ओडिशाराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ओरिस्साराज्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ओडिशाराज्यम्
ଓଡ଼ିଶା
—  राज्यम्  —
भारतस्य भूपटे ओडिशाराज्यम्
ओडिशाराज्यस्य भूपटः
Coordinates (Bhubaneswar): २०°०९′उत्तरदिक् ८५°३०′पूर्वदिक् / 20.15°उत्तरदिक् 85.50°पूर्वदिक् / २०.१५; ८५.५०
Country भारतम्
Established १ एप्रिल् १९३६
Capital भुवनेश्वरम्
Largest city भुवनेश्वरम्
Districts 30
सर्वकारः
 • Governor एस् सि जमीर्
 • Chief Minister नवीनः पट्नैक् (BJD)
 • Legislature Unicameral (147 seats)
 • Parliamentary constituency 21
 • High Court Orissa High Court, Cuttack
विस्तीर्णता
 • संहतिः <
क्षेत्रविस्तारः 9th
जनसङ्ख्या (2011)
 • संहतिः ४,१९,४७,३५८
 • रैङ्क् 11th
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-OR
HDI increase 0.452 (medium)
HDI rank 27th (2005)
Literacy 73.45%
Official languages ओडियाभाषा
जालस्थानम् odisha.gov.in


ओडिशाराज्यं (Odisha) (ओडिया: ଓଡ଼ିଶା [oˑɽisaˑ]) भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते ।

ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं डियोमलिपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते ।

जगति दीर्घतमः हिराकुड्सेतुः(मृत्तिकासेतुः) अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति ।

भौगोलिकम्[सम्पादयतु]

ओडिशा-राज्यं भारतस्य पूर्वभागे, पूर्वतटे वा स्थितम् अस्ति । राज्यमिदं पञ्चप्राकृतिकप्रदेशेषु विभक्तम् अस्ति । मध्यशैलप्रस्थभागः, पूर्वदिशि तटीयक्षेत्रं, पश्चिमदिशि वक्राभूमिः, मध्ये उच्चभूमिक्षेत्रम्, अतिवृष्टेः प्रभावितं क्षेत्रं च । ओडिशा-राज्यस्य पश्चिमदिशि छत्तीसगढ-राज्यम्, उत्तरदिशि झारखण्ड-राज्यं, पश्चिमबङ्ग-राज्यं च, दक्षिणदिशि आन्ध्रप्रदेश-राज्यं च स्थितम् अस्ति । अस्य राज्यस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः स्थिता अस्ति [१]

अस्य राज्यस्य जलवायुः समशीतोष्णः वर्तते । अस्मिन् राज्ये अत्यधिकं शैत्यम्, अत्यधिकम् औष्ण्यं च न भवति । बङ्गाल-समुद्रकुक्ष्याः उष्णकटिबन्धीयजलवायुः उद्भवति । अतः समुद्रतटीयक्षेत्रे वर्षर्तौ महती वर्षा भवति ।

नद्यः[सम्पादयतु]

ओडिशा-राज्ये प्रमुखाः तिस्रः नद्यः सन्ति । महानदी, ब्राह्मणी, वैतरणी च । अन्याः अपि बह्व्यः नद्यः प्रवहन्ति । बुराबलाग-नदी, सुवर्णरेखा-नदी, ऋषिकुल्य-नदी, नागाबली-नदी, सालन्दी-नदी, इन्द्रावती-नदी, कोलाब-नदी, बांसधारा-नदी इत्यादयः ओडिशा-राज्यस्य नद्यः सन्ति । महा-नदी अस्य राज्यस्य बृहत्तमा नदी वर्तते । इयं नदी छत्तीसगढ-राज्यस्य रायपुर-मण्डले स्थितस्य बस्तर-शैलप्रस्थस्य अमरकण्टक-पर्वतात् उद्भवति । अस्याः नद्याः दैर्घ्यं ८५७ किलोमीटरमितम् अस्ति । ओडिशा-राज्ये अस्याः नद्याः दैर्घ्यं ४९४ किलोमीटरमितम् अस्ति । ब्राह्मणी-नदी अस्य राज्यस्य द्वितीया प्रमुखा नदी वर्तते । एवं च केन्दुझर-मण्डले स्थितात् गोनासिका-पर्वतात् वैतरणी-नदी उद्भवति । अस्मिन् बह्व्यः विद्युत्परियोजनाः प्रचलन्ति । हीराकुण्ड-विद्युत्परियोजना, कोलाब-विद्युत्परियोजना, रङ्गाली-विद्युत्परियोजना, मच्छकुण्डबाली-विद्युत्परियोजना इत्यादयः परियोजनाः अस्मिन् राज्ये प्रचलन्ति । हीराकुण्ड-परियोजनाः महा-नद्यां स्थिता [२]। ओडिशा-राज्ये चिल्का-तडागः वर्तते । अयं तडागः विश्वस्य बृहत्तमेषु तडागे द्वितीयः अस्ति । सम्पूर्णे विश्वमिन् प्रख्यातोऽयं चिल्का-तडागः । प्रारम्भे अयं बङ्गाल-कुक्ष्याः कश्चन भागः वर्तते स्म । किन्तु सिकतासमूहेभ्यः अयं तडागः बङ्गाल-समुद्रकुक्ष्याः भिन्नः जातः । अयं तडागः १६ किलोमीटरमितः दीर्घः, १६ तः २० किलोमीटरमितः विस्तृतश्च अस्ति । अस्मिन् तडागे द्वीपद्वयं वर्तते । पाडिकुण्डः, मलुड च । तडागोऽयं भारतस्य प्रसिद्धेषु तडागेषु अन्यतमः अस्ति । अस्मिन् तडागे विभिन्नप्रजातीनां विहगाः दृश्यन्ते ।

इतिहासः[सम्पादयतु]

सञ्चिका:Gudahandi.JPG
कलहण्डिजनपदस्य प्राचीनचित्राणि

प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । महाभारतस्य कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।

जनसङ्ख्या[सम्पादयतु]

ई. स. १९६१ तमे वर्षे केरल-राज्यस्य स्थापना अभवत् । ई. स. १८८१ तमे वर्षे केरल-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरल-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. १८५० तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । १९०१ तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । १९९१ तमस्य वर्षस्य जनसङ्ख्या २९१ लक्षम् आसीत् । २०११ तमस्य वर्षस्य जनगणनायाम् ओडिशा-राज्यस्य जनसङ्ख्या ४,१९,४७,३५८ अभवत् । तेषु २,१२,०१,६७८ पुरुषाः, २,०७,४५,६८० महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते २६९ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६९ जनाः । ओडिशा-राज्ये पुरुषस्त्रियोः अनुपातः १०००-९७८ अस्ति ।

मण्डलानि[सम्पादयतु]

ओडिशा-राज्ये त्रिंशत् मण्डलानि सन्ति । तानि –

  1. अङ्गुलमण्डलम्
  2. कन्धमालमण्डलम्
  3. कालाहाण्डीमण्डलम्
  4. केन्द्रापडामण्डलम्
  5. केन्दुझरमण्डलम्
  6. कोरापुटमण्डलम्
  7. कटकमण्डलम्
  8. खोरधामण्डलम्
  9. गञ्जाममण्डलम्
  10. गजपतिमण्डलम्
  11. जगतसिंहपुरमण्डलम्
  12. जाजपुरमण्डलम्
  13. झारसुगुडामण्डलम्
  14. देवगढमण्डलम्
  15. ढेंकानालमण्डलम्
  16. नबरङ्गपुरमण्डलम्
  17. नयागढमण्डलम्
  18. नुआपाडामण्डलम्
  19. पुरीमण्डलम्
  20. बरगढमण्डलम्
  21. बलांगीरमण्डलम्
  22. बालेश्वरमण्डलम्
  23. बौधमण्डलम्
  24. भद्रकमण्डलम्
  25. मयुरभञ्जमण्डलम्
  26. मलकानगिरिमण्डलम्
  27. रायगडामण्डलम्
  28. सम्बलपुरमण्डलम्
  29. सुन्दरगढमण्डलम्
  30. सोनपुरमण्डलम्

इतिहासः[सम्पादयतु]

ओडिशा-राज्यस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । अस्य राज्यस्य इतिहासः चतुर्षु कालखण्डेषु विभज्यते । हिन्दुकालः, मुसलिमकालः, ब्रिटिश-कालः, स्वातन्त्र्योत्तरकालः च । प्राचीनकाले अस्मिन् प्रदेशे नन्द-वंशजानां, मौर्य-वंशजानां च शासनम् आसीत् । ई. पू. तृतीयशताब्द्यां मौर्य-वंशजेन अशोकेन कलिङ्ग-प्रदेशः जितः । किन्तु युद्धस्य दुष्परिणामे प्राप्ते सति अशोकेन हिन्सां, युद्धं च त्यक्त्वा बौद्धधर्मः स्वीकृतः । ई. पू. द्वितीयशताब्द्यां खारवेल-राज्ञः शासनकाले कलिङ्ग-राज्यं शक्तिशालि अभवत् । अनन्तरं समुद्रगुप्तेन, हर्षवर्धनेन अपि अस्मिन् राज्ये शासनं कृतम् आसीत् । सप्तमशताब्द्याम् ओडिशा-राज्ये गङ्ग-वंशस्य शासनम् आसीत् ।

