सामग्री पर जाएँ

गोल्कोण्डदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोल्कोण्ड
गोल्कोण्डदुर्गम्
सामान्यसूचनाः
देशः भारतम्
निदेशाङ्काः १७°२३′उत्तरदिक् ७८°२४′पूर्वदिक् / 17.38°उत्तरदिक् 78.40°पूर्वदिक् / १७.३८; ७८.४०
समाप्तम् 1600s
दुर्गस्य अवशेषाः
दुर्गे यात्रिकाः
अत्र प्राप्तं दर्या-ए-नूर् नामकं बृहत् वज्रम्
अत्र प्राप्तं होप् नामकवज्रम्

ऐतिहासिकं दुर्गमेतत् पूर्वं वारङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान क्वालि कुतुब षाह क्रिस्ताब्दे १५१२ तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य १५९० तम वर्षपर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्लीसुल्तानसैन्यम् विरुद्ध्य युद्धं कृतवान् । हैदराबादनगरात् पश्चिमभागे ४०० पादमितोन्नते स्थले ग्रान्नैटशिलाभिः निर्मितं दुर्गम् ७ कि.मीटर् परीधियुक्तम् अस्ति । तत्र तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनाना(राज्ञीवासः) रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् । नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जल वितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जार बालाहिसार मुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् । प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादृशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति १२० मीटर् उपरिप्रदेशे शब्दश्रवणम् स्पष्टतया भवति । उपरिगन्तुम् ३६० सोपानानि सन्ति । इतिहासानुसारम् भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरम् रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लि महामार्गतः कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बरमासतः फेब्रवरीमासम् यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं दृष्टुं शक्नुवन्ति । सायम् ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=गोल्कोण्डदुर्गम्&oldid=332454" इत्यस्माद् प्रतिप्राप्तम्