सामग्री पर जाएँ

चित्तूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चित्तूरुमण्डलम्

చిత్తూరు
मण्डलम्
श्रीवेङ्कटेश्वरस्वामीदेवालयम्, तिरुपति
श्रीवेङ्कटेश्वरस्वामीदेवालयम्, तिरुपति
मण्डलम् चित्तूरुमण्डलम्
राज्यम् आन्ध्रप्रदेशराज्यम्
प्रान्त्यः रायलसीमाप्रान्त्यः
केन्द्रम् चित्तूरुनगरम्
Area
 • Total १५,३५९ km
Population
 (2011)
 • Total ४१,७०,४६८
 • Density २७५/km
भाषाः
 • अधिकृतभाषा तेलुगुभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
ISO 3166 code IN-AP-PR
Website www.chittoor.nic.in

चित्तूरुमण्डलम् (Chittoor district)आंध्रप्रदेशराज्ये स्थितम् एकं मण्डलम् । अस्य मण्डलस्य केन्द्रः चित्तूर् नगरः ।

इतिहासः

[सम्पादयतु]

१९११ तमे वर्षे आविष्कृतं चित्तूरुमण्डलम् । कलियुगाराध्यदेवसन्निधिः श्रीवेङ्कटेश्वरस्वामिदेवालयः, पद्मावती देवालयः, तिरुचानूर्, प्रसिध्दशैवक्षेत्रं श्रीकालहस्ती|श्रीकालहस्ती]], वरसिध्दिविनायकक्षेत्रं काणिपाकं, सुरम्यं मनोरञ्जनकेन्द्रं हार्षिली-पर्वतप्रान्तः गोगर्भतीर्थं, नागलापुरग्रामे वेदनारायणस्वामी देवालयः, कपिलतीर्थम्, आकाशगङ्गा, पापविनाशनं, तलकोनारण्यप्रान्तम् इत्यादि प्रदेशवैविध्येन विराजते चित्तूरुमण्डलम् । पल्लवैः, चोलैः, यादवैः, विजयनगरराजैः, गोलकोण्डा-मौसूरु ब्रिटिष्पालकैः च पालितं मण्डलम् । मण्डलमिदं निजां नाम्ना राज्ञा आङ्गलेयानां प्रतिदानं कृतं १८०० काले इत्यतः दत्तमण्डलम् इत्यभिधीयते ।

भौगोलिकम्

[सम्पादयतु]

मण्डलस्य प्राग्दक्षिणदिशोः तमिलनाडु, पश्चिमे कर्णाटकराज्यम्|कर्णाटकम्]], उत्तरे च कडपा, अनन्तपुरं च सीमायां सन्ति । १९६० तमे वर्षे कांश्चन प्रदेशान् तमिलनाडुराज्ये, तमिलनाडुराज्यस्य तिरवल्लूरुमण्डलस्थितान् कांश्चन प्रदेशान् च अस्मिन् मण्डले परस्परसम्मेलनं कृतवन्तः “ पटास्कर्” नियम परिधिं निधाय ।

कृषिः वणिज्यं च

[सम्पादयतु]

तिन्त्रिणी, रक्तचन्दनं, नाधु, वनौषधीनां च स्रोतः इदं मण्डलम् । स्वर्णमूलं, सुधाशिलाः इत्यादीनि विरलतया लभ्यन्ते । प्रारिश्रामिकक्षेत्रेऽपि वर्धमानम् इदं मण्डलम् । वाहनानि, शर्करा, वस्त्राणि, मधु,ताम्रलोहपात्रनिर्माणादि कर्मागारैः शोभतेदं मण्डलम् । श्रीकालहस्तिपुण्यक्षेत्रे पाञ्चालिकानां निर्माणं, रेणिगुण्टप्रान्ते रैल्वेकार्यशाला, चन्द्रगिरिसिरामिक्कर्मागारः च विराजन्तेऽत्र । कूपजलमेव सेद्यार्थं उपयुज्यतेऽत्र । धान्येन सह कलायः, इक्षुः, माषाः, वार्तकी, फलदीनां च सस्यं क्रियते । तुङ्गभद्राधारित-जलविद्युत्केन्द्रद्वारा विद्युतः प्रदानं भवति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

तिरुपतिः अत्यन्तं विस्तृतमेकम् आध्यात्मिक-पारिश्रामिक-विद्याकेन्द्रं वर्तते । सहस्रशः भक्ताः समागत्य, सप्तगिरिवासिनं श्रीवेङ्कटेश्वरं दृष्ट्वा सानन्दं स्वस्थानं प्रतियान्ति । अपि च प्रसिध्द शैवक्षेत्रं श्रीकालहस्ती, वरसिध्दिविनायकक्षेत्रं काणिपाकं, सुरम्यं मनोरञ्जनकेन्द्रं हार्षिली-पर्वतप्रान्तः गोगर्भतीर्थं, कपिलतीर्थम्, आकाशगङ्गा, पापविनाशनं, तलकोनारण्यप्रान्तम् इत्यादीनि अवश्यं सन्दर्शनीयनि स्थलानि ।

वीथिका

[सम्पादयतु]

तालुकाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=चित्तूरुमण्डलम्&oldid=487378" इत्यस्माद् प्रतिप्राप्तम्