ई. स ७९७ तमे वर्षे ययातिद्वितीयेन महाशिवगुप्तेन ओडिशा-राज्यं शासितम् । तेन विशालसाम्राज्यं स्थापितम् आसीत् । चतुर्दशशताब्दीतः ई. स. १५९२ तमवर्षं यावत् विभिन्नमुस्लिमशासकैः अस्मिन् राज्ये शासनं कृतम् आसीत् । ई. स. १५९२ तमे वर्षे मुगल-शासकेन अकबर-राज्ञा ओडिशा-राज्यं स्वस्य राज्ये विलीनं कृतम् । मुगल-शासनानन्तरम् ओडिशा-राज्ये मराठा-शासकैः स्वस्य आधिपत्यं स्थापितम् । ई. स. १५१४ तमे वर्षे पुर्तगाली-जनाः ओडिशा-राज्यं प्राप्तवन्तः । तदनन्तरम् ई. स. तमे वर्षे डच्-जनाः समागतवन्तः । अन्ते ब्रिटिश्-जनाः आगतवन्तः । ई. स. १७५७ तमस्य वर्षस्य प्लासी-युद्धस्यानन्तरं बङ्गाल-राज्यस्य केषुचित् क्षेत्रेषु आङ्ग्लैः स्वस्याधिकारः स्थापितः आसीत् । ई. स. १८०३ तमे वर्षे सम्पूर्णे ओडिशा-राज्ये आङ्ग्लानाम् आधिपत्यम् अभवत् । भारतस्वातन्त्र्यान्दोलने अपि ओडिशा-राज्यस्य महत्त्वपूर्णं योगदानम् अस्ति । आन्दोलने ओडिशा-राज्यस्य नैकैः क्रान्तिकारिभिः स्वस्य योगदानं प्रदत्तम् आसीत् । “सुभाषचन्द्रबोसः”, “गोपबन्धुदासः”, “हरे कृष्ण मेहताब”, “जगबन्धु बख्शी” इत्यादयः क्रान्तिकारिणः ओडिशा-राज्येन सह सम्बद्धाः आसन् । ई. स. १९३६ तमे वर्षे ओडिशा-राज्यं भारतस्य स्वतन्त्रराज्यत्वेन उद्घोषितम् । ई. स. १९४९ तमे वर्षे ओडिशा-राज्यस्य विभिन्नक्षेत्राणि पुनः ओडिशा-राज्ये विलीनानि कृतानि [३]

महानगराणि[सम्पादयतु]

ओडिशा-राज्ये पञ्च महानगराणि सन्ति । भुवनेश्वर-नगरं, राउरकेला-नगरं, कटक-नगरं, सम्बलपुर-नगरं, ब्रह्मपुर-नगरं च [४]

भुवनेश्वरम्[सम्पादयतु]

भुवनेश्वर-नगरम् ओडिशा-राज्यस्य खोर्धा-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य राजधानी अस्ति । अस्मिन् नगरे कलिङ्गाकालस्य बहूनि भवनानि सन्ति । नगरमिदम् ऐतिहासिकं धार्मिकं च वर्तते । अस्य नगरस्य इतिहासः त्रीणिसहस्रवर्षपुरातनः अस्ति । कथ्यते यत् “भुवनेश्वर-नगरे द्विसहस्राधिकानि मन्दिराणि सन्ति । अत एव इदं “मन्दिराणां नगरं” कथ्यते । अस्य नगरस्य मन्दिराणां स्थापत्यकलाः अतीव प्राचीनाः अस्ति । भुवनेश्वर-नगरम् लिङ्गराजस्य स्थानं कथ्यते । लिङ्गराजः इत्युक्ते भगवान् शिवः । भुवनेश्वर-नगरं गत्वा जनाः निर्माणशैलीं दृष्ट्वा मुग्धाः भवन्ति । अस्मिन् नगरे मन्दिराणि, तडागः, गुहाः, सङ्ग्रहालयः, उद्यानानि, जलबन्धः इत्यादीनि पर्यटनस्थलानि सन्ति । लिङ्गराज-मन्दिरं, मुक्तेश्वर-मन्दिरं, राजारानी-मन्दिरम्, इस्कोन-मन्दिरं, राम-मन्दिरं, सांई-मन्दिरं, योगिनी-मन्दिरं च अस्य नगरस्य प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला दर्शनीया अस्ति । बिन्दुसागर-तडागः, उदयगिरि-गुहाः, धौली-गिरिः, चन्दका-वन्यजीवाभयारण्यम्, उष्णजलप्रपातः च भुवनेश्वर-नगरस्य प्राकृतिकानि ऐतिहासिकानि च वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य प्राकृतिकदृश्यानि अपि मनोहराणि भवन्ति । यतः अस्मिन् नगरे उद्यानानि अपि बहूनि सन्ति । “बीजू पटनायक उद्यानं”, “बुद्ध जयन्ती उद्यानं”, “आईजी-उद्यानं”, “फोरेस्ट्-उद्यानं”, “गान्धी-उद्यानं”, “एकाम्र कानन”, “आईएमएफए-उद्यानं”, “खारावेला-उद्यानं”, “एसपी मुखर्जी उद्यनं”, “नेताजी सुभाष चन्द्र बोस उद्यानं” च भुवनेश्वर-नगरस्य प्रमुखाणि उद्यानानि सन्ति ।

भुवनेश्वर-नगरे “रीजनल् सायन्स् सेण्टर्”, “पठानी सामन्त ताराघर”, “कलिङ्गा स्टेडियम्” च अस्ति । एतानि स्थलानि क्रीडारसिकानां, विज्ञानरसिकानां च कृते सन्ति । “नन्दनकानन प्राणीसङ्ग्रहालयः” बालकेषु लोकप्रियः अस्ति । “त्रिभुवनेश्वर” इति नाम्नः “भुवनेश्वर” इति नाम्नः उत्पत्तिः जाता । “त्रिभुवनेश्वर” इति नाम भगवता शिवेन सह सम्बद्धम् अस्ति । अतः अस्मिन् नगरे शिवसम्बद्धानि बहूनि मन्दिराणि प्राप्यन्ते । अष्टशम्भु-मन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, गोकरनेश्वर-शिवमन्दिरं, गोसागरेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, कपिलेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, शिवतीर्थमठः, स्वप्नेश्वर-शिवमन्दिरम्, उत्तरेश्वर-शिवमन्दिरं, यमेश्वर-मन्दिरम् इत्येतानि मन्दिराणि शिवसम्बद्धानि सन्ति । भुवनेश्वर-नगरे प्राचीनमन्दिराणि अपि बहूनि सन्ति । ऐसनयेश्वर-शिवमन्दिरम्, अष्टशम्भूमन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, भारतीमठ-मन्दिरं, ब्रह्मेश्वर-मन्दिरं, भुकुटेश्वर-शिवमन्दिरं, बयामोकेश्वर-मन्दिरं, भस्कारेश्वर-मन्दिरं, चम्पाकेश्वरचन्द्रशेखरमहादेव-मन्दिरं, चक्रेश्वरी-शिवमन्दिरं, दिशिश्वर-शिवमन्दिर इत्येतानि प्राचीनानि मन्दिराणि सन्ति । चिन्तामणीश्वा-शिवमन्दिरं, गङ्गेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, लबेश्वर-शिवमन्दिरं, लखेश्वर-शिवमन्दिरं, मदनेश्वर-शिवमन्दिरं, मङ्गलेश्वर-शिवमन्दिरं, नागेश्वर-शिवमन्दिरं, पुव्रेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, सुबरनेश्वर-शिवमन्दिरं, सुकुतेश्वर-शिवमन्दिरं, स्वप्नेश्वर-शिवमन्दिरम् इत्यादीनि अपि भुवनेश्वर-नगरस्य मन्दिराणि सन्ति ।

इतः परं भगवतः कृष्णस्य, देव्याः च मन्दिराणि अपि सन्ति । अतन्तावासुदेव-मन्दिरम्, अखडचण्डी-मन्दिरं, ब्राह्मा-मन्दिरं, देवसभा-मन्दिरं, दुलादेवी-मन्दिरं, कैंची-मन्दिरं, विष्णु-मन्दिरं, गोपालतीर्थमठः, जनपथराम-मन्दिरं, “रामेश्वर डुला”, सुका-मन्दिरं, “वैताल डुला”, विष्णु-मन्दिरम् इत्यादीनि मन्दिराणि शिवेतराणि मन्दिराणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तम्, अनुकूलं च भवति । अतः अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणम् उत्तमम् अस्ति । शीतर्तौ जनाः भुवनेश्वर-नगरं गच्छन्ति ।

भुवनेश्वर-नगरं ४ क्रमाङ्कस्य, ५ क्रमाङ्कस्य, ६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः भुवनेश्वर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । भुवनेश्वर-नगरात् कोणार्क-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं नगरस्य मध्ये स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरे “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकम्” अस्ति । इदं विमानस्थानकं भुवनेश्वर-नगरात् ४ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भुवनेश्वर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया भुवनेश्वर-नगरं प्राप्नुवन्ति ।

