नेल्लूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेल्लूरु
—  मण्डलम्  —
View of नेल्लूरु, India
नेल्लूरु
Location of नेल्लूरु
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१४°२६′उत्तरदिक् ७९°५८′पूर्वदिक् / 14.43°उत्तरदिक् 79.97°पूर्वदिक् / १४.४३; ७९.९७

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
मण्डलम् नेल्लूरु
जनसङ्ख्या २९,६६,०८२ (2011)
समयवलयः IST (UTC+05:30)
जालस्थानम् www.enellore.com

नेल्लूरुमण्डलम् (Nellore district) भारतदेशस्य आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति।

इतिहासः[सम्पादयतु]

नेल्लि नाम व्रीहेः अधिकं सस्यं क्रियते इत्यतः अस्य मण्डलस्य नाम नेल्लूरु इति व्यवह्रीयते । मनुमसिध्दिमहाराजेन पालितमिदं प्रान्तं विक्रमसिंहपुरी इति नाम्ना । अस्य मण्डलस्य चारित्रकं प्राधान्यं वर्तते । शातवाहनैः पल्लवैः पश्चिमचालक्यैः चोलैः काकतीयैः, रेड्डिराजैः विजयनगरराजैः, गोल्कोण्डार्काट्नवाब् जनैः, ब्रिटिष्पालकैश्च पालितम् इदं मण्डलम् । आन्ध्रमहाभारतस्य रचयितृषु अन्यतमः मनुमसिध्देः आस्थानकविः तिक्कनसोमयाजी अत्रैव न्यवसत् । १७८१ वत्सरतः इदं मण्डलं ब्रिटिषधीनतां गतम् ।

भौगोलिकम्[सम्पादयतु]

अस्य उत्तरदिशे प्रकाशं मण्डलम्, दक्षिणे चित्तूरुमण्डलम्,तमिलनाडुराज्यं, प्राच्यां बङ्गालाखातसमुद्रः, पश्चिमेकडपा मण्डलं च सीमायां वर्तन्ते । मण्डलविस्तीर्णे १६.१६% अरण्यं वर्तते । वेलिगोण्डसमीपस्थं कण्डलेरुसरः कृष्णापट्टणप्रान्ते बङ्गालाखाते विलीनं भवति । स्वर्णमुखीनदी सूल्लूरुपेट, वेङ्गटगिरि-प्रान्तरतोर्मध्ये प्रोह्य सिध्दवरप्रान्ते समुद्रे विलीना भवति । अधिकतया झञ्झावातेन पीड्यमानम् इदं मण्डलम् । २०० कि.मी. मितः राजमार्गः निर्मितः । रेल्मार्गद्वयं वर्तते अस्मिन् मण्डले ।

कृषिः वाणिज्यं च[सम्पादयतु]

रक्तशिलाः, अल्यूवियल् शिलाः च विरलतया सन्ति । प्रधानसस्येन सह धूमपत्रम्, कलायः इत्यादीनां वाणिज्यसस्यानां च सेद्यं भवति । चतुर्षु प्रदेशेषु कृषिपरिशोधनकेन्द्राणि सन्ति। पेरुमाल्लपल्लि (इक्षु), नेल्लूरु (वीहिः), पोदलकूरु (सज्ज), कावलि (भल्लातकः), पिनाकिनी, सोमशिला, राल्लपाडु, मोपाडु इत्येतेभ्यः प्रान्तेभ्यः जलसेतूनां द्वारा नेल्लूरुसमितेः जलनियन्त्रकाणां द्वारा सेद्यजलं लभ्यते । पेन्नानदी सोमशिलाप्रान्ते प्रविश्य ११२ कि.मी.प्रोह्य बङ्गलाखातसमुद्रे विलीना भवति ।

वीक्षणीयस्थलानि[सम्पादयतु]

कृष्णपट्टणे नौका केन्द्रं वर्तते । मोहनरङ्गनायकस्वामि देवालयः, पुलिकाट्सरः, श्रीहरिकोट अन्तरिक्षप्रयोगशाला, सोमशिला जलाशयः च दर्शनीयस्थलानि वर्तन्ते । अङ्गारविद्युत्केन्द्रमपि वर्ततेत्र ।

तालूकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नेल्लूरुमण्डलम्&oldid=482139" इत्यस्माद् प्रतिप्राप्तम्