सामग्री पर जाएँ

श्रीकाकुळम्मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(श्रीकाकुळम् मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
श्रीकाकुळम् जनपदम्

శ్రీకాకుళం జిల్లా
जनपदम्
बसुदेवमन्दिरम्
बसुदेवमन्दिरम्
Country  भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
जनपदम् श्रीकाकुलम्
Area
  Total ५,८३७ km
Elevation
१० m
Population
 (2001)
  Total २५,३७,५९७
  Density ४०३/km
भाषाः
  अधिकृतभाषा तेलुगुभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
532 001
दूरवाणिसंज्ञा 0894
Vehicle registration AP30
Website srikakulam.nic.in
आंध्र प्रदेश मण्डलाः.

श्रीकाकुळम् जनपदम् (Srikakulam district)आन्ध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रम् श्रीकाकुळम् नगरम् ।

इतिहासः

[सम्पादयतु]

कलिङ्गसाम्राज्ये भासितमिदं श्रीकाकुळजनपदम् । नन्दमौर्यशातवाहनगजपतिमोगल्सम्राट्भिः फेञ्च्, ब्रिटिष् इत्यादिपालकैः च पालितमिदम् । १९३० तमात् वर्षात् पूर्वम् ओडिष्षाराज्यसीमायाम् इदं जनपदम् आसीत् । १९३० तमे वर्षे मद्रासराज्यसीमायां सम्मिलितम् ।

भौगोलिकम्

[सम्पादयतु]

अस्य मण्डलस्य उत्तरस्यां दिशि ओडिष्षा, दक्षिणं, पश्चिमदिशोः विजयनगरजनपदम् , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल, अण्ट्याचल, पालाचल, महेन्द्राचलेत्यादिपर्वतश्रेण्यां शोभते इदं जनपदम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । मण्डले १०० कि.मी. मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।

कृषिः वाणिज्यं च

[सम्पादयतु]

धान्यम्, इक्षुः, कदलीमूलम्, इत्यादीनि सस्यानि उप्यन्ते अत्र । तलिनीलापुरे संरक्षणपारिश्रामिकक्षेत्रेऽपि इदमिदानीं वर्धमानम् इदं जनपदम् । वंशधारा, नारायणपुर, ओणिगड्डप्रान्तेषु जलधाराः वाहकाः सन्ति।

वीक्षणीयस्थलानि

[सम्पादयतु]

तीर्थस्थानानि तावत् श्रीकूर्मम्, अरसवेल्लि, श्रीमुखलिङ्गम् इत्यादीनि । पोन्दूरुस्थानं खादीवस्त्राणां प्रसिध्दम् । खगानां स्थानमपि वर्तते ।

तालूकाः

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=श्रीकाकुळम्मण्डलम्&oldid=497783" इत्यस्माद् प्रतिप्राप्तम्