राउरकेला[सम्पादयतु]

राउरकेला-नगरं भारतस्य ओडिशा-राज्यस्य सुन्दरगढ-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य “स्टील् सिटि” इति नाम्ना विश्वस्मिन् विख्यातम् अस्ति । राउरकेला-नगरम् ओडिशा-राज्यस्य व्यावसायिकी राजधानी अपि कथ्यते । नगरमिदम् औद्योगिकं वर्तते । तथापि अस्मिन् नगरे प्राकृतिकं सौन्दर्यमपि प्रचूरमात्रायाम् अस्ति । नगरस्यास्य बहूनि पर्यटनस्थलानि सन्ति । इदं नगरं मानवनिर्मिताकर्षनस्य केन्द्रत्वेन विद्यते । अस्मिन् नगरे बहवः जनजातयः निवसन्ति । तासां जनजातीनां संस्कृतयः अपि भिन्नाः भवन्ति । अस्य नगरस्य समीपे “वेदव्यास” इत्येतत् स्थलं वर्तते । तस्य स्थलस्य वातावरणं शान्तं, सुखदं च भवति । मन्दिरा-जलबन्धः, पितामहल-जलबन्धः च अस्य नगरस्य समीपस्थौ सुन्दरौ जलबन्धौ स्तः । भारतात् एतौ जलबन्धौ दृष्टुं जनाः तत्र गच्छन्ति । घोघर-मन्दिरं, वैष्णोदेवी-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगन्नाथ-मन्दिरं, भगवती-मन्दिरं, गायत्री-मन्दिरम्, अहिराबन्ध-मन्दिरं, रानीसती-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला विशिष्टा वर्तते । राउरकेला-नगरस्य समीपे खण्डाधार-जलप्रपातः अस्ति । अयं जलप्रपातः आकर्षणस्य केन्द्रं विद्यते । दरजिन-नामकम् राउरकेला-नगरस्य समीपे एकं रमणीयं स्थलं वर्तते । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं स्वास्थ्यकरं च भवति । अतः नवम्बर-दिसम्बर-मासयोः जनाः राउरकेला-नगरं गच्छन्ति ।

राउरकेला-नगरं २३ क्रमाङ्कस्य, २०० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ राउरकेला-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः राउरकेला-नगरं गन्तुं शक्यते । राउरकेला-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । अस्मात् विमानस्थानकात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पटना-नगराय, भुवनेश्वर-नगराय, जमशेदपुर-नगराय, बोकारो-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण राउरकेला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया राउरकेला-नगरं प्राप्नुवन्ति ।

कटक[सम्पादयतु]

कटक-नगरं भारतस्य ओडिशा-राज्यस्य कटक-मण्डलस्य मुख्यालयः वर्तते । कटक-नगरम् ओडिशा-राज्यस्य राजधानी आसीत् । साम्प्रतं नगरमिदम् ओडिशा-राज्यस्य सांस्कृतिकी, वणिग्वृत्तिमती च राजधानी कथ्यते । कटक-नगरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । मध्यकालीनयुगात् नगरमिदम् “अभिनाबा बारानासी कटक” इति नाम्ना ज्ञायते । नगरमिदं महानद्याः, कठजोरी-नद्याः तटे स्थितम् अस्ति । आवर्षं बहवः जनाः पर्यटनाय कटक-नगरं गच्छन्ति । कटक-नगरस्य समीपे मन्दिराणि, दुर्गाः, पर्वताः इत्यादीनि पर्यटनस्थलानि सन्ति । नगरस्य समीपे अनशुपा-तडागः वर्तते । अस्य तडागस्य सौन्दर्यम् अपि विशिष्टं वर्तते । तत्र “रत्नागिरि”, “ललितगिरि”, “उदयगिरि” इत्यादयः पर्वताः अपि सन्ति । एतेषां पर्वतानां सौन्दर्यम् अपि मनोहरं भवति । चारविका-मन्दिरं, भट्टारिका-मन्दिरं च अस्य नगरस्य प्रमुखतीर्थस्थलं वर्तते । तत्र चौदार-स्थलं भगवतः शिवेन सह सम्बद्धम् अस्ति । स्थलमिदं भगवतः शिवस्य अष्टपीठेषु अन्यतमम् अस्ति । नाराज-नामकं बौद्धधर्मस्य तीर्थस्थलम् अपि अस्ति । स्थलमिदं बौद्धधर्मस्य अध्ययनस्य केन्द्रम् अस्ति । तत्र सतकोसिया-वन्यजीवाभयारण्यं स्थितम् अस्ति । अस्मिन् अभयारण्ये बाराबाती-क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे पर्यटकाः क्रीडन्ति । नगरेऽस्मिन् सर्वधर्माणाम् उत्सवाः आचर्यन्ते । विजयादशमी, गणेशोत्सवः, वसन्तपञ्चमी, कार्तिकेश्वरपूजा, क्रिसमस्, ईद, गुड फ्राईडे, होली, दीपावली, रथयात्रा इत्यादीन् उत्सवान् जनाः सोत्साहेन आचरन्ति । तत्र “बालीयात्रा” उत्सवः अपि आचर्यते । अयम् उत्सवः एशिया-खण्डस्य बृहत्तमेषु उत्सवेषु अन्यतमः अस्ति । उत्सवोऽयं नवम्बर-मासे आचर्यते । कटक-नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः अस्य नगरस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ च शीतलं च भवति । अतः जनाः वर्षर्तौ अपि कटक-नगरं गन्तु शक्नुवन्ति । कटक-नगरस्य वीक्षणीयस्थलानाम् आनन्दं प्राप्तुं शक्नुवन्ति च ।

कटक-नगरं ५ क्रमाङ्कस्य, राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कटक-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कटक-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कटक-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कटक-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कटक-स्थलात् इदं विमानस्थानकं २६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कटक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कटक-नगरं प्राप्नुवन्ति ।

सम्बलपुरम्[सम्पादयतु]

सम्बलपुर-नगरम् ओडिशा-राज्यस्य सम्बलपुर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् ओडिशा-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । नगरमिदं सांस्कृतिकदृष्ट्या, प्राकृतिकदृष्ट्या च समृद्धम् अस्ति । इदं नगरं हीरकाय (Diamond) प्रसिद्धम् अस्ति । अस्य नगरस्य हीरकाणि विश्वस्य श्रेष्ठतमेषु हीरकेषु अन्यतमानि भवन्ति । सम्बलपुर-नगरे शाटिकानिर्माणं क्रियते । अस्य नगरस्य हस्तकला भारते प्रसिद्धा अस्ति । पर्यटकाः सम्बलपुर-नगरस्य वस्त्राणि क्रीण्वन्ति । अस्मिन् नगरे अपि बहूनि वीक्षणीयस्थलानि सन्ति । हीराकुण्ड-जलबन्धः, सामलेश्वरी-मन्दिरं, “हुमा का झुका हुआ मन्दिर”, चिपलिमा-जलविद्युत्परियोजना, घण्टेश्वरी-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । सम्बलपुर-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । अतः जनाः वर्षर्तौ सम्बलपुर-नगरं गच्छन्ति ।

सम्बलपुर-नगरं ४२ क्रमाङ्कस्य, ६ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सम्बलपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सम्बलपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं चतुर्णां रेलस्थानकानां केन्द्रम् अस्ति । इदं भुवनेश्वर-झारसगुडा-रेलमार्गे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् गुवाहाटी-नगराय, लकनऊ-नगराय, देहरादून-नगराय, इन्दौर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” सम्बलपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । सम्बलपुर-नगरात् भुवनेश्वर-नगरं ३२५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा सम्बलपुर-नगरं प्राप्यते । छत्तीसगढ-राज्यस्य रायपुर-नगरे स्थितं स्वामीविवेकानन्द-विमानस्थानकम् अपि समीपे एव अस्ति । सम्बलपुर-नगरात् रायपुर-नगरं २६२ किलोमीटरमिते दूरे स्थितम् अस्ति । अनेन प्रकारेण सम्बलपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । पर्यटकाः सरलतया सम्बलपुर-नगरं गन्तु शक्नुवन्ति । तत्र जनाः आनन्दं प्राप्नुवन्ति च ।

ब्रह्मपुरम्[सम्पादयतु]

