा । के। एस्। पळनिसामि, IAS
जनसङ्ख्या

• सान्द्रता
• महानगरम्

१२,४३,६८४[१] (2011)

430 /किमी2 (1,114 /वर्ग मील)
५,९१,८४१ (2001)

लिङ्गानुपातः पु-50.5%/स्त्री-49.5% /
साक्षरता

• Male
• Female

71.58%% 

• 81.88%%
• 61.19%%

व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

2,889 वर्ग किलोमीटर (1,115 वर्ग मील)

0 किलोमीटर (0 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     833.5 मिमी (32.81 इंच)

     40.5 °से (104.9 °फ़ै)
     15 °से (59 °फ़ै)

Central location: १०°०४′ उत्तरदिक् ७७°४५′ पूर्वदिक् / 10.067°उत्तरदिक् 77.750°पूर्वदिक् / १०.०६७; ७७.७५०
जालस्थानम् Official website of District Collectorate, Theni

तेनिमण्डलं (Theni District) (तमिऴ्: தேனி மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तेनिनगरम् ।

इतिहासः[सम्पादयतु]

१९९६ तमवर्षस्य जनवरीमासस्य प्रथमदिनाङ्के प्राक्तनमधुरैमण्डलस्य विभागेन तेनिमण्डलं निर्मितम् । नवदशशतकात् प्राक् अस्मिन् प्रान्ते जनवसतिः विरला आसीत् । १८८६ तमे वर्षे मुल्लैपेरियार्जलबन्धयोजनया पेरियार्नद्याः जलं कुम्बं, दर्याम् आनीय मुल्लैनद्या सह योजयितुं प्रयत्नः कृतः । अनेन कुम्बं, दर्यां जनवसतेः आनुकूल्यम् अभवत् । १८९० तः १९२० वर्षयोः मध्ये बहवः जनाः सपीपस्थेभ्यः शुष्कप्रदेशेभ्यः अत्र आगत्य वासं कृतवन्तः । ततः परं तेनिप्रान्ते औद्यमिकाभिवृद्धिः वेगेन जाता ।

भौगोलिकम्[सम्पादयतु]

तेनिमण्डलस्य विस्तारः २८८९ चतुरश्रकिलोमीटर् । इदं मण्डलं पश्चिमघट्टानां पादे अस्ति । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कलमण्डलं, पूर्वभागे मधुरैमण्डलं, नैर्ऋत्ये विरुदुनगरमण्डलं, पश्चिमे केरलराज्यस्य इडुक्किमण्डलं च अस्ति ।

नैसर्गिकतया मण्डले द्वौ भूगोलिकपरिसरौ दृश्येते । पेरियकुळम्, उत्तमपाळैयम्, आण्डिपट्टि, उपमण्डलेषु गिरिप्रदेशाः सन्ति। यत्र गिरिनिर्झरैः पोषितः सस्यराशिः भवति । अन्यः परिसरः तु कुम्बं, दरीप्रदेशः ।

वैगै, कोट्टगुडि, सुरुळियार्, वरगनदी, मञ्जलार्, वरट्टरुनद्यः अस्मिन् मण्डले प्रवहन्ति । मण्डलस्य प्रमुखाः जलाशयाः वैगैजलबन्धः, मञ्जळारुजलबन्धः, सोत्तुप्परैजलबन्धः, षण्मुगनदीजलबन्धः, मणलारुजलबन्धः, मेल्मणलारुजलबन्धः च ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं तेनिमण्डलस्य जनसंख्या १,२४३,६८४ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३८६ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४३३ (११२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १३.६९% आसीत् । तेनिमण्डले पुं, स्त्री अनुपातः १०००:९९०, साक्षरताप्रमाणं च ७७.६२% अस्ति । जनसंख्यादृष्ट्या तेनि, अल्लिनगरं, बोडिनायकनूरुः च बृहत्तमे पत्तने ।

उपमण्डलानि[सम्पादयतु]

तेनिमण्डले पञ्च उपमण्डलानि सन्ति। तानि –

१) तेनिः
२) पेरियकुळम्
३) आण्डिपट्टिः
४) उत्तमपाळैयम्
५) बोडिनायकनूरुः

कृषिः वाणिज्यं च[सम्पादयतु]

कृषिप्रधानम् इदं मण्डलम् । भूभागस्य ४०.३३% कृषिभूमिः अस्ति । अत्रत्यानि प्रमुखाणि सस्यानि इक्षुः, तण्डुलः, मिलेट्, कलायः, तिलः, कौशेयः, कदली, नारिकेलः, टी, काफ़ी, एला, द्राक्षाः, आम्राः च ।

