कडपामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कडपामण्डलम्
—  मण्डलम्  —
कडपामण्डलम्
कडपामण्डलम्
कडपामण्डलम्
Location of कडपामण्डलम्
in आन्ध्रप्रदेशः
निर्देशाङ्काः

१४°३०′उत्तरदिक् ७८°४२′पूर्वदिक् / 14.5°उत्तरदिक् 78.7°पूर्वदिक् / १४.५; ७८.७

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
जनसङ्ख्या

• सान्द्रता

२६,०१,७९७ (2001)

169 /किमी2 (438 /वर्ग मील)

व्यावहारिकभाषा(ः) तेलुगुभाषा, उर्दूभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 15,379 वर्ग किलोमीटर (5,938 वर्ग मील)
जालस्थानम् kadapa.info

कडपामण्डलम् (Kuddapah District) आंध्रप्रदेशराज्ये स्थितमेकं मण्डलमस्ति । अस्य मण्डलस्य केन्द्रः कडपा नगरम् ।

इतिहासः[सम्पादयतु]

स्वातन्त्र्यात्पूर्वं १८०० तमवर्षात् आङ्ग्लेयाधीने अवर्ततेदं मण्डलं कडपा । १९६० तमे वर्षे आविष्कृतम् । प्रान्तमिदं पूर्वं शातवाहनैः, चालुक्यैः,चोलैः, राष्ट्रकूटिभिः, काकतीयैः, विजयनगरराजैः, गण्डिकोटा कडपा मैसूरुपालकैः, नैजां नवाब् जनैः च पालितमिदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

मण्डलेस्मिन् ३२-३७% भूभागः अरण्येन विस्तृतः । वेलिगोण्डा, लङ्कमलः, शेषाचलपर्वतश्रेण्यः वर्तन्ते । मदनपल्ली अरण्यप्रान्ते रक्तचन्दनम् उपलभ्यते ।

कृषिः वाणिज्यं च[सम्पादयतु]

सुधाशिलाः, सीसं, हेमलैट् इत्यादि खनिजसम्पद् वर्ततेऽत्र । मङ्गम्पेटप्रान्ते बैरैट्निधिः वर्तते । प्रोद्दुटूरु, कडपाप्रान्तयोः पारिश्रामिककेन्द्राणि वर्तन्ते । कडपाप्रान्ते पारिश्रामिकपरिकराणां परीक्षाकेन्द्रमपि अस्ति । माधवरप्रान्ते वस्त्रवयन केन्द्राणि सन्ति । भूभागेऽस्मिन् पादभागः सेद्यार्थम् उपयुज्यते । कर्नूलु, कडपा कुल्याभ्यः, मैदुकूरु, चेय्यूरु, पुलिवेन्दुल इत्यादि जलसेतुभिः, श्रीशैलदक्षिणकुल्याभ्यः च सस्यार्थं जलदानं प्रचलति । मुद्दनूरु अङ्गारविद्युत्केन्द्रद्वारा विद्युतः दानम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

पदकविता पितामहस्य श्रीमतः ताल्लपाक अन्नमाचार्यस्य जन्मभूमिः ताल्लपाकः ग्रामः, सिध्दय्यामठः, श्रीश्रीश्रीपोतुलूरिवीरब्रह्मेन्द्रस्वामिमठः, पुष्पगिरिमठः गण्डिकोटवेम्पल्ले च प्रमुखपर्याटककेन्द्राणि वर्तन्ते । मण्डलेस्मिन् महाविद्यालयाः श्रीवेङ्कटेश्वरविश्वविद्यालयपरिधौ प्रचाल्यन्ते ।

तालुकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कडपामण्डलम्&oldid=481474" इत्यस्माद् प्रतिप्राप्तम्