सामग्री पर जाएँ

विशाखपट्टणमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विशाखपट्टणम्

(విశాఖపట్నం)
वैज़ाग्

  नगरम्  
विशाखपट्टणम्
विशाखपट्टणस्य सुन्दरं दृश्य
विशाखपट्टणस्य सुन्दरं दृश्य
Visakhapatnam is on the east coast of India.
विशाखपट्टणम्

(విశాఖపట్నం)

Location of विशाखपट्टणम्

(విశాఖపట్నం)

in आन्ध्रप्रदेशः
निर्देशाङ्काः

१७°४१′१८.१६″ उत्तरदिक् ८३°१३′०७.५३″ पूर्वदिक् / 17.6883778°उत्तरदिक् 83.2187583°पूर्वदिक् / १७.६८८३७७८; ८३.२१८७५८३

Former name Waltair
देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलम् विशाखपट्टणम्
महापौरः पि । जनार्दन राव्
जनसङ्ख्या

• सान्द्रता
• महानगरम्

४,२८८,११३ [District] (17th) (2011)

3,240 /किमी2 (8,392 /वर्ग मील)
१,७३०,३२० (2011)

समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

543 वर्ग किलोमीटर (210 वर्ग मील)

5 मीटर (16 फ़ुट)

विहन्ह्गमवीक्षा विशाखपट्टणस्य

विशाखपट्टणमण्डलम् (Visakhapatnam District)आन्ध्रप्रदेशस्य किञ्चनमण्डलं विद्यते। अस्य नगरस्य नाम कार्तिकेयात् आगतमस्ति । सुन्दरं सागरतीरं नौकानिस्थानं नौकानिर्माणकेन्द्रं च अत्र सन्ति । रामकृष्णसागरतीरम् अतीव सुन्दरम् अस्ति। दीपगृहम् (लैट् हौस्) इतः ६४ कि.मी पर्यन्तं प्रकाशं प्रसरति। अस्य समीपे सिंहाचलप्रदेशे पर्वते श्री लक्ष्मीनरसिंहस्वामी देवालयः अस्ति। गन्तुं ५०० सोपानानि सन्ति । ११ शतकीयः देवालयः एषः शिल्पकलायुक्तः अस्ति। ओरिस्साशैल्या भागवतः लीलाविनोदप्रसङ्गाः भित्तिषु चित्रिताः सन्ति। नौकानिर्माणकेन्द्रं परितः सुन्दरम् उद्यानम् अस्ति । विशाखपट्टणनगरे उत्तमवसति, भोजनव्यवास्था अस्ति ।

इतिहासः

[सम्पादयतु]

विश्वविख्यातसिंहाचलपुण्यक्षेत्रं विद्यते अस्मिन् मण्डले विशाखपट्टणम् । एतत् यावद्भारतदेशे बृहन्मण्डलम् आसीत् स्वातन्त्र्यात् पूर्वम् । मौर्याः, शातवाहनाः, विष्णुकुण्डिनः, चालुक्याः गजपतयः विजयनगराधीशाः, गोल्कोण्डसाम्राज्याधीशाः इत्यादीनां परिपालनानन्तरं ब्रिटिषाधिपत्यं गतम् । १८७९ काले वीरय्यदोराध्वर्यवे रम्पाविप्लवम्, १९२२ वर्षे गिरिजनैः सवरविप्लवं समजनि। ब्रिटिष्परिपालनविरोधिनः अल्लूरिसीतारामराजादीनां नायकत्वे नर्सीपट्टनं, रम्पचोडवरप्रान्तेषु वनवासिनः उद्यमं कृतवन्तः। किन्तु ब्रिटिष् सर्वकारः तान् उद्यमनायकान् पाशविकरीत्या मारितवान् । स्वातन्त्र्यानन्तरम् एतस्य मण्डलस्य द्विवारं विभजनं जातम् । ततः केचन प्रान्ताः श्रीकाकुले, केचन प्रान्ताः विजयनगरे च सम्मिलिताः । भौगोलिकम् अस्य सीमायां प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमदिशि ओरिस्साराज्यम्, उत्तरदिशि विजयनगरमण्डलं, दक्षिणदिशि पूर्वगोदावरीमण्डलं च वर्तन्ते । अस्य मण्डलस्य भूभागे ४२% अरण्यं वर्तते । ५ सङ्ख्याख्यः राजमार्गः अस्मिन् मण्डले १६९ कि.मी. मिते दूरे विस्तृतः ।

कृषिः वाणिज्यं च

[सम्पादयतु]

पाञ्चालिकानां निर्माणे सुप्रसिद्धः एटिकोप्पाकग्रामः वर्तते । मण्डलेऽस्मिन् बाक्सैट् वेर्मिक्युलेट् च उपलभ्येते । वातावरणे आर्द्रता अधिकः अस्ति । झञ्झवातस्य आधिक्येन पीड्यते इदं मण्डलम् । ३०% कृषिः क्रियते विद्यमानभूमौ । ४०% भूमिं प्रति जलयोगः अस्ति । १९३३ वर्षे नौकाकेन्द्रं निर्मितम् । विशाखपट्टणे केन्द्रराज्यसर्वकारयोः संस्थानि स्थापितानि । साहजिकं नौकाकेन्द्रं भारते अत्रैव विराजते । नौकाविमानरक्षणयन्त्रादिपरिकराणां निर्माणे, तेलस्वच्छता इत्यादिविभागेषु उपाधिः अधिकतया कल्प्यतेऽस्मिन् मण्डले ।

वीक्षणीयस्थलानि

[सम्पादयतु]

पर्यटकानाम् आकर्षकस्थानानि अनन्तगिरिः, चिन्तपल्लि, सीलेरु, अरकु, भीमिलि इत्यादीनि । सिंहाचलं श्रीवराहलक्ष्मीनरसिंहस्वामी देवालयः, डाल्विन्स् नोस्, रामकृष्णसागरः, काळिकादेवी आलयः, कैलासगिरि, रिषिकोण्डासागरः, इन्दिरागान्धिजन्तुप्रदर्शनशाला, बीमिली सागरः, सत्यनारायणस्वामी देवालयः, आन्ध्रविश्वविद्यालयः इत्यादीनि सन्ति।

उपमण्डलानि

[सम्पादयतु]
विशाखपट्टणस्य पार्श्वे विद्यमानसमुद्रतीरम्

मार्गः

[सम्पादयतु]

धूमशकटमार्गः

[सम्पादयतु]

चेन्नै- हौरामार्गे विशाखपट्टणनिस्थानम् अस्ति ।

वाहनमार्गः

[सम्पादयतु]

आन्ध्रप्रदेशस्य महानगरेभ्यः सम्पर्कः अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=विशाखपट्टणमण्डलम्&oldid=480966" इत्यस्माद् प्रतिप्राप्तम्