ब्रह्मपुरम्-नगरं भारतस्य ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितम् अस्ति । अस्य नगरस्य नाम संस्कृतमयम् अस्ति । नगरमिदं भगवतः ब्रह्मणः निवासस्थलत्वेन ज्ञायते । अतः अस्य नाम ब्रह्मपुरम् इति अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । नगरेऽस्मिन् जनाः धार्मिकाः अपि सन्ति । ओडिशा-राज्यस्य अर्थव्यवस्थायां ब्रह्मपुरम्-नगरस्य पर्यटनस्थलानां महद्योगदानम् अस्ति । नगरमिदं “कौशेय-नगरम् (रेशम का नगर)” इति नाम्ना अपि प्रसिद्धम् अस्ति । ब्रह्मपुरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । नगरेऽस्मिन् कौशेयशाटिकाः निर्मीयन्ते । ब्रह्मपुरं समुद्रतटे स्थितम् अस्ति । अस्य समुद्रतटस्य वातावरणं शान्तं भवति । अतः जनाः श्रेष्ठानुभवाय तत्र भ्रमणं कुर्वन्ति । ब्रह्मपुरम्-नगरस्य मन्दिराणि, संस्कृतिः, चलच्चित्रस्थानकानि च विशिष्टानि सन्ति । अस्मिन् नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “बङ्केश्वरी-मन्दिरं”, “कुलाड”, “नारायणी-मन्दिरं”, “महेन्द्रगिरि”, “मां बुधी ठाकुरानी-मन्दिरं”, “तारातरणि-मन्दिरं”, “बुगुड बिरांचिनारायम मन्दिरं”, “बालकुमारी-मन्दिरं”, “मन्त्रिदिसिद्धभैरवी-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । “तप्तपानी” इत्येतत् स्थलम् उष्णजलस्रोतः वर्तते । शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं भ्रमणयोग्यं भवति । अक्टूबर-मासतः जून-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । यतः तस्मिन् समये ब्रह्मपुर-नगरस्य वातावरणं सुखदं, शान्तं, मनोहरं, स्वास्थ्यकरं च भवति ।

ब्रह्मपुरम्-नगरं ५ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ ब्रह्मपुरम्-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः ब्रह्मपुरम्-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । ब्रह्मपुरम्-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” ब्रह्मपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । ब्रह्मपुर-स्थलात् इदं विमानस्थानकं १७० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ब्रह्मपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया ब्रह्मपुर-नगरं प्राप्नुवन्ति ।

राजनीतिः[सम्पादयतु]

ओडिशा-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायां १४७ सदस्यस्थानानि सन्ति । अस्मिन् राज्ये लोकसभायाः २१ सदस्यस्थानानि, राज्यसभायाः १० सदस्यस्थानानि च सन्ति । अस्य राज्यस्य प्रशासनिकव्यवस्था अपि भारतस्य अन्यराज्यसदृशी अस्ति । प्रशासनिकव्यवस्थायै इदं राज्यं त्रिषु राजस्वमण्डलेषु विभक्तं कर्तुं शक्यते । अस्मिन् राज्ये आहत्य त्रिंशत् मण्डलानि सन्ति । “बीजू जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “भारतीय कम्युनिस्ट् पार्टी”, “ओडिशा गण परिषद्” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “हरिकृष्ण महताब” इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् [५]

शिक्षणम्[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् ओडिशा-राज्यस्य साक्षरतामानं ७३.३८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८२.४० प्रतिशतं, स्त्रीणां च साक्षरतामानं ६४.३६ प्रतिशतम् अस्ति । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । भुवनेश्वर-नगरस्य उडीसा कृषि और प्रौद्योगिकी विश्वविद्यालयः, जेवियर् प्रबन्धन संस्थान, उत्कल-विश्वविद्यालयः च, बालेश्वर-नगरस्य फकीर मोहन विश्वविद्यालयः, राउरकेला-नगरस्य राष्ट्रीय प्रौद्योगिकी संस्थानम् इत्यादीनि अस्य राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । “शिड्युल्ड् कास्ट् एण्ड् शिड्युल्ड् ट्राइब् रिसर्च् एण्ड् ट्रेनिङ्ग् इन्स्टीट्यूट्” इतीयं संस्था भुवनेश्वर-नगरे स्थिता अस्ति [६]

राउरकेला-नगरे बीजू पटनायक युनिवर्सिटी ऑफ् टेक्नोलॉजी, सम्बलपुर-नगरे सम्बलपुर-विश्वविद्यालयः, पुरी-नगरे श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, बुर्ला-नगरे युनिवर्सिटी कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, भुवनेश्वर-नगरे सी. वी. रामण इञ्जिनियरिङ्ग् कॉलेज्, राउरकेला-नगरे पुरुषोत्तम इन्स्टीट्यूट् ऑफ् इञ्जिनियरिङ्ग् एण्ड् टेक्नोलॉजी, पद्मनावा कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, कटक-नगरे श्रीरामचन्द्रभञ्ज मेडिकल् कॉलेज्, ब्रह्मपुर-नगरे महाराजा कृष्णचन्द्र गजपति देव मेडिकल कॉलेज्, बलांगीर-नगरे अनन्त त्रिपाठी आयुर्वेदिक कॉलेज्, ब्रह्मपुर-नगरे ब्रह्मपुर सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, पुरी-नगरे सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, गोपालबन्धु आयुर्वेदिक महाविद्यालय, बलांगीर-नगरे सर्वकारीयः आयुर्वेदमहाविद्यालयः, गञ्जाम-नगरे नृसिंहनाथ सर्वकारीयः आयुर्वेदिकमहाविद्यालयः इत्यादीनि शैक्षणिकसंस्थानानि ओडिशा-राज्ये स्थितानि सन्ति ।

साहित्यम्[सम्पादयतु]

ओडिशा-राज्यस्य प्रमुखा भाषा उडिया-भाषा वर्तते । भारतस्य सविधानस्य अष्टम्याम् अनुसूच्याम् अपि उडिया-भाषायाः उल्लेखः प्राप्यते । ओडिशा-राज्ये बहवः प्राचीनसाहित्यकाराः अभवन् । तेषु श्रीविश्वनाथः, “गोपनाथः महन्ती”, सरलादासः, “हरे कृष्ण महताब” इत्यादयः ओडिशा-राज्यस्य प्रमुखाः साहित्यकाराः सन्ति । “गोपनाथ महन्ती” इत्याख्यः उडिया-भाषायाः प्रथमः साहित्यकारः आसीत् । तेन “माटीमटाल” नामिका कृतिः विरचिता । ई. स. १९७३ तमे वर्षे तस्यै कृतये सः ज्ञानपीठपुरस्कारेण सम्मानितः । सरलादासः ओडिशासाहित्यस्य व्यासः कथ्यते । तेन चतुर्दश्यां शताब्द्यां महाभारतस्य, विलङ्कारामायणस्य रचना कृता आसीत् । विंशतिशताब्द्याः पूर्वार्द्धः उडिया-साहित्यस्य सत्यवादियुगत्वेन ज्ञायते स्म । “हरे कृष्ण महताब” इत्याख्येन ओडिशा-राज्यस्य इतिहासः लिखितः । उडिया-लिपिः ओडिशा-राज्यस्य प्रमुखा लिपिः वर्तते । अस्याः लिप्याः उत्पत्तिः ब्राह्मीलिप्याः जाता । उडिया-भाषायाम् बह्व्यः रचनाः जाताः [७]

अर्थव्यवस्था, कृषिः च[सम्पादयतु]

ओडिशा-राज्यस्य अर्थव्यवस्था कृष्याधारिता वर्तते । अस्मिन् राज्ये ६५ प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यं वर्तते । ओडिशा-राज्यस्य आहत्यकृषिक्षेत्रेषु ८० प्रतिशतं क्षेत्रेषु तण्डुलोत्पादनं क्रियते । भारतस्य तण्डुलोत्पादने १० प्रतिशतं भागः ओडिशा-राज्ये उत्पाद्यते । अस्मिन् राज्ये ७९,३४,००० हेक्टेयरमितेषु क्षेत्रेषु कृषिः क्रियते । शणं (Jute), इक्षुकः, नारिकेलम् इत्यादीनि ओडिशा-राज्यस्य अन्यानि सस्यानि सन्ति । यद्यपि कृषिप्रधाना अर्थव्यवस्था अस्य राज्यस्य, तथापि औद्योगिकक्षेत्रे अपि इदं राज्यं विकासशीलं वर्तते । समुद्रतटीयक्षेत्रे सति प्राकृतिकीभिः आपद्भिः अस्य राज्यस्य जनानां, धनस्य च हानिः जायते । ई. स. १९९९ तमस्य वर्षस्य अक्टूबर-मासस्य २९ तमे दिनाङ्के समुद्रात् समुद्भूतेन चक्रवाता अस्य राज्यस्य अर्थव्यवस्था प्रभाविता जाता । तथापि ओडिशा-राज्यस्य सर्वकारेण अल्पसमये एव राज्यस्य स्थितिः सज्जीकृता[८]

उद्योगः[सम्पादयतु]

