वेल्लूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वेल्लूरुमण्डलम्
वेल्लूरु
—  मण्डलम्  —
[[file:|250px|border|alt=|Map of तमिळ्नाडु showing location of वेल्लूरुमण्डलम्]]


Location of वेल्लूरुमण्डलम्
in तमिळ्नाडु
निर्देशाङ्काः

१२°५४′४०″ उत्तरदिक् ७९°८′१०″ पूर्वदिक् / 12.91111°उत्तरदिक् 79.13611°पूर्वदिक् / १२.९११११; ७९.१३६११

देशः भारतम्
राज्यम् तमिळ्नाडु
मण्डलम् वेल्लूरु
' 1996
केन्द्रप्रदेशः वेल्लूरु
बृहत्तमं नगरम् वेल्लूरु
Collector & District Magistrate श्री अजय यादवः IAS
[[तमिळ्नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) elected (12)
सांसदक्षेत्रम् वेल्लूरु
जनसङ्ख्या

• सान्द्रता
• महानगरम्

३९,२८,१०६[१] (2011)

646 /किमी2 (1,673 /वर्ग मील)
१३,०७,९९८

व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

6,077 वर्ग किलोमीटर (2,346 वर्ग मील)

0 किलोमीटर (0 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     917 मिमी (36.1 इंच)

     39.5 °से (103.1 °फ़ै)
     15.6 °से (60.1 °फ़ै)

जालस्थानम् Official website of District Collectorate, Vellore

वेल्लूरुमण्डलं (Vellore district) (तमिऴ्: வேலூர் மாவட்டம்) भारतस्य तमिऴ्‌नाडु राज्यस्य ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं वेल्लूरुनगरम् । जनसंख्यादृष्ट्या तमिऴ्‌नाडुराज्ये अस्य मण्डलस्य तृतीयस्थानम् (प्रथमस्थानं चेन्नैमण्डलस्य, द्वितीयं काञ्चिपुरस्य) ।

इतिहासः[सम्पादयतु]

वेल्लूरुमण्डले भिन्नेषु कालेषु उरैयूर् चोळानां, पल्लवानां, मळखेडराष्ट्रकूटानां, मराठानां, नवाबानां च प्रशासनम् आसीत् । वेल्लूरुदुर्गं चिन्नबोम्मिनायकस्य काले (क्रि. श. १५२६-१५९५) निर्मितम् । क्रि. श. सप्तदशशतके प्रवृत्ते कर्णाटकसमरे एतत् दुर्गं प्रबलम् इति परिगणितम् आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे वेल्लूरुमण्डलस्य प्रमुखं स्थानम् अस्ति । १८०६ तमे वर्षे अत्र प्रवृत्तः सैन्यक्षोभः १८५७ तमवर्षस्य प्रथमस्वातन्त्र्यसङ्ग्रामस्य पूर्वभावित्वेन लक्ष्यते । स्वातन्त्र्यप्राप्त्यनन्तरम् इदं मण्डलं तदानीन्तने मद्रास् राज्ये अन्तर्भूतम् । आधुनिकं वेल्लूरुमण्डलं पुरा उत्तर आर्काट्मण्डलस्य भागः आसीत् । १९८९ तमवर्षस्य सेप्टम्बर् मासस्य ३० दिनाङ्के उत्तर आर्काट्मण्डलं तिरुवण्णामलैमण्डलम् (सम्बुवरायर्) तथा उत्तर आर्काट्मण्डलम्(अम्बेड्कर) इति द्वेधा विभक्तम् । ततः १९९६ तमे वर्षे उत्तर आर्काट् अम्बेड्करमण्डलस्य वेल्लूरु इति नामधेयं दत्तम् ।

भौगोलिकम्[सम्पादयतु]

