विजयनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विजयनगरम्

విజయనగరo జిల్లా

—  मण्डलम्  —
विजयनगरं मण्डलम्
विजयनगरं मण्डलम्
'
विजयनगरं मण्डलम्
निर्देशाङ्काः

१८°०७′उत्तरदिक् ८३°२५′पूर्वदिक् / 18.12°उत्तरदिक् 83.42°पूर्वदिक् / १८.१२; ८३.४२

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
केन्द्रप्रदेशः विजयनगरम्
बृहत्तमं नगरम् विजयनगरम्
समीपतमं नगरम् विशाखपट्टनम्
Collector डा. बि. किशोर्
सांसदक्षेत्रम् विजयनगरम्
Zilla parishad विजयनगरम्
जनसङ्ख्या

• सान्द्रता

२२,४५,१०३245,491 (2001)

344 /किमी2 (891 /वर्ग मील)

साक्षरता

• Male
• Female

51.07% 

• 62.37%
• 39.91%

व्यावहारिकभाषा(ः) तेलुगुभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

6,539 वर्ग किलोमीटर (2,525 वर्ग मील)

28 किलोमीटर (17 मील)

जालस्थानम् विजयनगरमण्डलम्

विजयनगरमण्डलम् (Vizianagaram district) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं विजयनगरम् ।

इतिहासः[सम्पादयतु]

कलिङ्गराज्ये अन्तर्भूतमिदं विजयनगरमण्डलम् । शातवाहनैः, विष्णुकुण्डिभिः, विजयनगरराड्भिः परिपालितम् । इदं मण्डलं गोलकोण्डाराजैः वशीकृतं तल्लिकोटयुध्दे १५६५ तमे वर्षे फ्रेञ्चदेशसाहाय्येन अधिकारः प्राप्तः, अत्र सलाबज्जङ्गमहारायेन । १७५७ तमे वर्षे विजयनगर-बोब्बिलिराजयोः बोब्बिलिमहासङ्ग्रामः समभूत् । फ्रेञ्चसैन्याध्यक्षः बुस्सी आसीत् । बुस्सीसाहाय्येन विजयनगरराजस्य रामराजनामकः बोब्बिलिराजा रङ्गरायं प्रति युध्दं कृत्वा बोब्बिलेः ससैन्यं प्रासादं ध्वस्तवान् । रङ्गरायचरवः अनन्तरकाले रामराजं जघाम ।

१९५८ वर्षे संवृत्ते चन्दुर्तिसङ्ग्रामे ब्रिटिष् सैन्येन, फ्रेञ्च् सैन्यं पराजितम् । १७६८ पर्यन्तम् उत्तरप्रान्ते सर्वाणि मण्डलानि ब्रिटिष् हस्तगतानि । १८९० काले गञ्जाम्विशाखप्रान्तयोः जातीयोद्यमं कार्यमारब्धम् । १९०५ समये वङ्गदेशविभाजनं पुरस्कृत्य प्रवृत्तेषु उद्यमेषु स्थानीयाः अतीवासक्त्या भागं गृहीतवन्तः । पश्चात् प्रवृत्तेषु बहुषु उद्यमेषु समधिकोत्साहेन भागम् ऊढवन्तः । १९७९ जून् १ दिनाङ्के अस्य मण्डलस्य आविष्कारः आन्ध्रप्रदेशराज्यावतरणानन्तरम् अभवत् ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य सीमायां प्राग्दक्षिणयोः बङ्गालाखातसमुद्रः, विशाखपट्टनमण्डलं च, पश्चिमोत्तरयोः ओडिष्षाराज्यं च वर्तन्ते । अस्मिन् मण्डले नेल्लिमर्लप्रान्ते माङ्गनीस् विरलतया लभ्यते । वायव्यात् नैरुतिं प्रति पर्वतपङ्कतयः विस्तृताः सन्ति अस्मिन् मण्डले । वर्षपातः नैरुति ऋतुपवनाधारेण मण्डलेस्मिन् ६०% कृषिभूमिः वर्तते ।

कृषिः वाणिज्यं च[सम्पादयतु]

मण्डलस्य प्रधानसस्यं धान्यम् । सामान्यतया इक्षुः, मरीचिका, कलायः इत्यादिसेद्यं कुर्वन्ति । माच्खण्ड- जलविद्युत्केन्द्रद्वारा विद्युतः योगदानम् अस्ति । आन्ध्रराज्ये जूटोत्पादनम् ५०% अस्मात् जनपदात् उपलभ्यते । बोब्बिलिप्रान्ते सङ्गीतपरिकराणां निर्माणं गृहपरिश्रमरुपेण चाल्यते ।

आन्ध्रविश्वविद्यालयपरिधौ अस्मिन् मण्डले महाविद्यालयाः प्रचाल्यन्ते । चारित्रकसङ्गीतसाहित्यकलासांस्कृतिकविशेषैः प्रख्यातिमाप्नोति इदं मण्डलं विजयनगरम्।

वीक्षणीयस्थलानि[सम्पादयतु]

पर्याटकेभ्यः मनोरञ्जकः रोचकः च वर्तते बोर्राबिल प्रदेशः । रामतीर्थग्रामे श्रीरामदेवालयः वर्तते।

तालूकाः[सम्पादयतु]

  • विजयनगरम्
  • गण्टाड्
  • भोगापुरम्
  • डेङ्काड्
  • पूसपाटिरेग
  • शृङ्गवरपुकोट
  • जामि
  • कोत्तवलस
  • वेपाडु
  • लक्कवरपुकोट
  • नेल्लिमर्ल्
  • गुर्ल
  • चीपुरुपल्लि
  • गरिविडि
  • मेरकमण्डिदम्
  • गजपतिनगरम्
  • बोण्डपल्लि
  • दत्तिराजेरु
  • मेण्टाड्
  • पार्वतीपुरम्
  • कोमराड्
  • गरुगुबिल्लि
  • जिय्यम्मवलस्
  • कुरुपाम्
  • गुम्मलक्ष्मीपुरम्
  • बादङ्गि
  • तेर्लाम्
  • सालूख
  • पाचिपेण्ट
  • मक्कुव
  • रामभद्रापुरम्
  • बोब्बिलि
  • सीतानगरम्
  • बलिजपेट

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विजयनगरमण्डलम्&oldid=480950" इत्यस्माद् प्रतिप्राप्तम्