कुम्बं, दरी द्राक्षाकृषेः प्रधानं स्थलम् । अत्र प्रतिवर्षं ४००० कृषिकाः प्रायः ९०,००० टन् परिमितं मस्कट्, द्राक्षाः, १०,००० टन् परिमितं थाम्सन् निर्बीजद्राक्षाः च रोपयन्ति । आवर्षं द्राक्षाकृषिः भवति इति अस्य मण्डलस्य विशेषः । कार्पाससंस्करणकेन्द्राणि, शर्करागाराणि च मण्डले अधिकसंख्यायां दृश्यन्ते । एलाकृषेः कारणेन बोडिनायकनूरुः ‘एलानगरी’ इत्येव प्रसिद्धः अस्ति । उत्तमपाळैये टी कृषिः अधिकतया भवति ।

वीक्षणीयस्थलानि[सम्पादयतु]

वैगैजलबन्धः[सम्पादयतु]

वैगैजलबन्धः

तेनिमण्डलस्य आण्डिपट्टे समीपे अयं जलबन्धः वैगैनद्यां निर्मितः अस्ति । अनेन जलबन्धेन मधुरै, दिण्डुक्कलमण्डलयोः कृषिजलं, मधुरै, आण्डिपट्टिपत्तनयोः पेयजलं च प्राप्यते । जलबन्धस्य समीपे तमिऴ्नाडुसर्वकारस्य कृषिसंशोधनकेन्द्रम् अस्ति ।

सुरुळिजलधारा[सम्पादयतु]

इयं जलधारा तेनिपत्तनात् ५६ किलोमीटर् दूरे अस्ति । इयं द्विस्तरीया जलधारा । सुरुळिनदी मेघमलैपर्वतप्रदेशात् प्रवहति । जलधारायाः औन्नत्यं १५० पादाः (४६ मीटर् - प्रथमस्तरे) + ४० पादाः (१२ मीटर् - द्वितीयस्तरे) अस्ति । जलधारायाः समीपे प्रणवाकारकः सुरुळिवेलप्पर् (सुब्रह्मण्य) देवालयः अस्ति । जलधारायाः ८०० मीटर् उपरि कैलासनाथस्य गुहादेवालयः अस्ति ।

मेघमलै[सम्पादयतु]

मेघमलैजलपातः

इयं पर्वतश्रेणिः पश्चिमघट्टानां भागः । अत्र बहूनि एलाक्षेत्राणि, टीक्षेत्राणि च दृश्यन्ते । समुद्रस्तरात् १५०० मीटर् औनत्त्यम् अस्य प्रदेशस्य ।

कुम्बक्करैजलधारा[सम्पादयतु]

इयं जलधारा पऴनिगिरीणां चरणभागे पेरियकुळतः ९ किलोमीटर् दूरे अस्ति । अत्र प्रवहन्ती नदी पाम्बारुः ।

षण्मुगनदीजलबन्धः[सम्पादयतु]

अयं जलबन्धः तेनिमण्डले रायनपट्टे समीपं षण्मुगनद्यां निर्मितः अस्ति । जलबन्धात् मेघमलैपर्वतश्रेण्याः सुन्दरं दृश्यं दृग्गोचरं भवति ।

मण्डले आचर्यमाणानि पर्वदिनानि[सम्पादयतु]

तेनिमण्डले उत्तमपाळैये आचर्यमाणः ‘रम्ज़ान् पेरु नाळ् तोऴुहै’ बहुप्रसिद्धः । मेमासे वीरपाण्डौ कौमारियम्मदेवालयस्य उत्सवः, भद्रकाळिपुरे ‘भद्रकाळियम्मन् चित्तिरै तिरुविऴा’, तेनौ वीरप्प अय्यनार् उत्सवः, कूचनूरे शनीश्वरदेवालयस्य उत्सवः, देवतनपट्टौ कामाक्षी अम्मन् उत्सवः च मण्डलस्य अस्य प्रधानाः उत्सवाः । पोङ्गल् पर्व (मकरसङ्क्रमणम्) अस्मिन् मण्डले महता वैभवेन आचर्यते । अस्मिन् सन्दर्भे पल्लवरायनपट्टौ, अय्यम्पट्टौ, पुदुपट्टौ च ‘जल्लिकट्टु’ आचरणं भवति । चित्रापौर्णमीपर्वं गुडलूरुसमीपे श्रीमङ्गलादेविकन्नगिदेवालये मेमासे सम्भ्रमेण आचर्यते । आनैमलैयन्पट्टौ क्रिस्मस्-नववर्षारम्भौ सम्यक् आचर्यन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=तेनिमण्डलम्&oldid=481932" इत्यस्माद् प्रतिप्राप्तम्