ओडिशा-राज्यं प्रगतिशीलराज्यम् अस्ति । औद्योगिकदृष्ट्या अपि इदं राज्यं समृद्धम् अस्ति । जर्मन्-देशीयाः शैल्याः साहाय्येन ओडिशा-राज्यस्य राउरकेला-नगरे इस्पात-यन्त्रागारः स्थापितः आसीत् । राज्येऽस्मिन् वज्रचूर्ण-यन्त्रागाराः, कर्गज-यन्त्रागाराः, उर्वरकोद्योगाः, काच-यन्त्रागाराः इत्यादयः विभिन्नाः उद्योगाः सन्ति । अस्य राज्यस्य अधिकतमाः उद्योगाः खानिजाधारिताः सन्ति । सुनावेडा-नगरे “मिग (MIG)-विमानयन्त्रागारः, राउरकेला-नगरे पाराडवी-नगरे च उर्वरक-यन्त्रागाराः, सम्बलपुर-नगरे एल्यूमीनियम्-धातोः यन्त्रागारः, राजगङ्गापुर-नगरे वज्रचूर्ण-यन्त्रागारः, बृजराजनगरे कर्गज-यन्त्रागाराः इत्यादयः यन्त्रागाराः ओडिशा-राज्यस्य विभिन्ननगरेषु स्थिताः सन्ति । अस्य नगरस्य चान्दीपुर-नगरं सम्पूर्णे भारते शरव्याप्रक्षेपणकेन्द्रत्वेन विख्यातम् अस्ति । अस्मिन् राज्ये “उद्योग प्रोत्साहन तथा निवेश निगम”, “उडीसा औद्योगिक विकास निगम लिमिटेड्”, “उडीसा राज्य इलेक्ट्रॉनिक्स् विकास निगम” च इत्येताः संस्थाः सन्ति । एताः संस्थाः बृहदुद्योगेभ्यः, लघूद्योगेभ्यः च आर्थिकरूपेण साहाय्यं कुर्वन्ति । अनेन प्रकारेण एताभिः संस्थाभिः ओडिशा-राज्यस्य आर्थिकविकासाय प्रयासाः क्रियमाणाः सन्ति [९]

कला, संस्कृतिश्च[सम्पादयतु]

ओडिशा-राज्यं सांस्कृतिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् प्रदेशे बह्व्यः जनजातयः निवसन्ति । अतः अस्य राज्यस्य संस्कृतिः अपि विविधाः वर्तन्ते । एतासां जनजातीनां लोकनृत्यानि अपि सम्पूर्णे भारते प्रसिद्धानि सन्ति । मयूर-नृत्यं, कोकिल-नृत्यं च अस्य राज्यस्य प्रमुखं लोकनृत्यम् अस्ति । ओडिशी-नामकं शास्त्रीयनृत्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्य नृत्यस्य उत्पत्तिः ओडिशा-राज्ये एव अभवत् । छऊ-नृत्यम् अपि अस्य राज्यस्य प्रसिद्धेषु नृत्येषु अन्यतमम् अस्ति । इदम् नृत्यं मयूरभञ्ज-नगरस्य सरायकेला-नगरस्य च सांस्कृतिकसम्पत्तिः वर्तते [१०]

ओडिशा-राज्यस्य कला वैविध्यपूर्णा वर्तते । विशेषतः अस्मिन् राज्ये शाटिकानिर्माणकला भारते प्रसिद्धा अस्ति । ई. स. १९५२ तमे वर्षे कटक-नगरे कलाविकासकेन्द्रस्य स्थापना कृता आसीत् । तत्र नृत्यसङ्गीतयोः षड्वर्षात्मकस्य शिक्षणस्य पाठ्यक्रमः वर्तते । कटक-नगरे अन्यानि अपि नृत्यसङ्गीतकेन्द्राणि सन्ति । “उत्कल सङ्गीत समाज”, “उत्कल स्मृति कला मण्डप”, “मुक्ति कला मन्दिर” च कटक-नगरस्य अन्यानि केन्द्राणि सन्ति । सम्बलपुर-नगरं, कटक-नगरं, बोमकाई-नगरं, बाराघाट-नगरम् इत्येतानि नगराणि शाटिकानिर्माणाय प्रसिद्धानि अस्ति । नाट्यक्षेत्रे अपि राज्यमिदं श्रेष्ठतमम् वर्तते । भुवनेश्वर-नगरं “मन्दिराणां नगरम्” इति कथ्यते । नगरमिदं लिङ्गराज-मन्दिराय प्रसिद्धम् अस्ति ।

उत्सवाः[सम्पादयतु]

ओडिशा-राज्ये बहवः पारम्परिकाः उत्सवाः आचर्यन्ते । तेषु “बोइता बन्दना-उत्सवः” विशिष्टः वर्तते । इमम् उत्सवं जनाः अक्टूबर-मासे नवम्बर-मासे वा आचरन्ति । अस्मिन् उत्सवे जनाः नौकाः पूजयन्ति । पुरी-नगरे भगवतः जगन्नाथस्य मन्दिरं विद्यते । प्रतिवर्षं तत्र रथयात्रामहोत्सवः भवति । अस्मिन् उत्सवे लक्षाधिकाः जनाः भवन्ति । भगवतः जगन्नाथस्य भव्यरथयात्रा क्रियते । अनेन प्रकारेण सम्पूर्णे राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । भारतस्य विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यस्य उत्सवान् आचरितुं गच्छन्ति [११]

वीक्षणीयस्थलानि[सम्पादयतु]

ओडिशा-राज्यं भारतस्य धार्मिकम्, ऐतिहासिकं च राज्यं वर्तते । अस्मिन् राज्ये बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च स्थितानि सन्ति । लिङ्गराजमन्दिरं, जगन्नाथमन्दिरं, कोणार्क-सूर्यमन्दिरं, धौली-बौद्धमन्दिरम् इत्यादीनि ओडिशा-राज्यस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । चिल्का-तडागः, उदयगिरि-गुहाः, सिमिलपालराष्ट्रियोद्यानं, होराकुण्ड-जलबन्धः, भितरकणिका, नृसिंहनाथः, तारातारिणी, भीमकुण्डः इत्यादीनि ओडिशा-राज्यस्य प्रमुखानि पर्यटनस्थलानि सन्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यं गच्छन्ति [१२]

कोणार्क[सम्पादयतु]

कोणार्कस्य सूर्यदेवालयः

कोणार्क-नगरम् ओडिशा-राज्यस्य पुरी-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि भव्यभवनानि, प्राकृतिकस्थलानि च सन्ति । नगरमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणां पाषाणाः टङ्किताः सन्ति । पाषाणे काचन भाषा उट्टङ्किता अस्ति । कोणार्कनगरस्य मन्दिराणां वास्तुकला अपि विशिष्टा वर्तते । अस्य नगरस्य भवनानां धार्मिकं महत्त्वं चापि अस्ति । अस्मिन् नगरे सूर्यमन्दिरं विद्यते । अस्मै सूर्यमन्दिराय इदं नगरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य वास्तुकलायै इदं मन्दिरं प्रसिद्धम् अस्ति । “कोण” “अर्क” इत्येताभ्यां शब्दाभ्यां “कोणार्क” शब्दस्य उत्पत्तिर्जाता । सूर्यमन्दिरस्य प्राङ्गणे मायादेवीमन्दिरं, वैष्णवमन्दिरं च अस्ति । इमे मन्दिरे पर्यटकेषु लोकप्रिये स्तः । सूर्यमन्दिरस्य सौन्दर्यम् अपि मनोहरं भवति । रामचण्डी-मन्दिरं कोणार्क-नगरस्य इष्टदेव्याः मन्दिरम् अस्ति । इदं मन्दिरम् अपि प्रसिद्धम् अस्ति । कोणार्क-नगरे कुरुमा-मठः अस्ति । अस्मिन् मठे भगवतः बुद्धस्य प्रतिमा अस्ति ।

कोणार्क-मठः अपि प्रसिद्धपयटनस्थलम् अस्ति । नगरेऽस्मिन् चन्द्रभागा-समुद्रतटम् अस्ति । भारतीयपुरातत्त्वविभागस्य एकः सङ्ग्रहालयः अपि अस्मिन् नगरे स्थितः अस्ति । अयं सङ्ग्रहालयः आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् सङ्ग्रहालये सूर्यमन्दिरात् प्राप्तानाम् अवशेषाणां सङ्ग्रहः अस्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । तेषु कोणार्कनृत्योत्सवः प्रमुखः अस्ति । दिसम्बर-मासस्य प्रथमदिनाङ्कतः पञ्चमदिनाङ्कपर्यन्तम् (१-५ दिसम्बर) अयम् उत्सवः आचर्यते । अयमुत्सवः भारतस्य प्रमुखेषु नृत्योत्सवेषु अन्यतमः अस्ति । नगरेऽस्मिन् शिल्पोत्सवः अपि भवति । प्रतिवर्षं फरवरी-मासे चन्द्रभागा-उत्सवः आयोज्यते । जनाः इमम् उत्सवं सोत्साहेन आचरन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सानुकूलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः कोणार्क-नगरस्य भ्रमणं कर्तुं गच्छन्ति ।

कोणार्क-नगरं ४ क्रमाङ्कस्य, ५ क्रमाङ्कस्य, ६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कोणार्क-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कोणार्क-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकं कोणार्क-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोणार्क-नगरात् भुवनेश्वर-नगरं ८० किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा कोणार्क-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कोणार्क-नगरस्य निकटतमं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कोणार्क-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कोणार्क-नगरं प्राप्नुवन्ति ।

चान्दीपुरम्[सम्पादयतु]