वेल्लूरुमण्डलस्य विस्तारः ६०७७ चतुरस्रकिलोमीटर् । अस्य ईशान्यभागे तिरुवळ्ळूरुमण्डलम्, आग्नेयदिशॆ काञ्चिपुरमण्डलं, दक्षिणे तिरुवण्णामलैमण्डलं, नैर्ऋत्ये कृष्णगिरिमण्डलम्, उत्तरभागे आन्ध्रप्रदेशराज्यं च अस्ति ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं वेल्लूरुमण्डलस्य जनसंख्या ३,९२८,१०६ । देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या वेल्लूरु ६२ तमं स्थानम् । अस्य मण्डलस्य जनसंख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६४६ जनाः (१६७०/चतुरस्रमैल्)। २००१-२०११ दशके जनसंख्यावृद्धिः १२.९६% आसीत् । अत्र पुं, स्त्री अनुपातः १०००-१००४ अस्ति । साक्षरता ७९.६५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

वेल्लूरुमण्डले नव उपमण्डलानि सन्ति। तानि -

  1. आम्बूरु
  2. अरक्कोणम्
  3. आर्काट्
  4. गुडियात्तम्
  5. काट्पाडि
  6. तिरुपत्तूरु
  7. वानियम्बाडि
  8. वेल्लूरु
  9. वालाजा

कृषिः वाणिज्यं च[सम्पादयतु]

वेल्लूरुमण्डले कृषेः प्रधानं स्थानम् अस्ति । जनसंख्यायाः अधिकः भागः कृषिकार्यरतः । अत्र रूढानि प्रमुखानि आहारसस्यानि तण्डुलः, रागि, धान्याकं च । राज्यस्य इक्षुदण्डोत्पादकेषु मण्डलेषु वेल्लूरु प्रमुखं स्थानं भजते । कलाय, नारिकेल, सूर्यकान्ति, तिलानाम् अपि उत्पादनं दृश्यते । राणिपेटे विद्यमानं बी.एच्‌.ई.एल् संस्थायाः कार्यागारं राज्यस्य प्रमुखेषु भारोत्पादनकेन्द्रेषु अन्यतमम् । अस्मिन् मण्डले त्रीणि औद्यमिकोद्यानानि सन्ति । काट्पाडिस्थं सिड्को (SIDCO), राणिपेटे सिप्काट् (SIPCOT), अरक्कोणे सिड्को (SIDCO) च भवति।

वीक्षणीयस्थलानि[सम्पादयतु]

श्रीमहालक्ष्मी देवालयः, श्रीपुरम्

वेल्लूरुदुर्गं मण्डलस्य प्रमुखं प्रवासस्थानम् । इदं केन्द्रस्थानस्य वेल्लूरुपत्तनस्य निकटे अस्ति । वानियम्बाडिनगरस्य समीपे येळगिरिधाम अस्ति । इदं ’दरिद्रानाम् ऊटि’ इत्येव प्रसिद्धम् । येळगिरिसमीपे जल्लगम्परैनामकः जलपातः अस्ति । अत्र वर्षर्तौ एव अधिकं जलं भवति । अचिरात् निर्मितं श्रीपुरकनकमन्दिरं जनप्रियं जातम् । श्रीपुरे महालक्ष्मी मन्दिरम् अस्ति । अस्य मन्दिरस्य विमानभागस्य अर्धमण्डपस्य च अन्तः बहिः च सुवर्णेन लेपितम् अस्ति ।

निर्देशाङ्काः - 12°54′40″N 79°8′10″E

केन्द्रस्थानम् –वेल्लूरु बृहत्तमं नगरम् –वेल्लूरु बृहत्तमं मेट्रोनगरम् – नास्ति लोकसभाक्षेत्रम् –वेल्लूरु, अरक्कोणम्, तिरुवण्णामलै

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


  1. "2011 Census of India" (Excel). भारतसर्वकारः. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=वेल्लूरुमण्डलम्&oldid=480988" इत्यस्माद् प्रतिप्राप्तम्