प्रकाशमण्डलम्
प्रकाशम् ప్రకాశం | |
— मण्डलम् — | |
निर्देशाङ्काः
१५°३०′उत्तरदिक् ८०°०३′पूर्वदिक् / 15.50°उत्तरदिक् 80.05°पूर्वदिक् | |
देशः | भारतम् |
राज्यम् | आन्ध्रप्रदेशः |
जनसङ्ख्या • सान्द्रता |
३०,५९,४२३ (2001[update]) • 173.57 /किमी2 (450 /वर्ग मील) |
समयवलयः | IST (UTC+05:30) |
विस्तीर्णम् • औन्नत्यम् |
17,626 वर्ग किलोमीटर (6,805 वर्ग मील) • 100 मीटर (330 फ़ुट) |
ISO 3166-2 | IN-AP-PR |
जालस्थानम् | www.prakasam.nic.in |
प्रकाशमण्डलम् (Prakasam district)आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं ओंगोलु नगरम्।
इतिहासः
[सम्पादयतु]१९७२ तमे वर्षे नेल्लूरु,कर्नूलु, गुण्टूरु इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलुमण्डलं कृतम् । स्वातन्त्र्यसमरयोध्दा आन्ध्रकेसरी टङ्गुटूरि प्रकाशं पन्तुलु स्मारकार्थं प्रकाशं इति नामाङ्कितम् । ततः पूर्वम् इक्ष्वाकूनां, पल्लवानां, चालक्यानां विजयनगरराजानां,गोल्कोण्ड, कर्णाटकनवाबजनानां च पालने आसीत् । वेलनाटिचौडाः चन्दवोलुप्रान्तं राजधानीं कृत्वा पालितवन्तः । रेड्डिराजाः १३२४ समये राज्यं संस्थापितवन्तः । अद्दकिं राजधानीं कृतवन्तः । ततः पश्चात् पोतारेड्डिः राजधानीं कोण्डवीडुप्रान्तं प्रति परिवर्तितवान् । तडागस्य खननं, खणिगिरिदुर्गस्य निर्माणं विजयनगरराजाः कृतवन्तः । १९२० समये आन्ध्ररत्नं दुग्गिरालगोपलकृष्णस्य अध्वर्यवे “रामदण्डु” इत्याख्यया संस्थया चीराल, पेराल उद्यमः कृतः ।
भौगोलिकम्
[सम्पादयतु]अस्य मण्डलस्य उत्तरदिशे गुण्टूरुमण्डलम्, दक्षिणदिशेकडपा मण्डलम्,नेल्लूरुमण्डले, प्राग्दिशे बङ्गालाखातसमुद्रः, पश्चिमेकर्नूलुमण्डलं च सीमायां सन्ति । जनपदेस्मिन् २६% भूभागः अरण्येन व्याप्तः । कृषिभूमौ ३०% भूमेः जलव्यवस्था वर्तते । ५२% भूभागे सेद्यं क्रियते ।
वाणिज्यम्
[सम्पादयतु]प्रधानकृषिः व्रीहिः । कार्पासः, मरीचिका, कलायः एरण्डतैलम्, आढकी इत्यादीनां सस्यं क्रियते । प्रकाशसेतोः नागार्जुनसागरदक्षिणकुल्यातः कम्ममूरु, राल्लपाडु, कनिगिरिजलाशयानां द्वारा जलं लभ्यते । चीरालप्रान्ते ITC अध्वर्यवे धूमपत्रपरिश्रमः, परिसरप्रान्तेषु वस्त्रवयनं, वेटपालग्रामे बल्लातकीपरिश्रमः, कार्यासतैलपरिश्रमः च सन्ति । मण्डलेस्मिन् महाविद्यालयाः नागार्जुनविश्वविद्यालयपरिधौ वर्तन्ते ।
वीक्षणीयस्थलानि
[सम्पादयतु]वाडरेवुसमुद्रतीरं, वेटपालं ग्रन्थालयः, सिङ्गरायकोण्डसमीपस्थः वराहनरसिंहस्वामि देवालयः, मार्कापुरग्रामस्थः चेन्नकेशवस्वामि देवालयः इत्यादयः पर्याटकस्थलानि सन्ति । अस्मिन् मण्डले वल्लूरु मे टङ्गुटूरि प्रकाशः जन्मः प्राप्तवान् । मार्कापुरे कृष्णफलकानां, ग्राफैट् इत्यस्य च परिश्रमाः सन्ति ।
तालूकाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- www.ongolelive.com
- www.ongoleadda.com Archived २०१२-०४-०६ at the Wayback Machine
- Official site
- http://www.aptourism.com
- http://www.shadows-ngo.org
महबूब् नगरमण्डलम् | गुण्डूरुमण्डलम् | |||
कर्णूलुमण्डलम् | बंगाळाखातसमुद्रम् | |||
प्रकाशमण्डलम् | ||||
कडपा मण्डलम् | नेल्लूरुमण्डलम् |