चान्दीपुर-नगरम् ओडिशा-राज्यस्य बालेश्वर-मण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । जनाः जलक्रीडायै चान्दीपुर-नगरं गच्छन्ति । अत्र शरव्यायाः (Missile) परिक्षणस्य केन्द्रम् अपि स्थितम् अस्ति । अस्मिन् केन्द्रे अग्निशरव्या, पृथ्वीशरव्या, आकाशशरव्या, शार्यशरव्या च अस्ति । अनुमतिं प्राप्य एव इदं केन्द्रं प्रवेष्टुं शक्यते । अस्य स्थलस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । नीलगिरी-पर्वताः, पञ्चलिङ्गेश्वरः, चिरकोरा-गोपीनाथमन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे वन्यजीवाभयारण्यम् अपि अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अक्टूबर-मासतः फरवरी—मासपर्यन्तं चान्दीपुर-नगरस्य पर्यटनाय गच्छन्ति ।

चान्दीपुर-नगरं ५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चान्दीपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । चान्दीपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । बालेश्वर-नगरस्य रेलस्थानकं चान्दीपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चान्दीपुर-नगरात् बालेश्वर-नगरं १२.३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । बालेश्वर-नगरात् बसयानैः भाटकयानैः वा चान्दीपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” चान्दीपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चान्दीपुर-नगरात् इदं विमानस्थानकं २०७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चान्दीपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चान्दीपुर-नगरं प्राप्नुवन्ति ।

उदयगिरी[सम्पादयतु]

उदयगिरि-स्थलम् ओडिशा-राज्यस्य जाजपुर-मण्डले स्थितम् अस्ति । स्थलमिदम् ऐतिहासिकं वर्तते । इदं बौद्धधर्मस्य बृहत्तमेषु तीर्थस्थलेषु अन्यतमम् अस्ति । अत्र बौद्धमठाः, जैनधर्मस्य स्थापत्यकलाः च प्राप्यन्ते । स्थलमिदं “सूर्योदयपर्वताः” इति नाम्ना अपि ज्ञायते । अस्मिन् स्थले अष्टादश-गुहाः सन्ति । एतासु गुहासु बहवः शिलालेखाः प्राप्यन्ते । एताः गुहाः जनान् आकर्षन्ति । खारवेल-राज्ञां शासनकाले इदं स्थलं जैनधर्मस्य भिक्षुणां निवासाय पर्वतशैलैः निर्मापितम् आसीत् । अस्य स्थलस्य समीपे खाण्डागिरि-गुहाः अपि स्थिताः सन्ति । इमाः गुहाः अपि ऐतिहासिकाः सन्ति । अस्मिन् नगरे अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । “लाङ्गुडी-पर्वताः”, “ललितगिरी”, “रत्नागिरी” च इत्यादीनि बौद्धधर्मस्य स्थलानि सन्ति । एतेषु स्थलेषु “ललितगिरी”-स्थले गौतमबुद्धस्य अवशेषाः प्राप्यन्ते । उदयगिरि-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणे औष्ण्यं भवति । शीतर्तौ च शैत्यम् अत्यधिकं भवति ।

उदयगिरि-नगरं ५ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ इदं नगरम् ओडिशा-राज्यस्य इतर नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः उदयगिरि-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । उदयगिरि-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कटक-नगरस्य रेलस्थानकम् उदयगिरि-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । उदयगिरि-नगरात् कटक-नगरं २५८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । कटक-नगरात् बसयानैः भाटकयानैः वा उदयगिरि-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताराष्ट्रियविमानस्थानकं” उदयगिरि-नगरस्य निकटतमं विमानस्थानकम् अस्ति । उदयगिरि-नगरात् इदं विमानस्थानकं १०० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयगिरि-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया उदयगिरि-नगरं प्राप्नुवन्ति ।

पुरी[सम्पादयतु]

पुरी-नगरम् भारतस्य ओडिशाराज्यस्य पुरी-मण्डलस्य मुख्यालयः वर्तते । बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितं पुरी-नगरं धार्मिकम् अस्ति । इदं नगरं जगन्नाथमन्दिराय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अतः नगरमिदं “जगन्नाथपुरी” इति नाम्ना अपि ख्यातम् अस्ति । नगरमिदं जनेषु अत्यन्तं लोकप्रियम् अस्ति । कथ्यते यत् “जगन्नाथपुर्याः दर्शनं विना हिन्दुतीर्थयात्रा अवशिष्टा एव भवति । अस्मिन् मन्दिरे राधया सह दुर्गा, लक्ष्मीः, पार्वती, सती, शक्तिः च अपि स्थिता अस्ति । स्थलमिदं भगवतः जगन्नाथस्य पवित्रभूमिः मन्यते । पुराणेषु अपि अस्याः नगर्याः उल्लेखाः प्राप्यन्ते । पुरुषोत्तमपुरी, पुरुषोत्तमक्षेत्रं, पुरुषोत्तमधाम, नीलाचलः, नीलाद्रिः, श्रीश्रेष्ठः, शङ्खश्रेष्ठः इत्यादीनि नामानि पुराणेषु दृश्यन्ते । अस्मिन् नगरे प्रतिवर्षं रथयात्रामहोत्सवः आयोज्यते । सम्पूर्णभारतस्य विभिन्ननगरेभ्यः बहवः जनाः समागच्छन्ति । पुरी-नगरस्य जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । अस्मिन् उत्सवे भगवतः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च मूर्तयः रथेषु स्थाप्य नगरयात्रा क्रियते । प्रायः प्रतिवर्षं जुलाई-मासे उत्सवः अयम् आचर्यते । अयम् उत्सवः अस्य नगरस्य प्रमुखम् आकर्षणम् अस्ति ।

पुरी-नगरे बहूनि मन्दिराणि सन्ति । अस्य नगरस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । मन्यते यत् “पुरी-नगरं सप्तपवित्रस्थलेषु अन्यतमम् अस्ति” । “चक्रतीर्थमन्दिरं”, “मौसीमां-मन्दिरं”, “सुनारा गौराङ्ग मन्दिरं”, “श्रीलोकनाथमन्दिरं”, “श्रीगुण्डिचा-मन्दिरं”, “अलरनाथ-मन्दिरं”, “बलिहरचण्डी-मन्दिरम्” इत्यादीनि पुरी-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्मिन् स्थले शङ्कराचार्यमठेषु गोवर्धनमठः स्थितः अस्ति । पुरी-नगरस्य समुद्रतटम् अपि पर्यटनस्थलं वर्तते । इदं समुद्रतटं हिन्दुजनैः पवित्रं मन्यते । पुरी-नगरस्य समीपे रघुराजपुर-नगरं स्थितम् अस्ति । इदं नगरं पुरी-नगरात् १४ किलोमीटरमिते दूरे स्थितम् अस्ति । रघुराजपुर-नगरं भारतस्य सांस्कृतिकराजधानीत्वेन मन्यते । साक्षिगोपाल-नगरम् अपि पुरी-नगरस्य समीपे एव स्थितम् अस्ति । इदं पुरी-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । साक्षिगोपाल-नगरम् ओडिशा-राज्यस्य प्रसिद्धतीर्थस्थलेषु अन्यतमम् अस्ति । अपरं च सतपदा-नगरं जलरसिकेभ्यः उत्तमं स्थलम् अस्ति । स्थलमिदम् अद्भूतं वर्तते । नगरमिदं पुरी-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य हस्तशिल्पकला सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । तासु कलासु भगवतः जगन्नाथमन्दिरस्य हस्तशिल्पकला सर्वाधिकतया प्रसिद्धा अस्ति । पुरी-नगरे बहवः लघूद्योगाः सन्ति । पुरी-नगरस्य समीपे पिप्ली-नगरम् अस्ति । अस्य नगरस्य हस्तकलायाः वस्तूनि अत्यन्तं सुन्दराणि भवन्ति । पिप्ली-नगरं पुरी-नगरात् ४० किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य वातावरणं ग्रीषमर्तौ सानुकूलं भवति । मार्च-मासतः जून-मासपर्यन्तं जनाः पुरी-नगरं गच्छन्ति ।

पुरी-नगरं २०३ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पुरी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पुरी-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, कोलकाता-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” पुरी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । पुरी-नगरात् इदं विमानस्थानकं ५६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुरी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पुरी-नगरं प्राप्नुवन्ति ।

गोपालपुरम्[सम्पादयतु]

