श्रीकाकुळम्मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(श्रीकाकुळम् मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
श्रीकाकुळम् जनपदम्

శ్రీకాకుళం జిల్లా
जनपदम्
बसुदेवमन्दिरम्
बसुदेवमन्दिरम्
Country  भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
जनपदम् श्रीकाकुलम्
Area
 • Total ५,८३७ km
Elevation
१० m
Population
 (2001)
 • Total २५,३७,५९७
 • Density ४०३/km
भाषाः
 • अधिकृतभाषा तेलुगुभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
532 001
दूरवाणिसंज्ञा 0894
Vehicle registration AP30
Website srikakulam.nic.in
आंध्र प्रदेश मण्डलाः.

श्रीकाकुळम् जनपदम् (Srikakulam district)आन्ध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रम् श्रीकाकुळम् नगरम् ।

इतिहासः[सम्पादयतु]

कलिङ्गसाम्राज्ये भासितमिदं श्रीकाकुळजनपदम् । नन्दमौर्यशातवाहनगजपतिमोगल्सम्राट्भिः फेञ्च्, ब्रिटिष् इत्यादिपालकैः च पालितमिदम् । १९३० तमात् वर्षात् पूर्वम् ओडिष्षाराज्यसीमायाम् इदं जनपदम् आसीत् । १९३० तमे वर्षे मद्रासराज्यसीमायां सम्मिलितम् ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य उत्तरस्यां दिशि ओडिष्षा, दक्षिणं, पश्चिमदिशोः विजयनगरजनपदम् , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल, अण्ट्याचल, पालाचल, महेन्द्राचलेत्यादिपर्वतश्रेण्यां शोभते इदं जनपदम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । मण्डले १०० कि.मी. मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।

कृषिः वाणिज्यं च[सम्पादयतु]

धान्यम्, इक्षुः, कदलीमूलम्, इत्यादीनि सस्यानि उप्यन्ते अत्र । तलिनीलापुरे संरक्षणपारिश्रामिकक्षेत्रेऽपि इदमिदानीं वर्धमानम् इदं जनपदम् । वंशधारा, नारायणपुर, ओणिगड्डप्रान्तेषु जलधाराः वाहकाः सन्ति।

वीक्षणीयस्थलानि[सम्पादयतु]

तीर्थस्थानानि तावत् श्रीकूर्मम्, अरसवेल्लि, श्रीमुखलिङ्गम् इत्यादीनि । पोन्दूरुस्थानं खादीवस्त्राणां प्रसिध्दम् । खगानां स्थानमपि वर्तते ।

तालूकाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रीकाकुळम्मण्डलम्&oldid=482063" इत्यस्माद् प्रतिप्राप्तम्