गोपालपुर-नगरम् ओडिशा-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं नगरं गञ्जाममण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । स्थलमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । इदं नगरम् ओडिशा-राज्यस्य प्रमुकपर्यटनस्थलेषु अन्यतमम् अस्ति । नगरेऽस्मिन् पोताश्रयः अपि अस्ति । सर्वकारेण अस्य पोताश्रयस्य पुनर्निमाणं क्रियमाणम् अस्ति । पुरा इदं नगरं लघुग्रामत्वेन स्थितम् आसीत् । किन्तु आङ्ग्लानां शासनान्तरम् अस्य नगरस्य विकासः जातः । “ईस्ट् इण्डिया कम्पनी” इत्यनया संस्थया अस्य ग्रामस्य व्यापारिककेन्द्रत्वेन उपयोगः कृतः । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य समीपे स्थितम् अस्ति । अतः अस्मिन् नगरे सरलतया व्यापारं कर्तुं शक्यते । गोपालपुर-नगरे बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । बालाकुमारी-मन्दिरं, श्रीसिद्धिविनायकपीठं च गोपालपुर-नगरस्य मुख्ये मन्दिरे स्तः । गोपालपुर-नगरस्य समीपे सोनेपुर-समुद्रतटम्, आर्यापाली-समुद्रतटं च स्थितम् अस्ति । सातापाडा-वन्यजीवाभयारण्यं, बानकेश्वरी च गोपालपुर-नगरस्य प्रमुखे द्वे पर्यटनस्थले स्तः । गोपालपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य नगरस्य भ्रमणं कर्त्तव्यम् । जनाः समुद्रतटानाम् आनन्दं प्राप्तुं गोपाल-नगरं गच्छन्ति ।

गोपालपुर-नगरं ५ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य, २०३ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः गोपालपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गोपालपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गोपालपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । ब्रह्मपुर-नगरस्य रेलस्थानकं गोपालपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गोपालपुर-नगरात् ब्रह्मपुर-नगरं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । ब्रह्मपुर-नगरात् बसयानैः भाटकयानैः वा गोपालपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” गोपालपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । गोपालपुर-नगरात् इदं विमानस्थानकं १६५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गोपालपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गोपालपुर-नगरं प्राप्नुवन्ति ।

केन्दुझर[सम्पादयतु]

केन्दुझर-नगरम् ओडिशा-राज्यस्य केन्दुझर-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् ओडिशा-राज्यस्य बृहत्तमेषु मण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य उत्तरदिशि झारखण्ड-राज्यं, दक्षिणदिशि जयपुर-नगरं, पश्चिमदिशि ढेंकनाल, पूर्वदिशि मयूरभञ्ज-नगर च स्थितम् अस्ति । तत्र केन्दुझर-शैलप्रस्थः स्थितः अस्ति । ततः बैरतणी-नदी प्रवहति । बहवः पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति । केन्दुझर-नगरे विभिन्नप्रकारकाः वनस्पतयः, खानिजाः, जीवाः च अधिकमात्रायां प्राप्यन्ते । अस्य नगरस्य समीपे जलप्रपाताः अपि सन्ति । केन्दुझर-मण्डले विभिन्नानि प्राकृतिकसंसाधनानि प्राप्यन्ते । अस्य मण्डलस्य ६६ प्रतिशतं क्षेत्रं वनाच्छादितम् अस्ति । अस्य मण्डलस्य बहुषु क्षेत्रेषु “मेग्नीशियम्” इत्ययं रासायनिकपदार्थः अधिकमात्रायां प्राप्यते । अस्मिन् मण्डले द्वे जनजाती निवसतः । जुआङ्ग्स, भूयान्स च । इमे जनजाती ओडिशा-राज्यस्य प्राचीनतमे जनजाती स्तः । केन्दूझर-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । कान्दाधर-जलप्रपातः, साङ्गाहारा-जलप्रपातः, बडा घाघरा-जलप्रपातः इत्यादयः अस्य नगरस्य समीपस्थाः जलप्रपाताः सन्ति । एतेषां जलप्रपातानां दृश्यं दृष्टुं जनाः भारतस्य विभिन्ननगरेभ्यः समागच्छन्ति । “गोनासिका”, “गुञ्चीचागई”, “भीमकुण्ड”, “मुर्गामहादेवमन्दिरं”, “सङ्ग्रहालयः” इत्यादीनि केन्दुझर-मण्डलस्य पर्यटनस्थलानि सन्ति । अस्य नगरस्य समीपे चक्रतीर्थ-मन्दिरम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अतीव प्राचीनम् अस्ति । जनाः विहाराय (Picnic) तत्र गच्छन्ति । “सीता बिञ्ज”, “राजानगरं” च इत्येते द्वे अस्य मण्डलस्य ऐतिहासिके आकर्षणकेन्द्रे स्तः । “देवगां-कुश्लेश्वरः” इत्येतत् स्थलं बौद्धधर्मस्य महत्त्वपूर्णं स्थलं वर्तते । इदं स्थलं कुश्लेश्वर-मन्दिरम् इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं सामान्यं भवति । तथापि नवम्बर-मासे अस्य नगरस्य वातावरणम् अनुकूलं भवति ।

केन्दुझर-नगरं ५ क्रमाङ्कस्य, २०० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ केन्दुझर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः केन्दुझर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । केन्दुझर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं केन्दुझर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । केन्दुझर-नगरात् “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं ११४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा केन्दुझर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । केन्दुझर-नगरात् इदं विमानस्थानकं २६९ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण केन्दुझर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया केन्दुझर-नगरं प्राप्नुवन्ति ।

चिल्का[सम्पादयतु]

चिल्का इत्येतत् स्थलं भारतस्य ओडिशा-राज्ये स्थितम् अस्ति । स्थलमिदं तडागाय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अयं तडागः विश्वस्य बृहत्तमेषु तडागेषु द्वितीयः अस्ति । इदं स्थलम् ओडिशा-राज्यस्य लोकप्रियं स्थलम् अस्ति । “चिल्का” इदं स्थलं गञ्जम-मण्डलस्य, खोर्धा-मण्डलस्य, पुरी-मण्डलस्य सीमायां स्थितम् अस्ति । भौगोलिकसर्वेक्षणे स्पष्टम् अभवत् यत् “अयं तडागः बङ्गाल-समुद्रकुक्ष्याः कश्चन भागः आसीत् । कलिङ्ग-वंशस्य शासनकाले स्थलमिदं वाणिज्यिकं केन्द्रम् आसीत् । तदा इदं केन्द्रं प्रमुखं पोताश्रयम् अपि आसीत् । टॉलेमी-इत्याख्येन अपि स्वस्य लेखेषु चिल्का-तडागस्य महत्त्वपूर्णपोताश्रयत्वेन उल्लेखः कृतः अस्ति । चिल्का-स्थले चिल्का-तडागः पर्यटनस्य महत्त्वपूर्णं स्थलम् अस्ति । नौकाविहारं, मत्स्यक्रीडां च कर्तुं जनाः तत्र गच्छन्ति । तत्र बहवः वन्यजीवाः सन्ति । तत्र विहगानां, जलचराणां, सरीसृपाणां च विभिन्नप्रजातयः दृश्यन्ते । प्रतिवर्षं शीतर्तौ विहगाणां विभिन्नप्रजातयः चिल्का-तडागं गच्छन्ति । मत्स्यः, कूर्मः, कर्कः इत्यादयः जलचराः अस्मिन् तडागे प्राप्यन्ते । शीतर्तौ चिल्का-स्थलस्य वातावरणं सुखदं, मनोहरं, स्वास्थ्यकरं च भवति । अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति ।

चिल्का-स्थलं ५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एषः राष्ट्रियराजमार्गः चिल्का-स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चिल्का-स्थलं गन्तुं शक्यते । चिल्का-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “रम्भा” इत्येतत् रेलस्थानकं चिल्का-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चिल्का-नगरात् रम्भा-रेलस्थानकं ३२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा चिल्का-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चिल्का-स्थलात् इदं विमानस्थानकं ८१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चिल्का-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चिल्का-नगरं प्राप्नुवन्ति ।

कालाहाण्डी[सम्पादयतु]

कालाहाण्डी-नगरं भारतस्य ओडिशा-राज्यस्य किञ्चन मण्डलम् अस्ति । नगरमिदम् उत्तेयी-तेलनद्योः तटे स्थितम् अस्ति । कालाहाण्डी-नगरे द्वादशशताब्द्याः वास्तुकलायाः प्राचीनमन्दिराणि सन्ति । कालाहाण्डी-मण्डले बहवःजलप्रपातः तडागाः, पर्वताः च सन्ति । पाषाणयुगस्य, लौहयुगस्य च पुरातात्त्विकप्रमाणानि प्राप्तानि । कालाहाण्डी-नगरे कालाहाण्डी-उत्सवः प्रतिवर्षम् आचर्यते । अयमुत्सवः विश्वस्मिन् प्रसिद्धः वर्तते । अस्य उत्सवस्य कला, संस्कृतिः, सङ्गीतं, हस्तकला च सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे बहूनि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । समीपे गुडाहाण्डी-पर्वतस्य घासु प्राचीनचित्रकला दृश्यते । “राबनदढ” नामकः जलप्रपातः अपि वर्तते । अयं जलप्रपातः अत्यन्तं सुन्दरः वर्तते । मोहनगिरी-नगरे एकं प्राचीनं शिव-मन्दिरं विद्यते । “लाल बहादुर शास्त्री” नामकं क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे बहवः क्रीडाः आयोज्यन्ते । वर्षर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । जनाः वर्षर्तौ अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे जनाः सुखेन भ्रमन्ति ।

कालाहाण्डी-नगरं २०१ क्रमाङ्कस्य, २१७ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ कालाहाण्डी-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कालाहाण्डी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कालाहाण्डी-नगरात् भुवनेश्वर-नगराय, कट्टक-नगराय सम्बलपुर-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । केसिङ्गा-नगरस्य रेलस्थानकं कालाहाण्डी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कालाहाण्डी-नगरात् केसिङ्गा-नगरं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । केसिङ्गा-नगरात् बसयानैः भाटकयानैः वा कालाहाण्डी-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । रायपुर-नगरस्य विमानस्थानकं कालाहाण्डी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । रायपुर-विमानस्थानकं कालाहाण्डी-नगरात् २५९ किलोमीटरमिते दूरे स्थितम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकम् अपि कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । विशाखापत्तनम्-नगरं कालाहाण्डी-नगरात् ३४१ किलोमीटरमिते दूरे स्थितम् अस्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कालाहाण्डी-नगरात् इदं विमानस्थानकं ४५० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कालाहाण्डी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कालाहाण्डी-नगरं प्राप्नुवन्ति ।

जयपुरम्[सम्पादयतु]

जयपुर-नगरं भारतस्य ओडिशा-राज्यस्य कोरापुट-मण्डले स्थितम् अस्ति । इदं नगरं “सिटी ऑफ् विक्ट्री” इति नाम्ना ज्ञायते । नगरमिदम् ओडिशा-राज्यस्य दक्षिणभागस्य द्वितीयं बृहत्तमं नगरं विद्यते । इदं नगरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । नगरस्य समीपे सघनानि वनानि, जलप्रपाताः च सन्ति । शक्ति-जलप्रपातः, बागरा-जलप्रपातः, दुदुमा-जलप्रपातः च अस्य नगरस्य समीपस्थाः प्रमुखाः जलप्रपाताः सन्ति । देओमाली-स्थलस्य पर्वतः, कोलाब-नदी च अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । जयपुर-नगरे बहूनि पर्यटनस्थलानि, प्राचीनस्थलानि, दुर्गाः च सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि जयपुर-नगरस्य वैशिष्ट्यं वर्तते । जनाः प्रतिवर्षं भ्रमणार्थं जयपुर-नगरं गच्छन्ति । शीतर्तौ जयपुर-नगरस्य वातावरणं शान्तं सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।

जयपुर-नगरं ५ क्रमाङ्कस्य, ६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ जयपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जयपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जयपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय, विजयानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । पुरा अस्मिन् नगरे विमानस्थानकम् आसीत् । किन्तु साम्प्रतं तद्विमानस्थानकम् अपिनद्धम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकं जयपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । जयपुर-नगरात् इदं विमानस्थानकं २३७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जयपुर-नगरं प्राप्नुवन्ति ।

प्राची उपत्यका[सम्पादयतु]

“प्राची-उपत्यका” ओडिशा-राज्यस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् अस्ति । स्थलमिदं भुवनेश्वर-नगरात् ६१ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं पर्यटनस्थलं प्राचीनद्याः तटे विराजते । सप्तमशताब्दीतः पञ्चदशशताब्दीपर्यन्ताभिः शतादीभिः सम्बद्धानि स्मारकाणि प्राप्यन्ते । स्थलमिदं पुरातात्त्विकस्थलेषु अन्यतमम् अस्ति । इदं स्थलम् ऐतिहासिकदृष्ट्या जनेषु लोकप्रियम् अस्ति । अस्य स्थलस्य समीपे छहट-नामकं स्थलम् अस्ति । “छहट” प्राची-उपत्यकायाः सुन्दरस्थलेषु अन्यतमम् अस्ति । इदं स्थलं प्राचीललित-नद्योः सङ्गमे स्थितम् अस्ति । अस्मिन् स्थले भगवतः विष्णोः प्रतिमा स्थापिता अस्ति । स्थलमिदं रामायणमहाभारताभ्यां सह सम्बद्धम् अस्ति । यतः रामायणमहाभारतकालीनानि बहूनि प्राचीनमन्दिराणि प्राची-उपत्यकायां स्थितानि सन्ति । अम्रेश्वर-स्थले भगवतः शिवस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरं रामायणकालसम्बद्धम् अस्ति । शोभनेश्वर-मन्दिरं, पीढ-मन्दिरं, चामुण्डादेवी-मन्दिरं, ग्रामेश्वर-मन्दिरम् इत्यादीनि प्रमुखाणि प्राचीनानि मन्दिराणि सन्ति । समीपे मणिकर्णिकातीर्थं स्थितम् अस्ति । सरस्वतीप्राचीनद्योः सङ्गमः वर्तते । जनाः प्रत्यमावास्यं तिथौ मणिकर्णिकातीर्थस्य पवित्रजले स्नातुं तत्र गच्छन्ति । शीतर्तौ अस्य स्थलस्य वातावरणं सौम्यं सुखदं च भवति अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः प्राची-उपत्यकां गच्छन्ति ।

प्राची उपत्यका इत्येतत् स्थलं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । राष्ट्रियराजमार्गः इत्येतत् स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य स्थलस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । प्राची-उपत्यकायाः भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकम्, पुरी-नगरस्य रेलस्थानकम् इत्येते अस्य स्थलस्य निकटतमे रेलस्थानके स्तः । एते रेलस्थानके ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धे स्तः । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” प्राची-उपत्यकायाः निकटतमं विमानस्थानकम् अस्ति । अस्मात् स्थलात् इदं विमानस्थानकं ६१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण प्राची-उपत्यका भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धा अस्ति । यात्रिकाः सरलतया प्राची-उपत्यकां प्राप्नुवन्ति ।

परिवहनम्[सम्पादयतु]

ई. स. १९४७ तमवर्षपर्यन्तम् ओडिशा-राज्यस्य परिवहनं सुदृढं नासीत् । समयान्तरे आवश्यकतानुसारम् ओडिशा-राज्यस्य सर्वकारेण परिवहनमार्गाः निर्मापिताः । सर्वकारेण मार्गाणां निर्माणाय बह्व्यः परियोजनाः प्रचालिताः आसन् । साम्प्रतम् अपि राज्ये परिवहनविकासाय विभिन्नाः परियोजनाः प्रचलन्त्यः सन्ति । समुद्रतटे स्थिते सति इदं राज्यं पोताश्रयत्वेन अपि उपयुज्यते । अस्मात् पोताश्रयाद् वस्तूनाम् आयातः निर्यातश्च क्रियते । वस्तूनां क्रयणं विक्रयणं च अपि तत्र भवति ।

भूमार्गः[सम्पादयतु]

ई. स. २००५ तमवर्षपर्यन्तम् ओडिशा-राज्यस्य मार्गाः २,३७,३३२ किलोमीटरमिताः दीर्घाः आसन् । तेषु राष्ट्रियराजमार्गाः ३,७०४ किलोमीटरमिताः, द्रुतगतिराजमार्गाः २९ किलोमीटरमिताः, राजकीयराजमार्गाः ५,१०२ किलोमीटरमिताः, मण्डलमार्गाः ३,१८९ किलोमीटरमिताः, अन्यमार्गाः ६,३३४ किलोमीटरमिताः, ग्राम्यमार्गाः २७,८८२ किलोमीटरमिताः च दीर्घाः सन्ति । ओडिशा-राज्यस्य भूमार्गपरिवहनं साम्प्रतं सुदृढम् अस्ति । ५, ५A, ६,२३, ४२, ४३, ६०, ७५, २००, २०१, २०३, २०३A, २१५, २१७, २२४ इत्यादीनां क्रमाङ्काणां राष्ट्रियराजमार्गाः सन्ति । एतैः राजमार्गैः ओडिशा-राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

ई. स. २००४ तमवर्षपर्यन्तम् ओडिशा-राज्यस्य धूमशकटमार्गाः २.२२७ किलोमीटरमिताः दीर्घाः आसन् । तत्र लघुरेलमार्गाः ९१ किलोमीटरमिताः दीर्घाः सन्ति । राज्येऽस्मिन् भुवनेश्वर-नगरे, पुरी-नगरे, ब्रह्मपुर-नगरे, राउरकेला-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य प्रमुखनगराणि गन्तुं नियमितरूपेण रेलयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं धूमशकटमार्गेण भारतस्य अन्य राज्यैः सह सम्बद्धम् अस्ति ।

वायुमार्गः[सम्पादयतु]

ओडिशा-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । भुवनेश्वर-नगरे, ब्रह्मपुर-नगरे, सम्बलपुर-नगरे, बालेश्वर-नगरे, बलांगीर-नगरे अन्यनगरेषु च विमानस्थानकानि सन्ति । एतेषु विमानस्थानकेषु भुवनेश्वर-नगरे “बीजु पटनाईक विमानस्थानकम्” अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । ततः भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । ओडिशा-राज्यस्य विमानस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, कोलकाता-नगराय, पुणे-नगराय, इन्दौर-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

अनेन प्रकारेण ओडिशा-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण, जलमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं गन्तुं परिवहनं सुखमयं भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]


सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७६
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७६
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७२
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६९
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७३
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७७-१७८
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७७
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८-१७९
"https://sa.wikipedia.org/w/index.php?title=ओडिशाराज्यम्&oldid=389217" इत्यस्माद् पुनः प्राप्तिः